मातामही
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मातामही, स्त्री, (मातामहस्य पत्नीति । “पुंयो- गादाख्यायाम् ।” ४ । १ । ४८ । इति + ङीष् ।) मातामहपत्नी । मातृमाता । आइ इति भाषा । यथा, -- “मातामही मातृमाता मातृतुल्या च पूजिता । प्रमातामहीति विज्ञाता प्रमातामहकामिनी । वृद्धप्रमातामही ज्ञेया तत्पितुः कामिनी तथा ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥ तन्मरणे पक्षिण्यशौचं यथा, -- “मातुले श्वशुरे मित्रे गुरौ गुर्व्वङ्गनासु च । अशौचं पक्षिणीं रात्रिं मृता मातामही यदि ॥” इति शुद्धितत्त्वम् ॥ दुहितृपर्य्यन्ताभावे तच्छ्राद्धे दौहित्रस्याधि- कारो यथा । तदभावे दौहित्रः । प्रागुक्तब्रह्म- पुराणे तथादर्शनात् । “पौत्त्रदौहित्रयोलाके न विशेषोऽस्ति धर्म्मतः । तयोर्हि मातापितरौ सम्भूतौ तस्य देहतः ॥” इत्यनेन यथा पुत्त्राभावे पौत्त्रस्तथा दुहित्रभावे दौहित्रः । इति प्रागेवोक्तत्वात् । “मातुलो भागिनेयस्य स्वस्रीयो मातुलस्य च । श्वशुरस्य गुरोश्चैव सख्युर्म्मातामहस्य च ॥ एतेषाञ्चैव भार्य्याभ्यः स्वसुर्मातुः पितुस्तथा । पिण्डदानन्तु कर्त्तव्यमिति वेदविदां स्थितिः ॥” इति वृद्धशातातपवचनेन मातामह्याश्च साक्षा- द्दौहित्रेण पिण्डदानश्रुतेः धनाधिकारित्वाच्च । इति शुद्धितत्त्वम् ॥ * ॥ तस्या अयौतुकधने पौत्त्रपर्य्यन्ताभावे दौहित्राधिकारः । यौतुकधने तु पुत्त्रपर्य्यन्ताभावे दौहित्राधिकारो यथा । “दौहित्रोऽपि ह्यमुत्रैनं सन्तारयति पौत्त्रवत् ॥” इति मनुवचने दौहित्रे पौत्त्रधर्म्मातिदेशात् पुत्त्रेण परिणीतदुहितुर्बाधात् बाधकपुत्त्रेण बाध्यदुहितृपुत्त्रबाधस्य न्याय्यत्वात् । इति दाय- तत्त्वम् ॥ पुत्त्राभावे दौहित्रोऽधिकारी । पुत्त्रा- धिकारात् प्राक्दुहित्रधिकारश्रुतेः तद्बाधिकाया दुहितुः पुत्त्रेण बाध्यपुत्त्रबाधस्यैव न्याय्यत्वात् । इति दायक्रमसंग्रहश्च ॥
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मातामही/ माता--मही f. ( Pa1n2. 4-2 , 36 Va1rtt. 3 Pat. )a -matmaternal grandmother Mn. ix , 193