यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महती, स्त्री, (महत् + ङीष् ।) वल्लकीभेदः । इति मेदिनी । ते, १४० ॥ नारदवीणा । बृहत्- प्रमाणा । इत्यमरटीकायां भरतः ॥ (यथा, शिशुपालवधे । १ । १० । “स्फुटीभवद्ग्रामविशेषमूर्च्छना- मवेक्षमाणं महतीं मुहुर्मुहुः ॥”) बृहती । वार्त्ताकी । इति राजनिर्घण्टः ॥ (कुश- द्बीपस्थनदीविशेषः । यथा, मात्स्ये । १२१ । ७४ । “महती सप्तमी प्रोक्ता पुनश्चैषा धृतिः स्मृता । अन्यास्ताभ्योऽपि सञ्जाता शतशोऽथ सह- स्रशः ॥” पारिपात्रनिर्गतनदीविशेषः । यथा, मात्स्ये । ११३ । २३ -- २४ । “वर्णाशा चन्दना चैव कावेरी महती तथा । पारा चर्म्मण्वती पुष्पा विदुषा वेणुमत्यपि । शिप्रा ह्यवन्ती कुन्ती च पारिपात्राश्रिताः स्मृताः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महती स्त्री।

वीणाभेदः

समानार्थक:महती,कच्छपी

3।3।69।2।1

उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे। वीणाभेदेऽपि महती भूतिर्भस्मनि सम्पदि॥

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महती¦ स्त्री मह--अत् + गौरा॰ ङीष्।

१ वीणाभेदे अमरः

२ नारदवीणायाम् भरतः।
“अवेक्षमाणं महतीं मुहुर्मुहुः” माघः।

३ वृहत्यां

४ वार्त्ताक्यां

५ विपुलायां स्त्रियाञ्चराजनि॰। समासे तीस्थाने आ। महत्या॰ घासःमहाघासः इत्यादि।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महती f. the egg-plant Bhpr.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a R. from ऋष्यवान् in भारतवर्ष. M. ११४. २३; वा. ४५. ९७.
(II)--a R. of the कुशद्वीप. M. १२२. ७४.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAHATĪ : Nārada's Vīṇā (Lute). It was this Mahatī which became the lute in the world, as the result of a curse. (See under Nārada).


_______________________________
*7th word in right half of page 464 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=महती&oldid=503434" इत्यस्माद् प्रतिप्राप्तम्