यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्रः, पुं, (मन्त्र्यते गुप्तं परिभाष्यते इति । मत्रि गुप्तभाषणे + घञ् । यद्वा, मन्त्रयते गुप्तं भाषते इति । मत्रि गुप्तभाषणे + अच् ।) वेद- भेदः । स च मन्त्रस्वरूपभागः ॥ (यथा, ऋग्वेदे । ६७ । ४ । ७४ । “प्रनूनं ब्रह्मणपतिर्मन्त्रं वदत्युक्थम् ॥” यथा च मनुः । २ । १६ । “निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्यचित् ॥” तन्त्राद्युक्तमन्त्रभागश्च । यथा, मनौ । ७ । २१७ । “सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैः ॥”) गुप्तिवादः । स तु रहसि कर्त्तव्यावधारणं मन्त्र- णेति ख्यातम् । इत्यमरभरतौ ॥ परामर्शः । मन्त्रणा । (यथा, माधे । २ । २९ । “मन्त्रो योध इवाधीरः सर्व्वाङ्गैः संवृतैरपि । चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥”) व्यङ्गादिभ्यो मन्त्रणाग्रहणस्य निषेधो यथा, -- “व्यङ्गाङ्गहीना वधिराः कुयोनिषु रताश्च ये । तेषां मन्त्रो न सुखदः प्रोक्तः कविभिरेव च ॥ कामुकानां जडानाञ्च स्त्रीजितानां तथैव च । श्वशुरस्य गृहे नित्यं जासाता कर्म्मकारकः । “विंशत्यर्णाधिका मन्त्रा मालामन्त्राश्च कीर्त्तिताः । नपुंसकस्य मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥ हंसस्याष्टाक्षरस्यापि तथा पञ्चाक्षरस्य च । एकद्वित्र्यादिबीजस्य सिद्धादीन्नैव शोधयेत् ॥ तथा । एकाक्षरस्य मन्त्रस्य मालामन्त्रस्य पार्व्वति ! । वैदिकस्य च मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥” तथा चामुण्डातन्त्रे । “काली तारा महाविद्या षोडशी भुवनेश्वरी । भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥ वगला सिद्धविद्या च मातङ्गी कमलात्मिका । एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः ॥ नात्र सिद्धाद्यपेक्षास्ति न नक्षत्रविचारणा । कालादिशोधनं नास्ति न चामित्रादिदूषणम् ॥ सिद्धविद्यातया नात्र युगसेवापरिश्रमः । नास्ति किञ्चिन्महादेवि ! दुःखसाध्यं कथञ्चन ॥” पृथिव्यां पूर्णफलप्रदा महाविद्या । यथा, मालिनीविजये । “अथ वक्ष्याम्यहं या या महाविद्या महीतले । दोषजालैरसंस्पृष्टास्ताः सर्व्वा हि फलैः सह ॥ काली नीला महादुर्गा त्वरिता च्छिन्नमस्तका । वाग्वादिनी चान्नपूर्णा तथा प्रत्यङ्गिरा पुनः ॥ कामाख्या वासली बाला मातङ्गीशैलवासिनी । इत्याद्याः सकला विद्याः कलौ पूर्णफलप्रदाः ॥ सिद्धमन्त्रतया नात्र युगसेवापरिश्रमः । तथा चैता महाविद्याः कलिदोषान्न वाधिताः ॥” इत्यादिवचनादेषु विचारो नास्ति । वस्तुतस्तु इदं प्रशंसापरम् । सर्व्वत्र विचारस्यावश्यक- त्वम् । दुरदृष्टवशात् कदाचिद्वैरिमन्त्रस्य स्वप्नादौ प्राप्त्या तत्तद्दोषस्य दृष्टत्वात् । इति तु साम्प्र- दायिकाः ॥ * ॥ मन्त्रोद्धारार्थषट्चक्रप्रमाणानि चक्रशब्दे द्रष्टव्यानि । तेषां लेखनप्रकारा यथा,

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्रः [mantrḥ], [मन्त्र्-अच्]

A Vedic hymn or sacred prayer (addressed to any deity), a sacred text; (it is of three kinds: it is called ऋच् if metrical and intended to be loudly recited; यजुस् if in prose and muttered in a low tone; and सामन् if, being metrical, it is intended for chanting).

The portion of the Veda including the Samhitā and distinguished from the Brāhmaṇa; q. v.

A charm, spell, an incantation; सो$हमस्मि मन्त्र- सिद्धः Dk.54; न हि जीवन्ति जना मनागमन्त्राः Bv.1.111; अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः Ratn.2; R.2;32;5.57.

A formula (of prayer) sacred to any deity, as ओं नमः शवाय &c.

Consultation, deliberation, counsel, advice, resolution, plan; तस्य संवृतमन्त्रस्य R.1.2; मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः 17.5; Pt.2.182; Ms.7.58; मन्त्रपूर्वाः सर्वारम्भाः Kau. A.1.15; also पञ्चाङ्गो मन्त्रः.

Secret plan or consultation, a secret; मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि Śi.2.29.

Policy, statesmanship.

A mean, contrivance; किं तु मन्त्रं प्रदास्यामि यो वै तान् निहनिष्यति Rām.7.6.1.

N. of Viṣṇu.

of Śiva.

(In astrol.) The fifth mansion. -Comp. -अक्षरम् a syllable in a spell. -अधिकारः business of council meetings; Kau. A.1.15. -अधिराजः supreme over all spells. -आराधनम् endeavouring to obtain by spells or incantations; मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः Bh.3.4. -उक्त a. mentioned in a hymn. -उदकम्, -जलम्, -तोयम्, -वारि n. water consecrated by means of spells, charmed water. -उपष्टम्भः backing up by advice.

करणम् Vedic texts.

composing or reciting sacred texts; P.I.3.25. -कर्कश a. advocating a stern policy; ये$पि मन्त्रकर्कशाः शास्त्रतन्त्रकाराः Dk.2.8.-कारः the author of Vedic hymns. -कार्यम् subject of consultation. -कालः time of consultation or deliberation. स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकाले$पसारयेत् Ms.7.149.-कुशलः a. skilled in giving advice. -कृत् m.

an author or composer of Vedic hymns; अप्यग्रणीर्मन्त्र- कृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते R.5.4;1.61;15.31.

one who recites a sacred text.

a counsellor, an adviser.

an ambassador; यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वरः Bhāg.3.1.2. -कृत a. Consecrated by mantras; यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः Rām.2.14. 14. -गण्डकः knowledge, science. -गुप्तिः f. secret counsel. -गूढः a spy, a secret emissary or agent. -गृहम् a council-chamber. -ग्रहः listening to the counsels of ministers; सप्तमे तु मन्त्रग्रहो दूताभिप्रेषणानि च Dk.2.8. -जा the power of spells; L. D. B. -जागरः recital of Vedic texts at night. -जिह्वः fire; अमृतं नाम यत् सन्तो मन्त्रजिह्वेषु जुह्वति Śi.2.17. -ज्ञ a.

skilled in counsel.

skilled in spells.

(ज्ञः) a counsellor, adviser.

a learned Brāhmaṇa; मन्त्रज्ञै- र्मन्त्रिभिश्चैव विनीतः प्रविशेत् सभाम् Ms.

a spy. -तत्त्वम् the essence of counsel. -तन्त्र see अमन्त्र. -दः, -दातृ m. a spiritual preceptor or teacher; पिता भवति मन्त्रदः Ms. 2.153. -दर्शिन् m.

a seer of Vedic hymns.

a Brāhmaṇa versed in the Vedas; यो ह्यग्निः स द्विजो विप्रैर्मन्त्र- दर्शिभिरुच्यते Ms.3.212. -दीधितिः fire. -दृश् a.

skilled in counsel or spells. (m.)

a seer of Vedic hymns

an adviser, a counsellor; अथाह तन्मन्त्रदृशां वरीयान् यन्मन्त्रिणो वैदुरिकं वदन्ति Bhāg.3. 1.1. -देवता the deity invoked in a sacred text ormantra. -धरः, -धारिन् m. a counsellor. -निर्णयः final decision after deliberation. -पदम् the words of a sacred text. -पूत a. purified by mantras. ˚आत्मन् m. an epithet of Garuḍa. -प्रचारः the course of counsel or procedure; Pt.2. -प्रभावः the power of a spell.-प्रयोगः, -युक्तिः f. application of spells. -बी(वी)- जम् the first syllable of a spell. -भेदः breach or betrayal of counsel. -मूर्तिः an epithet of Śiva. -मूलम् magic. -यन्त्रम् a mystical diagram with a magical formula. -युक्तिः application of spells; magical means.

योगः employment or application of spells.

magic.-रक्षा not disclosing, keeping a secret. -वर्जम् ind. without the use of spells. -वहः N. of Viṣṇu. -वादः the substance of sacred texts. -वादिन् m.

a reciter of sacred texts.

an enchanter, a conjurer. -विद् see मन्त्रज्ञ above. -विद्या the science of spells, magic. -शक्तिःf. the power of spells. -श्रुतिः a consultation overheard.-संस्कारः any Saṁskāra or rite performed with sacred texts; अनृतावृतुकाले च मन्त्रसंस्कारकृत् पतिः Ms.5.153.-संस्क्रिया any magical rite. -संवरणम् concealment of a design; मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः Mb.12.2. 18. -संहिता the whole body of Vedic hymns. -साधकः a magician, conjurer.

साधनम् effecting or subduing by magic.

a spell, an incantation.

attainment of supernatural or magical powers (by muttering spells); चामुण्डे भगवति मन्त्रसाधनादाबुद्दिष्टामुपनिहितां भजस्व पूजाम् Māl. 5.25; K.37,4,44. -साध्य a.

to be effected or subdued by magic or spells; Pt. 1.65.

attainable by consultation. -सिद्ध a.

possessing the power of spells, rendered efficacious; सो$स्म्यहं मन्त्रसिद्धः Dk.2.2.-सिद्धिः f.

the working or accomplishment of a spell.

the power which the possession or knowledge of a spell gives to a person. -सूत्रम् a charm fastened on a string. -स्नानम् the recitation of particular texts as a substitute for ablution. -स्पृश् a. obtaining (anything) by means of spells. -हीन a. destitute of or contrary to sacred hymns.

"https://sa.wiktionary.org/w/index.php?title=मन्त्रः&oldid=324920" इत्यस्माद् प्रतिप्राप्तम्