यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डली, [न्] पुं, (मण्डलं कुण्डलनं कुण्डला कारेणशरीरवेष्टनमस्यास्तीति । मण्डल + इनिः । सर्पः । इति त्रिकाण्डशेषः ॥ विडालः । इति शब्दमाला ॥ जाहकः । इति हेमचन्द्रः ॥ खट्टाश इति भाषा ॥ वटवृक्षः । गोनाश- सर्पः । इति राजनिर्घण्टः ॥

मण्डली, स्त्री, (मण्डलमस्त्यस्या इति । अर्श आद्यच् । गौरादित्वात् ङीष् ।) दूर्व्वा । इति हारावली ॥ (स्त्री, गुडूची ॥ तत्पर्य्यायो यथा, “गुडूची मधुपर्णी स्यादमृतामृतवल्लरी । छिन्ना च्छिन्नरुहा च्छिन्नोद्भवा वत्सादनीति च ॥ जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली । चक्रलक्षणिकाधीरा विशल्या च रसायनी ॥ चन्द्रहासी वयस्था च मण्डली देवनिर्म्मिता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डली f. Panicum Dactylon L.

मण्डली in comp. for मण्डल.

"https://sa.wiktionary.org/w/index.php?title=मण्डली&oldid=315818" इत्यस्माद् प्रतिप्राप्तम्