यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्खः, पुं, (मुह् + “मुहेः खो मूर् च ।” उणा० ५ । २२ । इति खः धातोः मूरादेशश्च ।) माषः । इति त्रिकाण्डशेषः ॥ गायत्त्रीरहितः । यथा, “क्रियाहीनस्य मूर्खस्य महारोगिण एव च । यथेष्टाचरणस्याहुर्मरणान्तमशौचकम् ॥ क्रियाहीनस्य नित्यनैमित्तिकक्रियाननुष्ठायिनः । मूर्खस्य गायत्त्रीरहितस्य । सार्थगायत्त्रीरहि- तस्येति रुद्रधरः ॥ महारोगिणः पापरोगा- ष्टकान्यतमरोगवतः ते च उन्मादस्त्वग्दोषो राजयक्ष्मा श्वासो मधुमेहो भगन्दरः । उदरो- ऽश्मरीत्यष्टौ पापरोगा नारदोक्ताः । यथेष्टा- चरणस्य द्यूतवेश्याद्यासक्तस्य । इति शुद्धि- तत्त्वम् ॥

मूर्खः, त्रि, (मुह् + खः । मूरादेशः ।) मुह्यति यः । तत्पर्य्यायः । अज्ञः २ मूढः ३ यथाजातः ४ वैधेयः ५ वालिशः ६ । इत्यमरः । ३ । १ । ४८ ॥ तस्य वशीकरणोपायो यथा, -- “मित्रं स्वच्छतया रिपुं नयबलैर्लुब्धं धनैरीश्वरं कार्य्येण द्बिजमादरेण युवतीं प्रेम्णा गुणै- र्बान्धवान् । अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिर्मूर्खं कथाभि र्बुधं विद्याभी रसिकं रसेन सकलं शीलेन कुर्य्याद्- वशम् ॥” इति नवरत्नानि ॥ “पयःपानं भुजङ्गानां केवलं विषवर्द्धनम् । उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ॥” इति हितोपदेशः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्ख वि।

मूर्खः

समानार्थक:अज्ञ,मूढ,यथाजात,मूर्ख,वैधेय,बालिश,मूर्छित,मन्द,पृथग्जन,डिम्भ,बाल

3।1।48।1।4

अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः। कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्ख¦ त्रि॰ मुह खमुरादेशः।

१ मूढे

२ गायत्रीरहिते

३ सार्थ-गायत्रीरहिते च।
“क्रियाहीनस्य मूर्खस्येऽति स्मृति-व्याख्यायां निबन्धकारैस्तथार्थकतया व्याख्यानात्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्ख¦ mfn. (-र्खः-र्खा-र्खं) Foolish, ignorant, stupid, idiotic. m. (-र्खः) A sort of bean, (Phaseolus radiatus.) E. मूर्ख substituted for मुह् to be fool- ish, aff. अच्; or मुर् substituted for the root, with ख Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्ख [mūrkha], a. Stupid, dull-headed, foolish, silly.

र्खः A fool, blockhead; न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् Bh.2.5,8; मूर्ख बलादपराधिनं मां प्रतिपादयिष्यसि V.2; मूर्खो$पि शोभते तावद्या- वत्किंचिन्न भाषते H.

A kind of bean. -Comp. -पण्डितः a learned fool; सर्वे ते हास्यतां यान्ति यथा ते मूर्खपण्डिताः Pt. 5.4. -भूयम् folly, stupidity, ignorance. -भ्रातृक a. one who has a foolish brother. -मण्डलम् an assembly of fools. -शतम् a hundred fools; वरमेको गुणी पुत्रो न च मूर्खशतान्य$पि H.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूर्ख mf( आ)n. stupid , foolish , silly , dull TS. Mn. etc.

मूर्ख mf( आ)n. inexperienced in( loc. ) Katha1s.

मूर्ख mf( आ)n. = गयत्री-रहितor सा-र्थ-गायत्री-रहितL.

मूर्ख m. a fool , blockhead Bhartr2.

मूर्ख m. Phaseolus Radiatus L.

मूर्ख m. N. of a poet Cat.

मूर्ख etc. See. p. 823 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=मूर्ख&oldid=503567" इत्यस्माद् प्रतिप्राप्तम्