मुमूर्षुः
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मुमूर्षुः त्रि, (मर्त्तुमिच्छुः । मृ + सन् + उः ।) आसन्नमृत्युः । (यथा श्रीमद्भागवते । ७ । ८ । ११ । “व्यक्तं त्वं मर्त्तुकामोऽसि योऽतिमात्रं विकत्थसे । मुमूर्षूणां हि मन्दात्मन् ! ननु स्युर्विक्लवा गिरः ॥”) अथ मुमूर्षुकृत्यानि । हारीतः । ‘शूद्रान्नेन तु भुक्तेन उदरस्थेन यो मृतः । स वै खरत्वमुष्ट्रत्वं शूद्रत्वञ्चाधिगच्छति ॥’ शूद्रान्नं शूद्रस्वामिकान्नम् । तद्दत्तमपि भोजन- काले तद्गृहावस्थितं यत् तदपि शूद्रान्नम् । तदाहाङ्गिराः । ‘शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि । निवृत्तेन न भोक्तव्यं शूद्रान्नं तदपि स्मृतम् ॥’ अपिशब्दात् साक्षात् तद्दत्तघृततण्डुलादि न तु तद्दत्तकपर्दकादिना क्रीतमपि । स्वगृहागते पुन- रङ्गिराः । ‘यथायतस्ततो ह्यापः शुद्धिं यान्ति नदीं गताः । शूद्राद्बिप्रगृहेष्वन्नं प्रविष्टन्तु सदा शुचि ॥’ प्रविष्टं सत्त्वापादकप्रतिग्रहादिना इति शेषः । अतएव पराशरः । ‘तावद्भवति शूद्रान्नं यावन्न स्पृशति द्बिजः । द्बिजातिकरसंस्पृष्टं सर्व्वं तद्धविरुच्यते ॥’ स्पृशति प्रतिगृह्णाति इति कल्पतरुः ॥ तच्च संप्रोक्ष्य ग्राह्यमाह विष्णुपुराणम् । ‘संप्रोक्षयित्वा गृह्णीयाच्छूद्रान्नं गृहमागतम् ।’ तच्च पात्रान्तरे ग्राह्यमाह अङ्गिराः । ‘स्वपात्रे यत्तु विन्यस्तं शूद्रो यच्छति नित्यशः । पात्रान्तरगतं ग्राह्यं दुग्धं स्वगृहमागतम् ॥’ एतेन स्वगृहमागतस्यैव शुद्धत्वम् । तद्गृहगतस्य शूद्रान्नदोषभागित्वं प्रतीयते । ततश्चैतादृगपि मुमूर्षुणा सर्व्वथा शूद्रान्नं न भोक्तव्यम् ॥ * ॥ ‘सार्थः प्रवसतो मित्रं भार्य्या मित्रं गृहे सतः । आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः ॥’ वराहपुराणे । “व्यतीपातोऽथ संक्रान्तिस्तथैव ग्रहणं रवेः । पुण्यकालास्तदा सर्व्वे यदा मृत्युरुपस्थितः ॥ गोभूतिलहिरण्यादि दत्तमक्षयतामियात् ॥” निरवकाशत्वादत्र मलमासादिदोषो नास्ति सूतकमपि न । तथा च शुद्धिरत्नाकरे दक्षः । “सुस्थकाले त्विदं सर्व्वं सूतकं परिकीर्त्तितम् । आपद्गतस्य सर्व्वस्य सूतकेऽपि न सूतकम् ॥” इति शुद्धितत्त्वम् ॥