मधुर
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुरम्, क्ली, (मधु + रः ।) वङ्गम् । इति राज- निर्घण्टः ॥ विषम् । इति मेदिनी । रे, १९५ ॥ (वङ्गशब्दे विषशब्दे च विवरणमस्य ज्ञातव्यम् ॥)
मधुरः, पुं, (मधु माधुर्य्यं रातीति । रा + कः । यद्वा, मधुमाधुर्य्यमस्यास्तीति । “ऊषसुषिमुष्क- मधो रः ।” ५ । २ । १०७ । इति रः ।) मिष्टरसः । इत्यमरः । १ । ५ । ९ ॥ स च इक्ष्वादौ लक्ष्यते । तत्पर्य्यायः । गौल्यः २ । इति राजनिर्घण्टः ॥ रसज्येष्ठः ३ गुल्यः ४ स्वादुः ५ मधूलकः ६ । इति हेमचन्द्रः । ६ । २४ ॥ तस्य गुणाः । प्रीणनत्वम् । बल्यत्वम् । बृंहणत्वम् । वायुपित्तनाशित्वम् । रसायनत्वम् । गुरुत्वम् । स्निग्धत्वम् । चक्षुष्य- त्वम् । तर्पणत्वम् । सरत्वञ्च । अन्यच्च । “रसो मधुरकः शीतो धातुस्तन्यबलप्रदः । चक्षुष्यो वातपित्तघ्नः कुर्य्यात् स्थौल्यकफक्रमीन् ॥ सोऽतियुक्तो ज्वरश्वासगलगण्डादिरोगकृत् ॥” इति राजवल्लभः ॥ अपि च । “मधुरस्तु रसश्चिनोति केशान् बपुषः स्थैर्य्यबलौजोवीर्य्यदायी । अतिसेव्रनतः प्रमेहशैत्य- जडतामान्द्यमुखान् करोति दोषान् ॥” इति राजनिर्घण्टः ॥ (यथा च वाभटे सूत्रस्थाने दशमेऽध्याये ॥ “रसानामिति रूपाणि कर्म्माणि मधुरो रसः । आजन्मसात्म्यात् कुरुते धातूनां प्रबलं बलम् । बालवृद्धक्षतक्षीणवर्णकेशेन्द्रियौजसाम् ॥ प्रशस्तो बृंहणो कण्ठ्यः स्तन्यसन्धानकृद्गुरुः । आयुष्यो जीवनः स्निग्धः पित्तानिलविषापहः ॥ कुरुतेऽत्यु पयोगेन समेदःकफजान् गदान् । स्थौल्याग्निसादसंन्यासमेहगण्डार्व्वुदादिकान् ॥” अपिच । “तत्र मधुरो रसः शरीरसात्म्याद्रसरुधिरमांस- मेदोऽस्थिमज्जौजः शुक्राभिवर्द्धन आयुष्यः षडि- न्द्रियप्रसादनो बलवर्णकरः पित्तविषमारुतघ्न- स्तृष्णाप्रशमनः त्वच्यः केश्यः कण्ठ्यः प्रीणनो जीवनस्तर्पणः स्नेहनः स्थैर्य्यकरः क्षीणक्षत- सन्धानकरः घ्राणमुखकण्ठोष्ठतालुप्रह्लादनो दाहमूर्च्छाप्रशमनः षट्पदपिपीलिकाना- मिष्टतमः स्निग्धः शीतो गुरुश्च । स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानः स्थौल्यं मार्द्दवमालस्यमतिस्वप्नं गौरवमनन्नाभिलाष- मग्नेर्द्दोबल्यमास्यकण्ठमांसाभिवृद्धिं श्वासकास- प्रतिश्यायालसकशीतज्वरानाहास्यमाधुर्य्यव- मथुसंज्ञास्वरप्रणाशगलगण्डमालाश्लीपदगल- शोफवस्तिधमनीगुदोपलेपाक्ष्यामयानभिष्य- मित्येवंप्रभृतीन् कफजान् विकारानुपजनयन्ति । “स्नेहनप्रीणनाह्लादमार्द्दवैरुपलभ्यते । मुखस्थो मधुरश्चास्यं व्याप्नुव~ल्लिम्पतीव च ॥” इति चरके सूत्रस्थाने २६ अध्याये ॥) जीवकः । रक्तशिग्रुः । राजाम्रः । रक्तेक्षुः । गुडः । शालिः । इति च राजनिर्घण्टः ॥ (बीजपूरविशेषः । तत्पर्य्यायो यथा, -- “बीजपूरोऽपरः प्रोक्तो मधुरो मधुकर्कटी ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ स्कन्दस्यसैनिकभेदः । यथा महाभारते । ९ । ४५ । ६९ । “मधुरः सुप्रसादश्च किरीटी च महाबलः ॥”)
मधुरः, त्रि, (मधु माधुर्य्यमस्यास्तीति । “ऊषसुषि- मुष्कमधो रः ।” ५ । २ । १०७ । इति रः ।) मधुररसविशिष्टः । स्वादुः । (यथा, हितोप- देशे । १ । ७९ । “न धर्म्मशास्त्रं पठतीति कारणं न चापि वेदाध्ययनं दुरात्मनः । स्वभाव एवात्र तथातिरिच्यते यथा प्रकृत्या मधुरं गवां पयः ॥”) प्रियः । इति मेदिनी । रे, १९५ ॥ पारि- भाषिकमधुराणि यथा । विदग्धोक्तिः । प्रिया- धरकुचादिः । शशी । स्त्रियः । बालोक्तिः । इति कविकल्पलता ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुर पुं।
मधुररसः
समानार्थक:मधुर
1।5।9।1।3
तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः। तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु॥
पदार्थ-विभागः : , गुणः, रसः
मधुर वि।
मधुरम्
समानार्थक:स्वादु,मधुर
3।3।192।1।1
स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ। उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥
पदार्थ-विभागः : , गुणः, रसः
मधुर वि।
प्रियम्
समानार्थक:अभीष्ट,अभीप्सित,हृद्य,दयित,वल्लभ,प्रिय,मधुर
3।3।192।1।1
स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ। उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥
पदार्थ-विभागः : , द्रव्यम्
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुर¦ पु॰ मधु माधुर्य्यं राति रा--क, अस्त्यर्थे र वा।
१ गुडादिस्थे मिष्टरसे माधुर्य्यरसवति इक्ष्याढौ च मेदि॰
“मधुरया मधुबोधितमाधवी” माघः।
३ प्रिये
४ स्वादौच त्रि॰ मेदि॰।
५ रक्तशिश्रौ
६ राजा{??}
७ रक्तेक्षौ
८ गुडे
९ शाकौ,
१० जीरके च पु॰ राजनि॰
११ वङ्गे
१२ विषेच न॰ मेदि॰
१३ शतपुष्यायां
१४ वष्टिमधौ
१५ मधुकर्कटि-कायां
१६ मधूल्यां
१७ मेदायां
१८ यथुरानगर्य्यां च स्त्रीमेदि॰
१९ काकोल्यां
२० शतानर्य्यां
२१ वृहज्जीवन्त्यां
२२ पासङ्कशाके
२३ मिश्याञ्च (मौरी) स्त्री। स्वार्थे क। अत इत्त्रम्। मिश्याम् स्त्री अमरः।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुर¦ mfn. (-रः-रा-रं)
1. Sweet.
2. Pleasing, agreeable, liked. m. (-रः)
1. The sweet taste, sweetness.
2. A drug, commonly Jivaka.
3. Mo- lasses.
4. The red sugar-cane.
5. Rice.
6. A kind of mango tree. n. (-रं)
1. Poison.
2. Tin.
3. Treacle, syrup. f. (-रा)
1. A sort of fennel, (Anethum sowa or panmorium. Rox.)
2. Anise, (Pimpinella anisum.)
3. A plant, (Sanseviera zeylanica.)
4. Liquorice.
5. The sweet lime.
6. Marrow.
7. The city Mathura
4.
8. A Medicinal plant, commonly Kakko4li.
9. Asparagus recomosus.
10. Bengal beet. E. मधु honey, and रा to get or be, aff. क; to have the flavour of honey, to be as sweet.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुर [madhura], a. [मधु-माधुर्यं राति रा-क, मधु-अस्त्यर्थे र वा]
Sweet; यथा प्रकृत्या मधुरं गवां पयः H.
Honied, mellifluous.
Pleasant, charming, attractive, agreeable; अहो मधुरमासां दर्शनम् Ś.1; Ku.5.9; Māl.2.11; किमिव हि मधुराणां मण्डनं नाकृतीनाम् Ś.1.2; मधुरया मधुबोधितमाधवी ... Śi.6.2.
Melodious (as a sound); पुंस्कोकिलो$यं मधुरं चुकूज Ku. 3.32.
रः The red sugar-cane.
Rice.
A kind of sugar, molassess (गुड).
A kind of mango.
Cuminseed.
रा Liquorice.
Sour ricewater.
N. of the city Mathurā.
N. of plants like काकोली, शतावण, बृहज्जीवन्ती.
Sweet fennel (Mar. बडीशेप). -री A kind of musical instrument.
रम् Sweetness.
A sweet drink, syrup.
Poison.
Tin. -रम् ind. Sweetly, pleasantly, agreeably. (मधुरेण ind. in a kindly or friendly manner; नहि दुर्योधनो राज्यं मधुरेण प्रदास्यति Mb.5.4.1.) -Comp. -अक्षर a. sounding sweetly, uttering sweet sounds, melodious; कूजन्तं रामरामेति मधुरं मधुराक्षरम् Rām. Stotra 34. -अङ्गकः astringent taste.
अम्लः the orange.
the pomegranate.
some sour plants. -अम्लकः the hog-plum. -अष्टकम् N. of a collection of 8 verses by Vallabhāchārya. -आलाप a. uttering sweet sounds. (-पः) sweet or melodious notes; मधुरालापनिसर्गपण्डिताम् Ku.4.16. (-पा) a kind of thrush. -उपन्यासः kind address or speech. -कण्टकः a kind of fish. -जम्बीरम् a species of lime. -त्रयम् = मधुत्रयम् q. v. -फलः a sort of jujube tree (राजबदर). -भाषिन्, -वाच् a. sweet-speaking.-मिशिः f. sweet fennel (Mar. बडीशेप). -लता a kind of liquorice. -विपाक a. sweet after digestion. -स्रवा a kind of date tree. -स्वनः a conch. -स्वर, -स्वन a. warbling sweetly, sweet-voiced.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुर mf( आ)n. sweet , pleasant , charming , delightful A1s3vGr2. R. Sus3r. etc.
मधुर mf( आ)n. sounding sweetly or uttering sweet cries , melodious , mellifluous MBh. Ka1v. etc. (656181 अम्ind. )
मधुर m. sweetness L.
मधुर m. a kind of leguminous plant Car.
मधुर m. the red sugar-cane L.
मधुर m. a species of mango L.
मधुर m. a Moringa with red flowers L.
मधुर m. rice L.
मधुर m. a partic. drug(= जीवक) L.
मधुर m. molasses L.
मधुर m. sour gruel (also f( आ). ) L.
मधुर m. N. of one of the attendants of स्कन्दMBh.
मधुर m. of a गन्धर्व, SaddhP.
मधुर m. (with आचार्य) , of a teacher Cat. (See. , माधुर)
मधुर m. Beta Bengalensis L.
मधुर m. Asparagus Racemosus and other plants L.
मधुर m. liquorice L.
मधुर m. a kind of root similar to ginger L.
मधुर m. sour rice-water L.
मधुर m. N. of a town(= मथुरा) Pat. on Pa1n2. 1-2 , 51 Va1rtt. 5
मधुर m. of the tutelary deity of the race of वन्धुलCat.
मधुर f.( ई) kind of musical instrument L.
मधुर n. kind or friendly manner (only 656203 रेणind. ) Hariv.
मधुर n. the quality of the throat which makes the voice sweet L.
मधुर n. sweetness , syrup , treacle L.
मधुर n. poison L. tin L.
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
MADHURA : A soldier of Subrahmaṇya. (Sloka 71, Chapter 45, Śalya Parva).
_______________________________
*8th word in right half of page 459 (+offset) in original book.