मानः
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मानः, पुं, (मन्यते बुद्ध्यतेऽनेन इति मन + घञ् ।) चित्तसमुन्नतिः । इत्यमरः । १ । ७ । २२ ॥ चित्तस्य समुन्नतिरक्षुद्रता मानः । साञ्जे धना- द्युत्कर्षेणात्मनि चित्तोन्नतिर्मान इति । मत्समो नास्तीति मननं मानः । इति तट्टीकायां भरतः ॥ (यथा, मनौ । ४ । १६३ । “द्वेषं दम्भञ्च मानञ्च क्रोधं तैक्ष्ण्यञ्च वर्जयेत् ॥”) आत्मनि पूज्यताबुद्धिः । इति नीलकण्ठः ॥ अनुरक्तयोर्दम्पत्योर्भावविशेषः । यथा, -- “दम्पत्योर्भाव एकत्र सतोरष्यनुरक्तयोः । स्वाभीष्टाश्लेषवीक्षादिनिरोधी मान उच्यते ॥” इत्युज्ज्वलनीलमणिः ॥ पूज्यत्वम् । यथा, -- “अधमाः कलिमिच्छन्ति सन्धिमिच्छन्ति मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ मानो हि मूलमर्थस्य माने म्लाने धनेन किम् । प्रभ्रष्टमानदर्पस्य किं धनेन किमायुषा ॥ अधमा धनमिच्छन्ति धनमानौ हि मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥” इति गारुडे ११५ अध्यायः ॥ प्रियापराधसूचिका चेष्टा मानः । स च लघु- र्मध्यमो गुरुश्चेति । अल्पापनेयो लघुः । कष्टा- पनेयो मध्यमः । कष्टतमापनेयो गुरुः । असा- ध्यस्तु रसाभासः । अपरस्त्रीदर्शनादिजन्मा लघुः । गोत्रस्खलनादिजन्मा मध्यमः । अपर- स्त्रीसम्भोगदर्शनादिजन्मा गुरुः । अन्यथासिद्ध- कुतूइलाद्यपनेयो लघुः । अन्यथावादशपथाद्य- पनेयो मध्यमः । चरणपातभूषणदानाद्यपनेयो गुरुः । अपरस्त्रीदर्शनादिजन्मा यथा, -- “स्वेदाम्बुभिः क्वचन पिच्छिलमङ्गभूमौ क्षामोदरि क्वचन कण्टकितञ्चकास्ति । अन्यां बिलोकयति भासयति प्रियेऽपि मानः क्व धास्यति पदं तव तन्न विद्मः ॥” गोत्रस्खलनादिजन्मा यथा, -- “यद्गोत्रस्खलनं तत्तु भ्रमो यदि न मन्यते । रोमालिव्यालसंस्पर्शं शपथं तन्वि ! कारय ॥” अपरस्त्रीसम्भोगदर्शनादिजन्मा यथा, -- “दयितस्य निरीक्ष्य भालदेशं चरणालक्तकपिञ्जरं सपत्न्याः । सुदृशो नयनस्य कोणभासः श्रुतिमुक्ताः शिखरोपमा बभूवुः ॥” इति रसमञ्जरी ॥ ग्रहः । इति मेदिनी । ने, १५ ॥ (परिच्छेदके, त्रि । यथा, ऋग्वेदे । ७ । ८८ । ५ । “बृहन्तं मानं वरुण स्वधावः सहस्रद्बारं जगमा गृहन्ते ।” “मान्त्यस्मिन् सर्वाणि भूतानि इति मानं सर्वस्य भूतजातस्य पुरिच्छेदकमित्यर्थः ।” इति तद्भाष्ये सायनः ॥ पुं, मन्त्रः । यथा, ऋग्वेदे । १ । १८९ । ८ । “अवोचाम निवचनान्यस्मिन्मानस्य सूनुः सहसाने अग्नौ ।” “मीयत इति मानो मन्त्रः तस्य सूनुरग्निः मन्त्रेणोत्पद्यमानत्वात् सप्तम्यर्थे प्रथमा ।” इति तद्भाष्ये सायनः ॥ निर्माता । यथात्रैव । १० । १४४ । ५ । “यं ते श्येनश्चारुमवृकं पदाभरदरुणं मान- मन्धसः ।” “मानं यागद्वारा निर्मातारम् ।” इति तद्भाष्ये सायनः ॥)
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मानः [mānḥ], [मन्-घञ्]
Respect, honour, regard, respectful consideration; दारिद्र्यस्य परा मूर्तिर्यन्मानद्रविणाल्पता Pt.2.159; Bg.6.7; so मानधन &c.
Pride (in a good sense), self-reliance, self-respect; जन्मिनो मानहीनस्य तृणस्य च समा गतिः Pt.1.16; R.19.81.
Haughtiness, pride, conceit, self-confidence, vanity; मानाद् रावणः परदारान् अप्र- यच्छन् (विननाश) Kau. A.1.6.
A wounded sense of honour.
Jealous anger, anger excited by jealousy (especially in women); anger in general; मुञ्च मयि मान- मनिदानम् Gīt.1; माधवे मा कुरु मानिनि मानमये 9; त्यजत मानमलं बत विग्रहैः R.9.47; Śi. 9.84; Bv.2.56; Dk.2.3.
Opinion, conception.
Ved. Object, purpose. -नम् [मा-ल्युट्]
Measuring.
A measure, standard; माना- धीना मेयसिद्धिः Mīmāṁsā; निराकृतत्वाच्छ्रुतियुक्तिमानतः A. Rām. 7.5.57.
Dimension, computation.
A standard of measure, measuring rod, rule; परिमाणं पात्रमानं संख्यै- कद्यादिसंज्ञिका Śukra.2.344.
Proof, authority, means of proof or demonstration; ये$मी माधुर्यौजः प्रसादा रसमात्र- धर्मतयोक्तास्तेषां रसधर्मत्वे किं मानम् R. G.; मानाभावात् (frequently occurring in controversial language) Pad. D.4. 3.
Likeness, resemblance. -Comp. -अन्ध a. blinded by pride. -अर्ह a. worthy of honour; Ms.2.137.-अवभङ्गः destruction of pride or anger. -आसक्त a. given to pride, haughty, proud. -उत्साहः energy arising from self-confidence; Pt.1.226. -उन्नतिःf. great respect or honour; (सत्संगतिः) मनोन्नतिं दिशति पापमपाकरोति Bh.2.23. -उन्मादः infatuation of pride.-कलहः, -कलिः a quarrel caused by jealous anger; Amaru. -क्षतिः f., -भङ्गः, -हानिः f. injury reputation or honour, humiliation, mortification, insult, indignity.
ग्रन्थिः injury to honour or pride.
violent anger. -ग्रहणम् fit of sulkiness. -द a.
showing respect.
proud; इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरम् Bh.3.24.
destroying pride.
a giver of honour (a mode of addressing lovers &c.). (-दः) a mystical name for the letter आ. (-दा) N. of the second digit of the moon. -दण्डः a measuring-rod; स्थितः पृथिव्या इव मानदण्डः Ku.1.1. -धन a. rich in honour; महौजसो मान- धना धनार्चिताः Ki.1.19. -धानिका a cucumber. -ध्मात a. puffed up with pride. -परिखण्डनम् mortification, humiliation. -भङ्गः see मानक्षति. -भाज् a. receiving honour from; राजस्नातकयोश्चैव स्नातको नृपमानभाक् Ms.2.139. -भृत्, पर a. possessing pride, extremely proud; प्रथमे मानभृतां न वृष्णयः Ki.2.44. -महत् a. rich or great in pride, greatly proud; किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी Bh.2. 29. -योगः the correct mode of measuring or weighing; मानयोगं च जानीयात्तुलायोगांश्च सर्वशः Ms.9.33. -रन्ध्रा a sort of clepsydra, a perforated water-vessel, which, placed in water and gradually filling, serves to measure time. -वर्जित a.
disgraced, dishonoured.
humble, lowly.
slanderous, libellous. -वर्धनम् indicating, increasing respect; यत्किंचिदेव देयं तु ज्यायसे मानवर्धनम् Ms.9.115. -विषमः one of the ways of embezzlement namely making use of false weights and measures; Kau. A.2.8.26. -सारः, -रम् a high degree of pride.
सूत्रम् a measuring-cord; Dk.2.2.
a chain (of gold &c.) worn round the body.