मूर्च्छा
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूर्च्छा, स्त्री, (मूर्च्छ् + “गुरोश्च हलः ।” ३ । ३ । १०३ । इति अः टाप् ।) संमोहः । तत्पर्य्यायः । कश्मलम् २ मोहः ३ । इत्यमरः । २ । ८ । १०९ । मूर्च्छनम् ४ । इति शब्दरत्नावली ॥ मूर्च्छायः ५ । अथ मूर्च्छाधिकारः । तत्र मूर्च्छाया निदानपूर्ब्बिकां संप्राप्तिमाह । “क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः । वेगाघातादभिघाताद्धीनसत्त्वस्य वा पुनः ॥ करणायतनेषूग्रा वाह्येष्वभ्यन्तरेषु च । निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः ॥” बहुदोषस्य अधिकदोषस्य । न त्वनेकदोषस्य तदा मूर्च्छा त्रिदोषजैव स्यात् तथवास्तु को वस्तमूत्रेण संपिष्टं नस्यं तन्द्रानिवारणम् ॥” श्वेतमरिचं सिग्रुबीजम् । “शुण्ठीकणागस्तिरसोषणानि नस्येन तन्द्राधिजयोल्वणानि । क्षुद्रामृतापौष्करनागराणि भार्गीशिवाभ्यां क्वथितानि पानात् ॥” शिवा हरीतकी । इति मूर्च्छाभ्रमतन्द्राति- निद्रासंन्यासाधिकारः । इति भावप्रकाशः ॥ (अथास्यां पथ्यविधिः । “सेकावगाहौ मणयः सहाराः शीताः प्रदेहा व्यजनानिलश्च । शीतानि पानानि च गन्धवन्ति धारागृहं शीतमरीचिरोचिः ॥ धूमोऽञ्जनं लावणमस्रमोक्षो दाहश्च सूचीपरितोदनानि । रोम्नां कचानामपि कर्षणानि नखान्तपीडा दशनोपदंशः ॥ नासामुखद्बारमरुन्निरोधो विरेचनच्छर्द्दनलङ्घनानि । क्रोधो भयं दुःखकरी च शय्या कथा विचित्रा च मनोहरा च ॥ छायानभोऽम्भःशतधौतसर्पि- र्मृदूनि तिक्तानि च लाजमण्डः । जीर्णा यवा लोहितशालयश्च कौम्भं हविर्मुद्गसतीनयूषाः ॥ धन्वोद्भवा मांसरसाश्च रागाः सषाडवा गव्यपयः सिता च । पुराणकुष्माण्डपटोलमोच- हरीतकीदाडिमनारिकेलम् ॥ मधूकपुष्पाणि च तण्डुलीय उपोदिकान्नानि लघूनि चापि । प्रनीरनीरं सितचन्दनानि कर्पूरनीरं हिमवालुका च ॥ अत्युच्चशब्दोऽद्भुतदर्शनानि गीतानि वाद्यान्यपि चोत्कटानि । श्रमः स्मृतिश्चिन्तनमात्मबोधा- धैर्य्यञ्च मूर्च्छावति पथ्यवर्गः ॥” अथापथ्यविधिः । “ताम्बूलं पत्रशाकानि दन्तघर्षणमातपम् । विरुद्धान्यन्नपानानि व्यवायं स्वेदनं कटुम् । तृड्निद्रयोर्वेगरोधं तक्रं मूर्च्छामयी त्यजेत् ॥” इति वैद्यकपथ्यापथ्यविधौ मूर्च्छाधिकारे ॥)
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूर्च्छा¦ स्त्री मुर्च्छ--भावे अङ्।
१ मोहे अमरः।
२ अनिद्रा-यामपि बाह्येन्द्रिय व्यापारशून्यावस्थायां
“क्षीणस्य बहु-दोषस्य विरुद्धाहारसेविनः। वेगाघातादभिघातात्हीनसत्त्वस्य वा पुनः। करणायतनेषूग्रा याह्येष्वाभ्यन्तरेषु च। निविशन्ते यदा दोषास्तदा मूर्च्छन्तिमानवाः” भावप्र॰।
३ वृद्धौ च।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूर्च्छा¦ f. (-र्च्छा)
1. Fainting, loss of consciousness or sense.
2. Delusion.
3. A particular process in calcining metals. E. मूर्च्छा to be faint, affs. अङ् and टाप्।
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मूर्च्छा [mūrcchā], [मुर्च्छ्-भावे अङ्]
Fainting, swooning; प्रहार- मूर्च्छापगमे R.7.44.
Spiritual ignorance or delusion.
A process in calcining metals; मूर्च्छां गतो मृतो वा निदर्शनं पारदो$त्र रसः Bv.1.82.
The rising of sounds &c.; see मूर्च्छन (4) above.
Growth, increase. -Comp. -अपगमः the passing off of fainting. -आक्षेपः (in Rhet.) expressing strong dissent by a swoon; इति तत्कालसम्भूत- मूर्च्छयाक्षिप्यते गतिः । कान्तस्य कातराक्ष्या यन्मूर्च्छाक्षेपः स ईदृशः ॥ Kāv.2.154. -परिप्लुत, -परीत a. unconscious, fainted away.