महिषः
सम्स्कृतम्
सम्पाद्यताम्मनुजॆन क्षीराय माम्सम्|माम्साय]] चर्मकृतॆच पाल्यमाणः पशुविशॆषः
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महिषः, पुं, (मंहति पूजयति देवाननेनेति । महि + “अधिमह्योष्टिषच् । “उणा० । १ । ४६ । इति टिषच् ।) स्वनामख्यातपशुविशेषः । तत्- पर्य्यायः । लुलापः २ वाहद्विषन् ३ कासरः ४ सैरिभः ५ । इत्यमरः । २ । ५ । ४ । यम- वाहनः ६ विषज्वरन् ७ वंशभीरुः ८ रज- स्वलः ९ । इति शब्दरत्नावली ॥ आनूपः १० रक्ताक्षः ११ अश्वारिः १२ । इति जटाधरः ॥ क्रोधी १३ कलुषः १४ मत्तः १५ विषाणी १६ गवली १७ बली १८ । तस्य परीक्षा यथा, -- “विपक्षे हयसन्त्रासं कुरुते येन हेतुना । भारं वहति वा दूरं महिषोऽस्मान्निरूप्यते ॥ ब्रह्मक्षत्त्रियविट्शूद्रान्त्यजभेदेन पञ्चधा ॥” तद्यथा । ‘भृशं कृष्णाः पवित्राश्च बृहद्वृषणधोणकाः । बह्वाशिनो मारकाश्च महिषा ब्रह्मजातयः ॥ १ ॥ केकराः कामलाः स्थूला भृशं क्रुद्धाश्च मारकाः । बह्वाशिनो बहुबला महिषाः क्षत्त्रजातयः ॥ २ ॥ श्लथाङ्गाः क्षीणशृङ्गाश्च सुक्रुद्धा भारवाहिनः । अमारका बहुबला महिषा वैश्यजातयः ॥ ३ ॥ क्षीणाः क्षीणबलाः क्षीणशृङ्गघोणारुषश्चे ये । अल्पाशिनो भारसहा महिषाः शूद्रजातयः ॥ ४ ॥ सर्व्वदा जलमिच्छन्ति येऽल्पसत्त्वा महौजसः । भारसहाः कुशृङ्गाश्च तेऽन्त्यजा महिषा मताः ॥ ५ ॥ एषां दोषा गुणा वापि वृषवल्लक्षयेद्बुधः । पोषणञ्चापि संस्थानं वृषतुल्यं तथा मतम् ॥” इति युक्तिकल्पतरुः ॥ वनमहिषमांसगुणाः । दोषकारित्वम् । लघु- त्वम् । दीपनत्वम् । बलदायित्वञ्च ॥ ग्रामीण- महिषमांसगुणाः । स्निग्धत्वम् । मलिन- करत्वम् । पित्तहरत्वञ्च । इति राजनिर्घण्टः ॥ तर्पणत्वम् । स्निग्धत्वम् । उष्णत्वम् । मधु- रत्वम् । गुरुत्वम् । निद्रापुंस्त्वस्तन्यवर्द्धनत्वम् । मांसदार्ठ्यकृत्त्वञ्च । इति राजवल्लभः ॥ अपि च । “महिषो घोटकारिः स्यात् कासरश्च रजस्वलः । पीनस्कन्धः कृष्णकायो लुलापो यमवाहनः ॥ महिषस्यामिषं स्वादु स्निग्धोष्णं वातनाशनम् । निद्राशुक्रबलस्तन्यतनुदीर्घकरं गुरु ॥ वृष्यञ्च सृष्टविण्मूत्रं वातपित्तास्रनाशनम् ।” इति भावप्रकाशः ॥ श्मश्रुधारिम्लेच्छजातिविशेषः ॥ स च पुरा क्षत्त्रिय आसीत् सगरराजेनास्य वेदयागादावनधिकारो वेशान्यत्वं धर्म्मनाशश्च कृतः । यथा, हरिवंशे । “सगरस्तां प्रतिज्ञाञ्च गुरोर्व्वाक्यं निशम्य च । धर्म्मं जघान तेषां वै वेशान्यत्वं चकार ह ॥ अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्ज्जयत् । जवनानां शिरः सर्व्वं काम्बोजानां तथैव च ॥ पारदा मुक्तकेशाश्च पह्रवाः श्मश्रुधारिणः । निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ शका जवनकाम्बोजाः पारदाः पह्रवास्तथा । कोलिसर्पाः समहिषा दार्व्वाश्चोलाः सकेरलाः । वशिष्ठवचनाद्राजन् ! सगरेण महात्मना ॥” इति प्रायश्चित्ततत्त्वम् ॥ * ॥ अर्हद्ध्वजविशेषः । इति हेमचन्द्रः । ४ । ३४७ ॥ महिषामुरः । यथा, मार्कण्डेये । ८२ । १-२ । “महिषेऽसुराणामधिपे देवानाञ्च पुरन्दरे । तत्रासुरैर्म्महारीर्य्यैर्देवसैन्यं पराजितम् ॥ जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः ॥” (देवगणभेदः । यथा, निरुक्ते । ७ । २६ । “अपा- मुपस्थे महिषा अगृभणत् विशो राजानमुपतस्थु- रृग्मियम् ।” महिषाः माध्यमिका देवगणाः । अथवा महिषाः त एव “भहान्तः ।” इति तट्टीकायाम् दुर्गाचार्य्यः ॥ कुशद्वीपस्थपर्व्वत- विशेषः । यथा, मात्स्ये । १२१ । ५९ । “षष्ठस्तु पर्व्वतस्तत्र महिषो मेघसन्निभः ॥” अग्निविशेषः । यथा, तत्रैव । १२१ । ६० । “तस्मिन् सोऽग्निर्निवसति महिषो नाम योऽप्- सुजः ।” कुशद्बीपस्य वर्षविशेषः । यथा, तत्रैव । १२१ । ६८ । “महिषं महिषस्यापि पुनश्चापि प्रभाकरम् ॥” कृताभिषेकः भूपालः । ‘कृताभिषेके भूपाले लुलापे महिषः स्मृतः ॥’ इत्यमरटीकायां रुद्रः ॥ देशभेदः । यथा, बृहत्- संहितायाम् । ९ । १० । “भरणीपूर्ब्बं मण्डलमृक्षचतुष्कं मुभिक्षकर- माद्यम् । वङ्गाङ्गमहिषवाह्लिककलिङ्गदेशेषु भयजन- नम् ॥” अनुह्लादस्य पुत्रभेदः । यथा भागवते । ६ । १८ । १६ । “अनुह्लादस्य सूर्य्यायां वास्कलो महिषस्तथा ॥” साध्यापुत्त्रः । यथा, हरिवंशे । १९६ । ४५ । “महिषञ्च तनूजञ्च विज्ञातमनसावपि ॥”)
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
महिषः [mahiṣḥ], [मह्-टिषच् Uṇ.1 45]
A buffalo (considered as the vehicle of Yama); गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितम् Ś.2.6.
N. of a demon killed by Durgā. -Comp. -अक्षः, -अक्षकः a kind of bdellium.-अर्दनः an epithet of Kārtikeya. -असुरः the demon Mahiṣa. ˚घातिनी, ˚मथनी, ˚मर्दनी, ˚सूदनी epithets of Durgā.-घ्नी an epithet of Durgā. -ध्वजः an epithet of Yama; N. of a Jain monk. -पालः, -पालकः a buffalo-keeper.-मर्दिनी N. of Durgā -वहनः, -वाहनः epithets of Yama; कृतान्तः किं साक्षान्महिषवहनो$साविति पुनः K. P.1.