यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैथुनम्, क्ली, (मिथुने सम्भवतीति । मिथुन + “संभूते ।” ४ । ३ । ४१ । इति अण् । मिथुनस्येद- मित्यण् वा ।) अग्न्याधानम् । यथा, मनुशाता- तपौ । “असपिण्डा च या मातुरसगोत्रा च या पितुः । सा प्रशस्ता द्बिजातीनां दारकर्म्मणि मैथुने ॥ मैथुने मिथुनशब्दवाच्ये स्त्रीपुंससाध्ये अग्न्याधान- पुत्त्रोत्पत्त्यादौ ।” इत्यद्वाहतत्त्वम् ॥ * ॥ सङ्गतम् । रतम् । इत्यमरः । ३ । ३ । १२१ ॥ “सङ्गतिः सङ्गमो दारसंयोगः विवाह इति कलिङ्गः ॥ रतं सुर- तम् । अनयोर्मैथुनम् । मिथुनात् सङ्गमे इदमर्थे स्वार्थे रतौ निष्पाद्यार्थे वा ष्णः । सम्बन्धे सुरते युम्मे राशौ मिथुनमिष्यते । इति व्याडिः ।” इति तट्टीकायां भरतः ॥ * ॥ शेषस्य पर्य्यायः । सुरतम् २ अभिमानितम् ३ धर्षितम् ४ संप्रयोगः ५ अनारतम् ६ अब्रह्मचर्य्यकम् ७ उपसृष्टम् ८ त्रिभद्रम् ९ क्रीडारत्नम् १० महासुखम् ११ । इति त्रिकाण्डशेषः ॥ व्यवायः १२ ग्राम्य- धर्म्मः १३ रतम् १४ निधुवनम् १५ । इत्यमरः । २ । ७ । ५७ ॥ अस्य गुणाः । धातुक्षयकारि- त्वम् । रतिसन्तानदातृत्वञ्च । अतिशयमैथुनस्य श्वासकासज्वरकारित्वम् । अमैथुनस्य प्रमेहमेद तैलस्त्रीमांससंभोगी पर्व्वस्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ॥ अशेषपर्व्वस्वेतेषु तस्मात् संयमिभिर्ब्बुधैः । भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैर्नरैः ॥ नान्ययोनावयोनौ वा नोपभुक्तौषधस्तथा । देवद्बिजगुरूणाञ्च व्यवायी नाश्रयी भवेत् ॥ चैत्यचत्वरतीर्थेषु नैव गोष्ठे चतुष्पथे । नैव श्मशानोपवने सलिलेषु महीपते ! ॥ प्रोक्तपर्व्वस्वशेषेषु नैव भूपाल ! सन्ध्ययोः । गच्छेद्व्यवायं मतिमान्न मूत्रोच्चारपीडितः ॥ पर्व्वस्वभिगमोऽधन्यो दिवा पापप्रदो नृप ! । भुवि रोगावहो नॄणामप्रशस्तो जलाशये ॥ परदारान्न गच्छेत मनसापि कदाचन । किमु वाचास्थिबन्धोऽपि नास्ति तेषु व्यवा- यिनाम् ॥ मृतो नरकमभ्येति हीयतेऽत्रापि चायुषः । परदारगतिः पुंसामुभयत्रापि भीतिदा ॥ इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् । यथोक्तदोषहीनेषु सकामेष्वनृतावपि ॥” इति विष्णुपुराणे । ३ । ११ । १११-१२४ ॥ * ॥ परस्त्र्यादिगमने दण्डो यथा, -- “ब्राह्मणः क्षत्त्रियो वैश्यः क्षत्त्रविट्शूद्रयोषितः । व्रजन्दाप्यो भवेद्राज्ञा दण्ड उत्तमसाहसम् ॥ वैश्यागमे च विप्रस्य क्षत्त्रियस्यान्त्यजागमे । मध्यमं प्रथमं वैश्यो दण्ड्यः शूद्रागमाद्भवेत् ॥ शूद्रः सवर्णागमने शतं दण्ड्यो महीभुजा । वैश्यश्च द्बिगुणं राजन् ! क्षत्त्रियस्त्रिगुणं तथा ॥ ब्राह्मणश्च भवेद्दण्ड्यस्तथा राजंश्चतुर्गुणम् । अगुप्तासु भवेद्दण्डः स्वगुप्तास्वधिको भवेत् ॥ माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा । पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी तथा ॥ भागिनेयी तथा चैव राजपत्नी तथैव च । तथा प्रव्रजिता नारी वर्णोत्कृष्टा तथैव च ॥ इत्यगम्यास्तु निर्द्दिष्टास्तासान्तु गमने नरः । शिश्नस्योत्कर्त्तनं कृत्वा ततस्तु वधमर्हति ॥ भ्रातृभार्य्यागमे पूर्ब्बाद्दण्डस्तु द्बिगुणो भवेत् । चाण्डालीञ्च श्वपाकीं वा गच्छन् वधमवाप्नुयात् । तिर्य्यग्योनौ च गोवर्ज्यं मैथुनं योऽभिसेवते । स पणं प्राप्तुयाद्दण्डं तस्याश्च यवसोदकम् ॥ सुवर्णञ्च भवेद्दण्ड्यो गां व्रजन् मनुजोत्तम ! । वैश्यागामी द्बिजो दण्ड्यो वैश्यशुल्कसमं पणम् ॥ गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति । वेतनं द्बिगुणं दद्याद्दण्डञ्च द्विगुणन्तथा ॥ अन्यमुद्दिश्य यो दद्यात् नयेदन्यस्य कारणात् । तस्य दण्डं भवेद्राजन् ! सुवर्णस्य च माषकम् ॥ नीत्वा भोगान्न यो दद्याद्दाप्यो द्विगुणवेतनम् । राज्ञश्च द्बिगुणं दण्डन्तथा धर्म्मो न हीयते ॥ बहूनां व्रजतामेकां सर्व्वे ते द्विगुणं दमम् । दद्युः पृथक् पृथक् सर्व्वे दण्डञ्च द्बिगुणं परम् ॥” इति मात्स्ये २०१ अध्यायः ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैथुन नपुं।

मैथुनम्

समानार्थक:व्यवाय,ग्राम्यधर्म,मैथुन,निधुवन,रत

2।7।57।1।3

व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम्. त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः॥

पदार्थ-विभागः : , क्रिया

मैथुन नपुं।

रतम्

समानार्थक:मैथुन

3।3।122।1।2

अकार्यगुह्ये कौपीनं मैथुनं सङ्गतौ रते। प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः॥

पदार्थ-विभागः : , क्रिया

मैथुन नपुं।

सङ्गतिः

समानार्थक:योग,मैथुन

3।3।122।1।2

अकार्यगुह्ये कौपीनं मैथुनं सङ्गतौ रते। प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैथुन¦ न॰ मिथुनेन स्त्रीपुंसाभ्यां निर्वृत्तम् अण्।

१ अग्न्या-धानादौ, कर्मणि
“सा प्रशस्ता द्विजातीनां दारकर्मणिमैथुने” इति स्मृतिः। अग्न्याधाने हि सपत्नीकस्यैवाधि-कार इति तस्य तत्साध्यत्वम्।

२ स्त्रीपुंससङ्गमरूपेग्राम्यधर्मे च अमरः।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैथुन [maithuna], a. (-नी f.) [मिथुनेन निर्वृत्तम् अण्]

Paired, coupled; गन्धर्वस्तादृशीरस्य मैथुन्यश्च सितासिताः Bhāg.4.27.14.

United by marriage.

Relating to copulation.

नम् Copulation, sexual union; मृतं मैथुनमप्रजम् Pt.2.98.

Marriage.

Union, connection.

Consecrating the fire (अग्न्याधान). -Comp. -गत a. engaged in copulation.-गमनम् sexual intercourse. -ज्वरः the excitement of sexual passion. -धर्मिन् a. copulating. -वैराग्यम् abstinence from sexual intercourse.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैथुन mf( ई)n. (fr. मिथुन)paired , coupled , forming a pair or one of each sex BhP.

मैथुन mf( ई)n. connected by marriage Pa1rGr2.

मैथुन mf( ई)n. relating or belonging to copulation Kat2hUp. Mn. MBh. (with भोगुm. carnal enjoyment ; with धर्मm. " sexual law " , copulation ; with वासस्n. a garment worn during -copcopulation)

मैथुन n. ( ifc. f( आ). )copulation , sexual intercourse or union , marriage S3Br. etc. ( acc. with आस्, इ, गम्, चर्; dat. with उप-गम्, or उपक्रम्, to have sexual intercourse)

मैथुन n. union , connection L.

"https://sa.wiktionary.org/w/index.php?title=मैथुन&oldid=503614" इत्यस्माद् प्रतिप्राप्तम्