यक्षः
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यक्षः, पुं, (यक्ष्यते पूज्यत इति । यक्ष + घञ् । यद्वा, ईं लक्ष्मीमक्ष्णोतीति । अक्ष + अण् ।) गुह्यकमात्रम् । गुह्यकेश्वरः । इति मेदिनी । षे, २२ ॥ इन्द्रगृहम् । धनरक्षकः । इति सारस्वतः ॥ यक्षस्वरूपं यथा, -- “आजग्मुर्यक्षनिकराः कुबेरवरकिङ्कराः । शैलजप्रस्तरकरा अञ्जनाकारमूर्त्तयः ॥ विकृताकारवदनाः पिङ्गलाक्षा महोदराः । स्फटिका रक्तवेशाश्च दीर्घस्कन्धाश्च केचन ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १७ अध्यायः ॥ यक्षगणो यथा, -- “प्रचेतसः सुता यक्षास्तेषां नामानि मे शृणु । केवलो हरिकेशश्च कपिलः काञ्चनस्तथा । मेघमाली च यक्षाणां गण एष उदाहृतः ॥” तस्य व्युत्पत्तिर्यथा, -- “धातुर्यक्षत्यथोक्तस्त्वददने क्षपणे च सः । यद्यक्षत्युक्तवानेष तस्माद्यक्षो भवत्ययम् ॥” इति वह्निपुराणे काश्यपीयवंशः ॥ (अपरा निरुक्तिर्यथा, विष्णुपुराणे । १ । ५ । ४१ । “मैवं भो रक्ष्यतामेष यैरुक्तं राक्षसास्तु ते । ऊचुः खादाम इत्यन्ये ये ते यक्षास्तु जक्षणात् ॥” पुं, क्ली, पूजा । यथा, ऋग्वेदे । ७ । ६१ । ५ । “अमूरा विश्वा वृषणा विमा वां न यामु चित्रं ददृशे न यक्षम् ॥” “न यक्षं न पूजा दृश्यते ।” इति तद्भाष्ये सायणः ॥ तथाच अथर्व्ववेदे । १६ । २ । २४ । “तव यक्षं पशुपते अप्स्वन्तः ॥”)
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यक्षः [yakṣḥ], [यक्ष्यते, यक्ष्-कर्मणि घञ्]
N. of a class of demigods who are described as attendants of Kubera, the god of riches, and employed in guarding his gardens and treasures; यक्षोत्तमा यक्षपतिं धनेशं रक्षन्ति वै प्रासगदादिहस्ताः Hariv.; Me.68; Bg.1.23;11.22.
A kind of ghost or spirit; तन्न व्यजानन्त किमिदं यक्षमिति Ken.3.2.
N. of the palace of Indra.
N. of Kubera.
Worship.
A dog.
क्षम् A ghost.
Sacrifice.
Anything honoured.
क्षी A female Yakṣa.
N. of Kubera's wife.
The Yakṣa. class; अल्पवीर्या यदा यक्षी श्रूयते मुनिपुंगव Rām.1.25.2. -Comp. -अधिपः, -अधिपतिः, -इन्द्रः Kubera, the lord of Yakṣas.-आमलकम् the fruit of the पिण्डखर्जूर tree. -आवासः the fig-tree. -कर्दमः an ointment consisting of camphor, agallochum, musk and Kakkola (according to others, also sandal and suffron) mixed in equal proportions; यक्षकर्दममृदून्मृदिताङ्गं ... सिषिचुरुच्चकुचास्तम् N.21.7; (कर्पूरागुरु- कस्तुरीकक्कोलैर्यक्षकर्दमः Ak.; कुङ्कुमागुरुकस्तूरी कर्पूरं चन्दनं तथा । महासुगन्धमित्युक्तं नामतो यक्षकर्दमः ॥). -ग्रहः the being possessed by Yakṣas or evil spirits; a kind of insanity. -तरुः the fig-tree. -धूपः resin, incense. -बलिः a particular nuptial ceremony. -रसः a kind of intoxicating drink.-राज् m.
N. of Kubera; प्रतिसिञ्चन् विचिक्रीडे यक्षीभिर्यक्षराडिव Bhāg.1.9.9.
a place prepared for wrestling and boxing. -राजः N. of Kubera. -रात्रिः f. the festival called Dīpāli, q. v. -वित्तः one who is like a Yakṣa,i. e. the guardian of wealth, but who never uses it; तस्यैवं यक्षवित्तस्य च्युतस्योभयलोकतः Bhāg.11.23.9.