मधुसूदन
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुसूदनः, पुं, (मधु पुष्परसं सूदयति भक्षय- तोति । सूद् + णिच् + ल्युः ।) भ्रमरः । इति जटाधरः ॥ (मधुं तन्नामानं असुरं सूद- यति नाशयतीति । सूद् + णिच् + ल्युः ।) श्रीकृष्णः । इत्यमरटीकायां भरतः ॥ (पक्षद्वये एकः श्लिष्टश्लोको यथा, छन्दोमञ्जर्य्याम् । ११ । ३ । “वनेषु कृत्वा सुरभिप्रचारं प्रकाममुग्धो मधुवासरेषु । गायन् कलं क्रीडति पद्मिनीषु मधूनि पीत्वा मधुसूदनोऽसौ ॥”) श्रीकृष्णपक्षे व्युत्पत्तिर्यथा, -- “सूदनं मधुदैत्यस्य यस्मात् स मधुसूदनः । इति सन्तो वदन्तीशं वेदैर्भिन्नार्थमीप्सितम् ॥ मधु क्लीवञ्च माध्वीके कृतकर्म्मशुभाशुभे । भक्तानां कर्म्मणाञ्चैव सूदनं मधुसूदनः ॥ परिणामाशुभं कर्म्म भ्रान्तानां मधुरं मधु । करोति सूदनं यो हि स एव मधुसूदनः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः ॥ तस्य स्मरणफलम् । “महाविपत्तौ संसारे यः स्मरेन्मधुसूदनम् । विपत्तौ तस्य सम्पत्तिर्भवेदित्याह शङ्करः ॥” तत्रैव प्रकृतिखण्डे ३४ अध्यायः ॥ (सरस्वत्युपनामकः कविविशेषः । यथा, श्रीमद्- भगवद्गीताटीकायाम् । “व्याख्यातं भगवत्पदैः प्रतिपदं श्रीशङ्कराख्यैः पुनर्व्विस्पष्टं मधुसूद- नेन मुनिना स्वज्ञानसिद्ध्यै कृतम् ॥” अयं हि अद्वैतसिद्धिप्रस्थानभेदभगवद्गीताटीका- महिम्नस्तवटीकासिद्धान्तबिन्दुटीकाद्यनेकग्रन्थ- कर्त्ता ॥)
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुसूदन¦ पु॰ मधुं तन्नामासुरं सूदयति, मधु, जीवानांशुभाशुभकर्म, ज्ञानदानेन सूदयति वा सूद--ल्यु।
१ श्रीकृष्णे।
“भक्तानां कर्मणाञ्चैव सूदनान् मधुसूदनः” तन्नामनिरुक्तेः। मधु माध्वीकं सूदयति भक्षयति।
२ भ्रमरे जटा॰ पुंस्त्री॰ स्त्रियां ङीष्। मधु इव सूद्यतेभक्ष्यते ल्युट् ङीप्।
३ पालङ्गीशाले स्त्री हेमच॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुसूदन¦ m. (-नः) A name of VISHN4U. f. (-नी) Bengal beet. E. मधु the Daitya or honey, and सूदन destroyer.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मधुसूदन/ मधु--सूदन m. " destroyer of honey " , a bee L.
मधुसूदन/ मधु--सूदन m. " destroyer of the demon मधु" , N. of विष्णु-कृष्णMBh. R. etc.
मधुसूदन/ मधु--सूदन m. N. of various scholars Cat.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--an epithet of विष्णु; फलकम्:F1: Br. III. ७१. ५२, २०८. M. 7. १५; 9. 1; १६. 3; Vi. III. 7. १४-6; V. 5. २१; 6. 1; 7. 5; १२. 5; १३. १७; २०. ७४, ८५; २१. 9; २६. ११; ३१. १८; ३३. १८.फलकम्:/F temple of, in the हिमालयन् slopes visited by पुरूरवस्; फलकम्:F2: M. ११९. ३९; १६७. ४१; २४३. १३; २४४. ५२; २४८. १०; २४९. ४५; वा. ९६. ५१, २०३; ९९. ४४.फलकम्:/F also मधुद्विष. फलकम्:F3: Vi. V. ३३. ३६, ३९; ३४. ३४; ३७. १५; VI. 4. 6.फलकम्:/F
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
MADHUSŪDANA : Another name for Śrī Kṛṣṇa. Because he killed an Asura named Madhu he was called Madhusūdana. (Śloka 16, Chapter 207, Vana Parva).
_______________________________
*12th word in right half of page 459 (+offset) in original book.