यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाराष्ट्री, स्त्री, (महाराष्ट्रस्तद्देश उत्पत्तिस्थान- त्वेनास्त्यस्या इत्यच् । गौरादित्वात् ङीष् ।) जलपिप्पली । इति राजनिर्घण्टः ॥ शाकभेदः । माराटी इति भाषा । अस्या गुणः । कफवायु- नाशित्वम् । इति राजवल्लभः ॥ (विषयोऽस्या यथा, -- “जयन्ती मुण्डिरी वासा बृहती च गुडूचिका । महाराष्ट्री जम्बुरसैस्तथा नीलोत्पलद्रवैः ॥” इति वैद्यकरसेन्द्रसारसग्रहे शूलाधिकारे पञ्चा- त्मकरसे ॥ महाराष्ट्राणामियमिति । महाराष्ट्र । अण् ङीप् ।) अष्टादशभाषान्तर्गतभाषा- विशेषः । यथा, साहित्यदर्पणे ६ परिच्छेदे । “आसामेव तु गाथान्तु महाराष्ट्रीं प्रयोजयेत् । अत्रोक्ता मागधी भाषा राजान्तःपुरचारि- णाम् ॥”

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाराष्ट्री/ महा--राष्ट्री f. ( scil. भाषा)the Marathi or Mahratta language Sa1h. etc.

महाराष्ट्री/ महा--राष्ट्री f. a species of culinary plant L.

महाराष्ट्री/ महा--राष्ट्री f. Commelina Salicifolia L.

"https://sa.wiktionary.org/w/index.php?title=महाराष्ट्री&oldid=338245" इत्यस्माद् प्रतिप्राप्तम्