यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगशिरः, [स्] क्ली, (मृगस्येव शिरोऽस्य ।) सप्तविंशतिनक्षत्रान्तर्गतपञ्चमनक्षत्रम् । तत्- पर्य्यायः । मृगशीर्षम् २ आग्रहायणी ३ । इत्यमरः । १ । ३ । २३ ॥ (यथा, बृहत्संहिता- याम् । १० । ५ । “मृगशिरसि वत्सयाजक- यजमानार्य्यजनमध्यदेशाश्च ।”) तत्तु विडालपदाकृति तारात्रयात्मकं चन्द्राधि- दैवतम् । इति ज्योतिषम् ॥ गगनमध्ये तस्योदये कन्यालग्नस्य द्वात्रिंशत्पलानि गतानि भवन्ति । यथा, -- “मूषिकाशनपदाकृतौ विधौ व्योममध्यमिलिते त्रितारके । शारदेन्दुमुखि ! कन्यकोदया- दीक्षणानलकलाः कलावति ! ॥” इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ तत्र जातफलम् । यथा, -- “शरासनाभ्यासरतो विनीतः सदानुरक्तो गुणिनां गुणेषु । भक्तानुपस्नेहभरेण पूर्णः सन्मार्गवर्त्ती मृगजन्मभागी ॥” इति कोष्ठीप्रदीपः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगशिरस् नपुं।

मृगशिरा-नक्षत्रम्

समानार्थक:मृगशीर्ष,मृगशिरस्,आग्रहायणी

1।3।23।1।2

मृगशीर्षं मृगशिरस्तस्मिन्नेवाग्रहायणी। इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, नक्षत्रम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगशिरस्¦ न॰ पु॰। मृगस्येव शिरोऽस्य। अश्विन्यवधिकेपञ्चमे नक्षत्रे मृगशिराप्यत्र स्त्री टाप् शब्दर॰। मृग-शीर्षन्, न॰ रायमु॰ मृगशीर्ष पु॰ एतावप्यत्र भरतः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगशिरस्¦ n. (-रः) The fifth lunar mansion, containing three stars, one of which is ORIONIS, and figured by an antelope's head, whence its name. E. मृग a deer, and शिरस् the head; also मृगशिरा f. (-रा) or मृगशिरस् m. (-रः) |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगशिरस्/ मृग--शिरस् n. ( मृग-)N. of the 3rd (or 5th) नक्षत्र(See. )containing 3 stars (one of which is ? Orionis ; it is figured by an antelope's head) AV. Gr2S3rS. VarBr2S.

मृगशिरस्/ मृग--शिरस् mfn. born under that -Naksh नक्षत्रPa1n2. 4-3 , 37 Sch.

मृगशिरस्/ मृग--शिरस् m. a partic. position of the hands Cat.

"https://sa.wiktionary.org/w/index.php?title=मृगशिरस्&oldid=363402" इत्यस्माद् प्रतिप्राप्तम्