यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदिनी, स्त्री, (मेदोऽस्या अस्तीति । मेद + इनिः । ङीष् ।) मेदा । काश्मरी । इति राज- निर्घण्टः ॥ पृथिवी । इत्यमरः । २ । १ । ३ ॥ मेदो विद्यतेऽस्यां मेदिनी सान्तान्मेदःशब्दादिन् सलोपश्च निपात्यते इति परे । स्वमते मेदः समानार्थोऽदन्तो मेदशब्दोऽस्ति । तृष्णाकण्डु- कृमिहरो मलघ्नो मेदकुष्ठहेति शालिहोत्रः । नैकाजादिति इन् । यथा चोक्तम् । “मधुकैटभयोरासीन्मेदसैव परिप्लुता । तेनेयं मेदिनी देवी प्रोच्यते ब्रह्मवादिभिः ॥” मेद्यतीति वा मेदिनी इन्मिद्या स्निहि ग्रहादि- त्वाण्णिन् । इति तट्टीकायां भरतः ॥ (एतन्नाम- निरुक्तिर्यथा, देवीभागवते । १ । ९ । ८३-८४ । “गतप्राणौ तदा जातौ दानवौ मधुकैटभौ । सागरः सकलो व्याप्तस्तदा वै मेदसा तयोः ॥ मेदिनीति ततो जातं नाम पृथ्व्याः समन्ततः । अभक्ष्या मृत्तिका तेन कारणेन मुनीश्वराः ॥” अपि च । तत्रैव । ३ । १३ । ८ । “मधुकैटभयोर्मेदःसंयोगान्मेदिनी स्मृता । धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः ॥”) तस्या उत्पत्तिर्यथा, -- “श्रूयतां वसुधाजन्म सर्व्वमङ्गलकारणम् । विघ्ननिघ्नकरं पापनाशनं पुण्यवर्द्धनम् ॥ अहो केचिद्बदन्तीति मधुकैटभमेदसा । बभूव वसुधाजन्म तद्विरुद्धमतं शृणु ॥ ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा । आवां वध न यत्रोर्व्वी पाथसा संवृतेति च ॥ तयोर्ज्जीवनकालेन प्रत्यक्षा सा भवेत् स्फुटम् । ततो बभूव मेदश्च मरणस्यान्तरं तयोः । मेदिनीति च विख्यातेत्युक्ता यैस्तन्मतं शृणु ॥ जलधौता कृशा पूर्ब्बं वर्द्धिता मेदसा यतः । कथयामि च तज्जन्म सार्थकं सर्व्वसम्मतम् ॥ पुरा श्रुतं यत् श्रुत्युक्तं धर्म्मवक्त्राच्च पुष्करे । महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम् ॥ मलो बभूव कालेन सर्व्वाङ्गव्यापको ध्रुवम् । स च प्रविष्टः सर्व्वेषां तल्लोम्नां विवरेषु च ॥ कालेन महता तस्माद्बभूव वसुधा मुने ! । प्रत्येकं प्रतिलोम्नाञ्च कूपेषु सा स्थिरा स्थिता ॥ आविर्भूता तिरोभूता सा जले च पुनः पुनः । आविर्भूता सृष्टिकाले तज्जलोपर्य्यवस्थिता । प्रलये च तिरोभूता जलाभ्यन्तरवस्थिता ॥” इति श्रीब्रह्मवैवर्त्ते प्रकृतिखण्डे नारायणनारद- संवादे पृथिव्युपाख्याने ७ अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदिनी स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।3।2।7

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदिनी¦ स्त्री मेदः मधुकैटममेदोऽस्त्यस्याः कारणत्वेन इनि।

१ वसुन्धरायाम्
“मधुकैटभयोरासीन्मेदसैव परिप्लुता। तेनेयं मेदिनो देवी प्रोच्यते” इति पुराणम्।

२ मेदायाञ्च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदिनी¦ f. (-नी) The earth. E. मेदस् adeps, इनि and ङीप् affs.; being made, according to the legend, of the adeps of two demons slain by BRAHMA
4.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदिनी [mēdinī], 1 The earth; न मामवति सद्वीपा रत्नसूरपि मेदिनी R.1.65; चञ्चलं वसु नितान्तमुन्नता मेदिनीमपि हरन्त्यरातयः Ki.13. 52; (मधुकैटभयोरासीन्मेदसैव परिप्लुता । तेनेयं मेदिनीनाम्ना सर्वतः परिकीर्तिता ॥).

Ground, land, soil.

Spot, place.

N. of a lexicon (मेदिनीकोश). -Comp. -ईशः, -पतिः a king. -जः the planet Mars. -दिनम् a natural day.-द्रवः dust. -धरः a mountain.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदिनी f. " having fatness or fertility " , the earth , land , soil , ground TA1r. MBh. etc.

मेदिनी f. a place , spot Hariv.

मेदिनी f. a kind of musical composition Sam2gi1t.

मेदिनी f. Gmelina Arborea L.

मेदिनी f. = मेदाL.

मेदिनी f. N. of a lexicon (also -कोशor मेदिनि-क्).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the earth; deluge foretold by the fish; फलकम्:F1: M. 1. २४-9.फलकम्:/F of seven द्वीपस्; फलकम्:F2: वा. 1. ८९.फलकम्:/F surrounded by seas; filled with मेदस् of Madhu and कैटभ. फलकम्:F3: Ib. ६३. 1 and 2.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MEDINĪ : A synonym for Earth (Bhūmi). (See under Kaiṭabha for details).


_______________________________
*3rd word in left half of page 500 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मेदिनी&oldid=435582" इत्यस्माद् प्रतिप्राप्तम्