यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्याह्नः, पुं, (मध्यं अहः समासान्तः टच् । “अह्नोऽह्न एतेभ्यः ।” ५ । ४ । ८८ । इत्यह्नादेशः पुंस्त्वञ्च ।) अह्रोऽष्टममुहूर्त्तात्मकमध्यभागः । स च कुतपकालस्य संज्ञाविशेषः । यथा, -- “अह्रो मुहूर्त्ता विख्याता दश पञ्च च सर्व्वदा । तत्राष्टमो मुहूर्त्तो यः सः कालः कुतपः स्मृतः । मध्याह्रे सर्व्वदा यस्मान्मन्दीभवति भास्करः । तस्मादनन्तफलदस्तत्रारम्भो विशिष्यते ॥ मध्याह्रः खड्गपात्रञ्च तथा नेपालकम्बलम् । रौप्यं दर्भास्तिला गावो दौहित्रं चाष्टमः स्मृतः ॥ पापं कुत्सितमित्याहुस्तस्य सन्तापकारिणः । अष्टावेते यतस्तस्मात् कुतपा इति संस्मृताः ॥” इति मत्स्यपुराणे श्राद्धकल्पे २२ अध्यायः ॥ त्रिधाविभक्तदिनमध्यभागः । स च दशदण्डात् परं दशदण्डरूपः । इति श्रुत्युक्तः अमरोक्तश्च ॥ पञ्चधाविभक्तदिनतृतीयभागः । स तु द्वादश- वैश्वदेवनिमित्तं वै देवयज्ञः स वै स्मृतः ॥ यदि स्याल्लौकिके पक्वं ततोऽन्नं तत्र हूयते । शालाग्नौ तत्र देवान्नं विधिरेष सनातनः ॥ देवेभ्यश्च हुतान्दद्यात् शेषान् भूतबलिं हरेत् । भूतयज्ञः स वै ज्ञेयो भूतिदः सर्व्वदेहिनाम् ॥ श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यो नित्यमेव च । दद्याद्भूमौ बलिं त्वन्नं पक्षिभ्योऽथ द्विजोत्तमः ॥ सायं चान्नस्य सिद्धस्य कुर्य्यादेवमतन्द्रितः । भूतयज्ञः स्वयं नित्यं सायं प्रातर्विधीयते ॥ एकन्तु भोजयेद्विप्रं षितॄनुद्दिश्य सत्तमम् । अथवायं यथाशक्ति किञ्चिदन्नं समाहितः । वेदतत्त्वार्थविदुषे द्विजायै वोपपादयेत् ॥ पूजयेदतिथिं नित्यं नमस्येदर्च्चयेद्द्विजम् । मनोवाक्कर्म्मभिः शान्तमागतं स्वगृहन्तु तम् ॥ हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः । दद्यादतिथये नित्यं बुद्ध्वा तं परमेश्वरम् ॥ भिक्षामाहुर्ग्रासमात्रमग्रं स्यात् तच्चतुर्गुणम् । पुष्कलं हन्तकारन्तु तच्चतुर्गुणमुच्यते ॥ गोदोहमात्रं कालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् । अभ्यागतान् यथाशक्ति पूजयेदतिथिं यथा ॥ भिक्षां वै भिक्षवे दद्याद्विधिवद् ब्रह्मचारिणे । दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्ज्जितः ॥ सर्व्वेषामप्यलाभे तु अन्नं गोभ्यो निवेदयत् । भुञ्जीत बन्धुभिः सार्द्धं वाग्यतोऽन्नमकुत्सयन् ॥ अकृत्वा तु द्बिजः पञ्च महायज्ञान् द्विजोत्तमाः । भुञ्जीत चेत् सुमूढात्मा तिर्य्यग्योनिं स गच्छति ॥ वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षमाः । नाशयन्त्याशु पापानि देवानामर्च्चनं तथा ॥ यो मोहादथवालस्यादकृत्वा देवतार्च्चनम् । भुङ्क्ते स याति नरकान् शूकरेष्वभिजायते ॥ तस्मात् सर्व्वप्रयत्नेन कृत्वा कर्म्माणि वै द्विजः । भुञ्जीत स्वजनैः सार्द्धं स याति परमां गतिम् ॥” इति कौर्म्मे उपविभागे १७ अध्यायः ॥ अत्र भोजनविधिर्भोजनशब्दे द्रष्टव्यः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्याह्न पुं।

दिवसः_मध्यो_भागः

समानार्थक:मध्याह्न

1।4।3।2।3

प्रभातं च दिनान्ते तु सायं सन्ध्या पितृप्रसूः। प्राह्णापराह्णमध्याह्नास्त्रिसन्ध्यमथ शर्वरी॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्याह्न¦ पु॰ मध्यमह्नः एक॰ स॰ टच्समा॰ अह्नादेशः। अह्नान्तत्वात् पुंस्त्वम्। त्रिधा विभक्तदिनस्य

१ द्वितीये भागे
“प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु। मध्या-ह्नस्त्रिमुहूर्त्तं स्यात्” दक्षोक्ते पञ्चधा विभक्तदिनस्य

२ तृतीये भागे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्याह्न¦ m. (-ह्नः) Mid-day, noon. E. मध्य middle, अहन् a day.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्याह्न/ मध्या m. midday , noon Mn. MBh. etc.

मध्याह्न/ मध्या m. N. of a pupil of शंकराचार्यS3am2kar.

"https://sa.wiktionary.org/w/index.php?title=मध्याह्न&oldid=503373" इत्यस्माद् प्रतिप्राप्तम्