मुक्ति
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुक्तिः, स्त्री, (मुच् + भावे क्तिन् ।) आत्यन्तिक- दुःखनिवृत्तिः । इति नैयायिकाः ॥ नित्यसुखा- वाप्तिः । इति वैदान्तिकाः । शरीरेन्द्रियाभ्यां आत्मनो मुक्तत्वं मुक्तिः । इति भरतः । मोक्षः । तत्पर्य्यायः । कैवल्यम् २ निर्व्वाणम् ३ श्रेयः ४ निःश्रेयसम् ५ अमृतम् ६ मोक्षः ७ अपवर्गः ८ । इत्यमरः । १ । ५ । ६ ॥ अपुनर्भवः ९ स्थिरः १० अक्षरम् ११ । इति जटाधरः ॥ सा पञ्चविधा । सार्ष्टिः १ सालोक्यम् २ सारूप्यम् ३ सायुज्यम् ४ निर्व्वाणम् ५ । यथा, -- सार्ष्टिसारूप्यसालोक्यसामीप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥” इति श्रीभागवतम् ॥ “मुक्तिस्तु द्विविधा साध्वि ! श्रुत्युक्ता सर्व्वसम्मता । निर्व्वाणपददात्री च हरिभक्तिप्रदा नृणाम् ॥ हरिभक्तिस्वरूपाञ्च मुक्तिं वाञ्छन्ति वैष्णवाः । अन्ये निर्व्वाणरूपाञ्च सुक्तिमिच्छन्ति साधवः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २२ अध्यायः ॥ * ॥ मुक्तिकरयोगो यथा, -- “वक्ष्ये साङ्गमहायोगं भुक्तिमुक्तिकरं परम् । सर्व्वपापप्रशमनं भक्त्यानुपठितं शृणु ॥ निर्गुणः स तु विज्ञयः सुखदुःखमतीतवान् । जीवनाशो भवेद्यत्र तत् सुखं निष्प्रयोजनम् ॥ मृत्पिण्डदण्डवन्मोक्षस्तन्मोक्षस्तु भवेद्वृथा । तिष्ठन्ति काष्ठवद्ये च संवित्तिपरिवर्जिताः ॥ ते च मायोदरे लीना जडान्धवधिरोपमाः । आकाशवद्भवेदात्मा विदेहो निष्प्रचेतनः ॥ अलं ह्यनेन मोक्षेण चेतनारहितेन च । वरमेव च संसारी विषयासक्तचेतनः ॥ सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । भुञ्जन्नात्मा उभौ पाशौ संसारे संव्यवस्थितः ॥ ईदृशं हि परं ज्ञानं वेदादीनामशेषतः । सुखस्य च फलं भुङ्क्ते स्वर्गे चेह द्विजोत्तम ! ॥ यत्र वासः परे स्थाने सुखदुःखविवर्जितः । केवलं जीवनाशोऽयं प्रोक्तज्ञानमजानता ॥ चेतनारहितो ज्ञानमाकाशस्थोऽप्यचेतनः । मृत्पिण्डदण्डलोष्टादिशिलापट्टककुड्यवत् ॥ अथ श्रान्तो नरो यद्वत् सुसुप्तः सुखमश्नुते । बोध्यमानः सचेतापि सुखाद्बोद्धुं न मन्यते ॥ * ॥ केषां मुक्तमिदं मोक्षः सुखमत्यन्तकेवलम् । तदहं संप्रवक्ष्यामि शृणुष्व गदतो मम ॥ दुःखानामागमो नास्ति यत्र सौख्यं निरन्तरम् । विद्यते तत् परं दृष्ट्वा योऽप्यानन्दसुखी भवेत् ॥ ब्रह्यज्ञानप्रविन्नाञ्च स्वच्छन्दात्मबलान्विताः । न तेषां पुनरावृत्तिर्यान्ति विष्णुलयं बुधाः ॥ अस्ति देवो हरिः शान्तः कारणोपायवर्जितः । तं ज्ञात्वा तु भवेन्मुक्तिर्निर्म्मला काययोगिनः ॥ ब्रह्मा विष्णुश्च रुद्रश्च चन्द्रसूर्य्यादयः सुराः । न विभक्तिं शरीरस्य यान्ति मुक्तिर्न विद्यते ॥ तस्मादाराधनीयोऽपि संयमेन्द्रियगोचरः । विष्णुर्मायापतिर्यो वै यदीच्छेन्मुक्तिमात्मनः ॥ नान्यत्र विद्यातपसो नान्यत्रेन्द्रियनिग्रहात् । नान्यत्र सर्व्वसंत्यागात् मोक्षं बिन्दति मानवः ॥ तस्माद्धर्म्ममुखो भूत्वा संयम्यात्मानमात्मना । धर्म्मं कुर्य्याद्विहायैनो धर्म्मात्मा सुखमेधते ॥ धर्म्मादेवाप्यते देहो दाराः पुत्त्रा धनं तथा । धर्म्मात् स्वर्गश्च मोक्षश्च यदन्यदपि दुर्लभम् ॥ ऋषयो देवगन्धर्व्वाः स्वधर्म्ममनुगामिनः । स्वर्गे तिष्ठन्ति विप्रर्षे ! ततो यास्यन्ति सद्गतिम् ॥ धर्म्ममर्थञ्च कामञ्च मोक्षञ्च ऋषिसत्तम् ! । समाप्नोति पुमान्नित्यं नारायणपरायणः ॥” इति वह्निपुराणम् ॥ (निरुक्तिर्यथा, सांख्यसूत्रम् । ६ । २० । “मुक्तिरन्तरायध्वस्तेर्न परः ।” यथाच, अष्टावक्रसंहितायाम् । १ । २ । “मुक्तिमिच्छसि रे तात ! विषयान् विषवत्त्यज । क्षमार्ज्जवदयातोषसत्यं पीयूषवद्भज ॥”)
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुक्ति स्त्री।
मोक्षः
समानार्थक:मुक्ति,कैवल्य,निर्वाण,श्रेयस्,निःश्रेयस,अमृत,मोक्ष,अपवर्ग,अक्षर
1।5।6।2।1
मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः। मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्.।
अवयव : मोक्षोपयोगिबुद्धिः
पदार्थ-विभागः : , सामान्यम्, अवस्था
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुक्ति¦ स्त्री मुच क्तिन्।
१ मोचने
२ संसारबन्धनराहित्ये मत-भेदेन
३ आत्यन्तिकदुःखनिवृत्तौ,
४ ब्रह्मस्वरूपावाप्तौ चदेहेन्द्रियाभ्यामात्मनो
५ बन्धशून्यत्वे च।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुक्ति¦ f. (-क्तिः)
1. Final beatitude, the delivery of the soul from the body and exemption from further transmigration; the re-absorp- tion of the emancipated spirit into its great primary source, identification with GOD.
2. Liberation, setting or becoming free or loose. E. मुच् to let loose, aff. क्तिन् |
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुक्तिः [muktiḥ], f. [मुच्-क्तिन्]
Release, liberation, deliverance; स मुक्तिः सातिमुक्तिः Bṛi. Up.3.1.3.
Freedom, emancipation.
Final beatitude or emancipation, absolution of the soul from metempsychosis; अधिगत्य जगत्यधीश्वरादथ मुक्तिं पुरुषोत्तमात्ततः N.2.1. (where मुक्ति has sense 1 also).
Leaving, giving up, abandoning, avoiding; संसर्गमुक्तिः खलेषु Bh.2.62.
Throwing, hurling, letting off, discharging.
Unloosing, opening.
Discharge, paying off (as a debt).
Comp. क्षेत्रम् an epithet of Benaras.
a place where final emancipation is attainable. -पतिः lord of beatitude. -मार्गः the way to final beatitude. -मुक्तः frank-incense.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुक्ति f. setting or becoming free , release , liberation , deliverance from( comp. ) S3Br. etc. , etc.
मुक्ति f. final liberation or emancipation , final beatitude(= मोक्ष, See. ) Ka1v. Katha1s.
मुक्ति f. abandonment , putting off , giving up( comp. ) ib.
मुक्ति f. throwing , casting , hurling , shooting , sending Hariv.
मुक्ति f. discharge (of a debt ; See. ऋण-म्)
मुक्ति f. N. of a divine being (the wife of सत्य) Cat.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--an Uttama siddhi. Br. IV. 5. २३; ३६. ५१.
(II)--one of the two Gods forming a boat to cross the ocean of सम्सार; फलकम्:F1: वा. १०८. ३७.फलकम्:/F four-fold of which गया is best. फलकम्:F2: Ib. १०५. १६.फलकम्:/F [page२-711+ २५]