यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रेया, स्त्री, मधुरिका । इत्यमरः । २ । ४ । १०५ ॥ मौरि इति भाषा । “मिश्रेया सुरसा पेया तृषाहा स्कन्दबन्धना ।” इति शब्दचन्द्रिका च ॥ शाकविशेषः । शत- पुष्पा । शलुफा इति भाषा । तत्पर्य्यायः । ताल्लपर्णी २ तालपर्णी ३ मिषिः ४ शालेया ५ शीतशिवा ६ शालीना ७ वनजा ८ अवाक्- पुष्पी ९ मधुरिका १० छत्रा ११ संहित- पुष्पिका १२ सुपुष्पा १३ सुरसा १४ बल्या १५ । अस्या गुणाः । मधुरत्वम् । स्निग्धत्वम् । कटुत्वम् । परमकफहरत्वम् । वातपित्तोत्थ- दोषप्लीहजन्तुविनाशित्वञ्च । इति राजनिर्घण्टः । तत्पर्य्यायगुणाः । “शतपुष्पा शताह्वा च मधुरा कारवी मिसिः । अतिच्छत्रा सितच्छत्रा संहितच्छत्रिकापि च ॥ छत्रा शालेयशालिन्यौ मिश्रेया मधुरा मिषिः । शतपुष्पा लघुस्तीक्ष्णा पित्तकृद्दीपनी कटुः ॥ उष्णा ज्वरानिलश्वासव्रणशूलाक्षिरोगहृत् । मिश्रेया तद्गुणा प्रोक्ता विशेषाद्यीनिशूलनुत् ॥ अग्निमान्द्यहरी हृद्या बद्धविट्कृमिशूलहृत् । रूक्षोष्णा पाचनी कासवमिश्लेष्मानिलान् हरेत् ॥” इति भावप्रकाशः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रेया¦ स्त्री मिश्र--अच् मिश्रा ईयते ई गतो यत् एया कर्म॰शक॰।

१ मधुरिकायां (मौरी) अमरः।

२ शतपुष्पायाञ्च(सुलफा) राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रेया¦ f. (-या)
1. A sort of fennel, (Anethum panmorium, Rox.)
2. Another kind, (Anethum sowa.)
3. Common anise, (Pimpinella anisum.) E. मिश्र mixture, इड् to go or get, अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रेया [miśrēyā], Anise (Mar. बडिशेप).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मिश्रेया f. Anethum Panmori or dill L.

"https://sa.wiktionary.org/w/index.php?title=मिश्रेया&oldid=353837" इत्यस्माद् प्रतिप्राप्तम्