यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेषः, पुं, (मिषति अन्योन्यं स्पर्द्धते इति । मिष् स्पर्द्धायाम् + अच् ।) पशुविशेषः । मेडा इति भेडा इति च भाषा ॥ (यथा, पञ्चतन्त्रे । ५ । ६२ । “मेषेण सूपकाराणां कलहो यत्र वर्त्तते । स भविष्यत्यसन्दिग्धं वानराणां भयावहः ॥”) तत्पर्य्यायः । मेढ्रः २ उरभ्रः ३ उरणः ४ ऊर्णायुः ५ वृष्णिः ६ एडकः ७ । इत्यमरः । २ । ९ । ७६ ॥ भेडः ८ हुडः ९ शृङ्गिणः १० अविः ११ लोमशः १२ बली १३ रोमशः १४ भेडुः १५ भेडकः १६ मेण्टः १७ हुलुः १८ । इति शब्दरत्नावली ॥ मेण्टकः १९ हुड्ः २० संफलः २१ । इति हेमचन्द्रः । ४ । ३४१ ॥ अस्य मांसगुणाः । मधुरत्वम् । शीतत्वम् । गुरुत्वम् । विष्टम्भित्वम् । वृंहणत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । पित्तश्लेष्मकरत्वम् । कुसुम्भशाकेन सह त्याज्यत्वञ्च । इति राज- वल्लभः ॥ * ॥ लग्नविशेषः । औषधविशेषः । इति मेदिनी । षे, १२१ ॥ (यथा, सुश्रुते उत्तरतन्त्रे । १७ अध्याये । “मेषस्य पुष्पैर्मघुकेन संयुतं तदञ्जनं सर्व्वकृते प्रयोजयेत् । क्रियाश्च सर्व्वाः क्षतजोद्भवे हितः क्रमः परिम्नायिनि चापि पित्तहृत् ॥”) राशिविशेषः ॥ तत्पर्य्यायः । क्रियः २ । (यथा, श्रीमद्भागवते । ५ । २१ । ४ । “यदा मेषतुलयोर्वर्त्तते तदाहोरात्राणि समानानि भवन्ति । यदा वृषभादिषु पञ्चसु च राशिषु चरति तदाहा- न्येव वर्द्धन्ते ह्रसति च मासि मासि एकैका घटिका रात्रिषु ॥”) अस्याधिष्ठात्री देवता पुंमेषः । अश्विनीभरणीकृत्तिकापादैकेन मेष- राशिर्भवति । अत्र जात ईदृशो भवति । शेषदशायां नेत्रदुःखी दयालुः धनी गानसुखी धार्म्मिकः धीरः मत्स्यमांसाशी च । स तु पृष्ठोदयः । अस्य वर्णः । आरक्तः पीतश्च । अयं क्रूरः । पित्तोष्णस्वभावः । कान्तिरहितः । समानाङ्गः । पर्व्वतचारी । पूर्ब्बदिगधिपतिः । वैश्यवर्णः । अल्पस्त्रीसङ्गः । अल्पसन्तानः । सुदृढः । अतिरवश्च । इति ज्योतिषम् ॥ * ॥ रव्याश्रिततद्राशिजातफलं यथा, -- “मेषे दिनेशे पुरुषः सुवेशः सत्साहसः स्यान्नृपतेः समानः । बुद्ध्या युतः पित्तकृता च पीडा वक्त्रोद्भवा वा सततं महौजाः ॥” * ॥ चन्द्राश्रिततद्राशिजातफलं यथा, -- “स्थिरजनो रहितः स्वजनैर्नरः सुतयुतः प्रमदाविजितो भवेत् । अजगते द्बिजराज इतीरितं विभुतयाद्भुतया सहितः श्रिया ॥” * ॥ तल्लग्नजातफलं यथा, -- “मेषलग्ने समुत्पन्नश्चण्डो मानी धनी शुभः । क्रोधी स्वजनहन्ता च विक्रमी परवत्सलः ॥” इति कोष्ठीप्रदीपः ॥ तल्लग्नस्य स्थूलमानम् । ३ । ४७ । इति ज्योति- स्तत्त्वम् ॥ * ॥ त्रितारकशराकृतिश्रवणानक्ष- त्रस्य गगनमध्योदये मेषलग्नस्य अष्टादशपला- धिकदण्डैको गतो भवेत् । यथा, -- “तारकात्रयमिते शराकृतौ केशवे गगनमध्यवर्त्तिनि । मत्तवारणगतेऽजलग्नतो निर्ययुर्गजमहीध्रलिप्तिकाः ॥” मर्द्दलाकृतिपञ्चतारकधनिष्ठानक्षत्रस्य मस्तको- पर्य्युदये मेषलग्नस्य षट्त्रिंशत्पलाधिकदण्डद्बयं गतं स्यात् । यथा, -- “मस्तकोपरि समागते धने मर्द्दलाकृतिनि पञ्चतारके । यान्ति कान्तिमति मेषलग्नतः सारसाक्षि रसघस्रलिप्तिकाः ॥” इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेषः [mēṣḥ], 1 A ram, sheep.

The sign Aries of the zodiac. -Comp. -अण्डः an epithet of Indra. -कम्बलः a woollen blanket or rug. -कुसुमः, -लोचनः Cassia Thora (Mar. टाकळा). -पालः, -पालकः a shepherd. -मांसम् mutton.-यूथम् a flock of sheep. -शृङ्गः a species of tree; Mb. 14.43.3. -शृङ्गी Odina Pinnata (Mar. मेढशिंगी).

"https://sa.wiktionary.org/w/index.php?title=मेषः&oldid=368580" इत्यस्माद् प्रतिप्राप्तम्