मृगाङ्कः
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मृगाङ्कः, पुं, (मृगः अङ्को, यस्य ।) चन्द्रः ॥ (यथा, नैषधचरिते । १ । ७८ । “विनिद्रपत्रालिगतालिकैतवान् मृगाङ्कचूडामणिवर्ज्जनार्ज्जितम् ।”) कर्पूरः । इत्यमरः । १ । ३ । १४ ॥ वायुः । इति विश्वः ॥ मृगचिह्नम् । चन्द्रे तच्चिह्नकारणं यथा, -- “लोकच्छायामयं लक्ष्म तवाङ्के शशसंस्थितम् । न विदुः सोमदेवापि ये च नक्षत्रयोगिनः ॥” इति महाभारते हरिवंशः ॥ यथा, दर्पणं प्राप्य परावृत्ता नयनरश्मयो ग्रीवास्थमेव मुखं दर्पणगतमिव पश्यन्ति एवं चन्द्रमण्डलं प्राप्य परावृत्तास्ते दूरत्वदोषात् पृथिवीमव्यक्तरूपामिव चन्द्रमण्डलगतां पश्यन्ति स एव चन्द्रे कलङ्क इत्युपचर्य्यते । इति तट्टीका ॥ यक्ष्मरोगस्य औषधविशेषः । यथा, “स्याद्रसेन समं हेम मौक्तिकं द्बिगुणं भवेत् । गन्धकस्तु समस्तेन रसपादस्तु टङ्कणः ॥ सर्व्वं तद्गोलकं कृत्वा काञ्जिकेन विशोषयेत् । भाण्डे लवणपूर्णेऽथ पचेद् यामचतुष्टयम् । मृगाङ्कसंज्ञको ज्ञेयो रोगराजनिकृन्तनः ॥” अपि च । ‘रसस्य भस्मनो हेम पिष्टीकृत्य प्रयोजयेत् । गुञ्जाचतुष्टयञ्चाज्यमरिचैर्भक्षयेन्नरः ॥’ इति मधुमती ॥ (एतन्नामकौषधान्तरं यथा, -- “रसभस्म हेमभस्म तुल्यं गुञ्जाद्बयं द्बयम् । दोषं बुद्ध्वानुपानेन मृगाङ्कोऽयं क्षयापहः ॥” * ॥ इति वैद्यकरसेन्द्रसारसंग्रहे यक्ष्माधिकारे ॥)