मत्स्यः
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मत्स्यः, पुं स्त्री, (माद्यन्ति लोका अनेनेति । मद् + “ऋतन्यञ्जीति ।” उणा० । ४ । २ इति स्यन् ।) स्वनामख्यातजलजन्तुः । माछ इति भाषा ॥ तत्पर्य्यायः । पृथुरोमा २ झसः ३ मीनः ४ वैसारिणः ५ अण्डजः ६ विसारः ७ शकली ८ । इत्यमरः । १ । १० । १७ ॥ शन्धली ९ झषः १० आत्माशी ११ संवरः १२ मूकः १३ जले- शयः १४ कण्टकी १५ शल्की १६ मच्छः १७ अनिमिषः १८ । इति शब्दरत्नावली ॥ शुङ्गी १९ । इति जटाधरः ॥ तस्य गुणाः । बृंहणत्वम् । गुरुत्वम् । शुक्रबर्द्धनत्वम् । बल्यत्वम् । स्निग्ध- त्वम् । उष्णत्वम् । मधुरत्वम् । कफपित्तकर- त्वम् । व्यायामाध्वरतदीप्ताग्नीनां पूजितत्वम् । वातरोगहरत्वञ्च ॥ * ॥ बृहन्मत्स्यगुणाः । गुरु- त्वम् । शुक्रलत्वम् । मलबद्धकारित्वञ्च ॥ * ॥ क्षुद्रमत्स्यगुणाः । लघुत्वम् । ग्राहित्वम् । ग्रहणीरोगे हितत्वञ्च ॥ * ॥ कृष्णमत्स्यगुणाः । लघुत्वम् । स्निग्धत्वम् । वातघ्नत्वम् । वह्निवर्द्धन- त्वञ्च ॥ * ॥ पाण्डरमत्स्यगुणाः । दोषलत्वम् । स्निग्धत्वम् । गुरुत्वम् । मलभेदित्वञ्च ॥ * ॥ क्वथितमत्स्यस्य अर्थात् पूतिमत्स्यस्य गुणः । दोषलत्वम् ॥ * ॥ शुष्कमत्स्यगुणौ । विष्ट- म्भित्वम् । दुर्ज्जरत्वञ्च ॥ * ॥ लवणभावित- मत्स्यगुणाः । कफपित्तकरत्वम् । सारकत्वम् ॥ सामुद्रमत्स्यगुणाः । लघुत्वम् । वृष्यत्वम् । मधु- रत्वम् । स्वल्पमलकारित्वञ्च । “सामुद्रा गुरवो वृष्याः स्निग्धोष्णा वात- नाशनाः ।” इति पाठान्तरम् ॥ * ॥ (तथास्य पर्य्यायाः गुणाश्च । “मत्स्यो मीनो विकारश्च उषो वैसारिणोऽण्डजः । शकुलः पृथुरोमा च स सुदर्शन इत्यपि ॥ रोहिताद्यास्तु ये जीवास्ते मत्स्याः परिकी- र्त्तिताः । मत्स्याः स्निग्धोष्णमधुरा गुरवः कफपित्तलाः ॥ वातघ्ना बृंहणा वृष्या रोचका बलवर्द्ध्वनाः । मद्यव्यवायसक्तानां दीप्ताग्नीनाञ्च पूजिताः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ “मत्स्या रोहितपाठीनकूर्म्मकुम्भीरकर्कटाः । शुक्तिशङ्खोड्रशम्बूकशफरीवर्म्मिचन्द्रिका ॥ चुलूकीनक्रमकरशिशुमारतिमिङ्गिलाः । राजीवाः चिलिचिमाद्याश्च ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥ मत्स्यास्तु द्विविधा नादेयाः सामुद्राश्च । तत्र निवेद्य देवताभ्यश्च ब्राह्मणेंभ्यश्च नान्यथा ॥ सफरं सिंहतुण्डञ्च तथा पाठीन-रोहितौ । मत्स्यास्त्वेते समुद्दिष्टा भक्षणाय तपोधनैः ॥ प्रोक्षितं भक्षयेदेषां मांसञ्च द्बिजकाम्यया । यथाविधिनियुक्तश्च प्राणानामपि चात्यये ॥” इति कौर्म्मे उपविभागे १६ अध्यायः ॥ अपि च । “पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः । राजीवान् सिंहतुण्डांश्च सशल्कांश्चैव सर्व्वशः ॥” इति मानवे ५ अध्यायः ॥ “अनिवेद्य न भोक्तव्यं मत्स्यं मांसञ्च यद्भवेत् । अन्नं विष्ठा पयो मूत्रं यद्विष्णोरनिवेदितम् ॥” इत्याह्निकतत्त्वम् ॥ प्रेतश्राद्धे मत्स्यदानविधिर्यथा, -- “सपिण्डीकरणं यावत् प्रेतश्राद्धन्तु षोडशम् । पक्वान्नेनैव कर्त्तव्यं सामिषेण द्विजातिभिः ॥” इति श्राद्धतत्त्वधृतकामधेनुवचनम् ॥
मत्स्यः, पुं, (जलं प्राप्य माद्यतीति मद् + “ॠत्यन्यञ्जीति ।” उणा० । ४ । २ । इति स्यन् ।) मीनविशेषः । विराटदेशः । नारायणः । इति हेमचन्द्रः । ४ । ४०९ ॥ देशविशेषे बहुवचनान्तः । इति मेदिनी । ये, ४५ ॥ द्वादशराशिः । यथा, “मत्स्यौ घटी नृमिथुनं सगदं सवीणम् ॥” इत्यादि ज्योतिस्तत्त्वम् ॥ अष्टादशपुराणान्तर्गतपुराणविशेषः ॥ (मत्स्य- रूपेणावतीर्णेन भगवता उक्तत्वात् अस्य तदाख्या ।) यथा, -- “पुण्यं पवित्रमायुष्यमिदानीं शृणुत द्विजाः । मात्स्यं पुराणमखिलं यज्जगाद गदाधरः ॥” इति मत्स्यपुराणे १ अध्यायः ॥ दशावतारान्तर्गतप्रथमावतारः । यथा, -- सूत उवाच । “पुरा राजा मनुर्नाम चीर्णवान् विपुलं तपः । पुत्त्रे राज्यं समारोप्य क्षमावान् रविनन्दनः ॥ मलयस्यैकदेशे तु सर्व्वात्मगुणसंयुतः । समदुःखसुखो वीरः प्राप्तवान् योगमुत्तमम् ॥ बभूव वरदश्चास्य वर्षायुतशते गते । वरं वृणीष्व प्रोवाच प्रीतः स कमलासनः ॥ एममुक्तोऽब्रवीद्राजा प्रणम्य स पितामहम् । एकमेबाहमिच्छामि त्वत्त्वो वरमनुत्तमम् ॥ भूतग्रामस्य सर्व्वस्य स्थावरस्य चरस्य च । भविता रक्षणे यानं प्रलये समुपस्थिते ॥ एवमस्त्विति विश्वात्मा तत्रैवान्तरधीयत । पुष्पवृष्टिश्च महती स्वात् पपात सुरार्पिता ॥ कदाचिदाश्रभे तस्य कुर्व्वतः पितृतर्पणम् । पपात पाण्योरुपरि शफरी जलसंयुतः ॥ दृष्ट्वा तच्छफरीरूपं स दयाजुर्महीपतिः । रक्षणायाकरोद्यत्नं स तस्मिन् करकोदरे ॥ अहोरात्रेण चैकेन षोडशाङ्गुलविस्तृतः । सोऽभवन्मत्स्यरूपेण पाहि पाहीति चाब्रवीत् ॥ स तमादाय मलिके प्राक्षिपज्जलचारिणम् ॥ तत्रापि चैकरात्रेण हस्तत्रयमवर्द्धत ॥ रक्तोत्पलैर्वा पद्मैर्वा मालत्याद्यैः सुगन्धिभिः । एवं कृते वर्षमेकं मन्त्रसिद्धिः प्रजायते ॥ नित्यं द्वादशविप्रांश्च श्रीरूपाञ्च सुवासिनीम् । भोजयेत् पूजनञ्चास्य चरेत्तौ व्याशयेत् सदा ॥ षट्पत्रकर्णिकायाञ्च श्रीयुतं देवमर्च्चयेत् । षट्पत्रेषु षडङ्गानि यजेद्वाह्यचतुर्द्दले ॥ मण्डूकं मकरं कूर्म्मं शिशुमारञ्च पूर्ब्बतः । तद्बाह्येऽष्टदले पूज्याः क्षाराद्याः सप्त सिन्धवः ॥ तद्बाह्येऽङ्कदले पूज्या वामुक्याद्याः फणीश्वराः । तस्य वाह्ये शक्रदले रत्नानि तु चतुर्द्दश ॥ समुद्रजानि पूज्यानि लक्ष्मीकौस्तुभकानि च । गङ्गाद्याः षोडश ततो महानद्यः प्रपूजयेत् ॥ ततश्चाष्टदले वेदानुपवेदसमन्वितान् । दिगीशांश्च तदस्त्राणि नवावरणपूजनम् । एवं सिद्धमनुर्मन्त्री जायते सिद्धिभाजनम् ॥ एतदुक्तशतं मन्त्रं जपेदष्टोत्तरं शतम् । तद्देवतादिने सिद्धः पुस्तकादेव जायते ॥ अकुण्ठितप्रयोगेषु न पुनस्तस्य संस्कृतिः । एतत्पल्लविता मन्त्रा मम सिद्ध्यन्ति पार्व्वति ! ॥ एतत्संपुठिताः सर्व्वे वैदिकाः सिद्धिदाः कलौ । अनेन ग्रथिता जप्ताः कलेश्च द्रुतसिद्धिदाः ॥” इति मेरुतन्त्रे २६ प्रकाशः ॥
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मत्स्यः [matsyḥ], [मद्-स्यन्; Uṇ.4.2]
A fish; शूले मत्स्यानिवा- पक्ष्यन् दुर्बलान् बलवत्तराः Ms.7.2.
A particular variety of fish.
A king of the Matsyas. -त्स्यौ (dual) The sign Pisces of the zodiac. -त्स्याः (pl.) N. of a country and its inhabitants, the country of Virāṭa q. v.; Ms. 2.19. -Comp. -अक्षका, -अक्षी N. of a kind of Soma plant. -अद्, -अदन, -आद a. feeding on fish, a fisheater. -अवतारः the first of the ten incarnations of Viṣṇu; (during the reign of the seventh Manu, the whole earth, which, had become corrupt was swept away by a flood, and all living beings perished except the pious Manu and the seven sages who were saved by Viṣṇu in the form of a fish); cf. Jayadeva's description of this avatāra.; प्रलयपयोधिजले धृतवानसि वेदं विहित- वहित्रचरित्रमखेदम् । केशव धृतमीनशरीर जय जगदीश हरे Gīt.1.
अशनः a king-fisher.
one who eats fish. -अशिकa. fish-eater; मत्स्याशिका लासिका Mk.1.23. -असुरः N. of a demon. -आधानी, -धानी a fish-basket (used by fishermen). -उदरिन् m. an epithet of Virāṭa. -उदरी an epithet of Satyavatī. -उदरीयः an epithet of Vyāsa. -उद्वर्तनम् a kind of dance; Dk.2.8. -उप- जीविन् m., -आजीवः a fisherman. -करण्डिका a fishbasket. -कीशः an elephant; Gīrvāṇa. -गन्ध a. having the smell of fish. (-न्धा) N. of Satyavatī. -घण्टः a kind of fish-sauce.
घातः the killing or catching of fishes, the occupation of a fisherman; मत्स्यघातो निषादानाम् Ms.1.48.
a fisherman. -घातिन्, -जीवत्, -जीविन्m. a fisherman. -जालम् a fishing-net. -देशः the country of the Matsyas. -द्वादशी N. of the twelfth day in the month of मार्गशीर्ष. -नारी 'half-fish, half-woman', an epithet of Satyavatī. -नाशकः, -नाशनः an osprey. -पुराणम् N. of one of the eighteen Purāṇas. -पित्ता Helleborus Niger (Mar. केदारकुटकी). -बन्धः, -बन्धिन्m. a fisherman; कदाचित्तं जलस्थायं मत्स्यबन्धाः समन्ततः Mb. 12.137.5. -बन्धनम् a fish-hook, an angle. -बन्ध (न्धि)नी a fish-basket. -मांसम् fish-flesh; द्वौ मासौ मत्स्यमांसेन Ms.3.268. -रङ्कः, -रङ्गः, -रङ्गकः a halcyon, king-fisher.
राजः the Rohita fish.
N. of Virāṭa.-वेधनम्, -वेधनी an angle. -वेधनी a cormorant.-व्रतिन् one who lives in water. -संघातः a shoal of fish. -सन्तानिकः fish cooked with sauce; दग्धोङ्गारे सलवणो वेशवारैरुपस्कृतः । सार्द्रकः कटुतैलेन मत्स्यसन्तानिको भवेत् Śabdachandrikā.