यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षराट्, [ज्] पुं, (यक्षेषु राजते इति । राज् + “सत्सूद्विषद्रुहेति ।” ३ । २ । ६१ । इति क्विप् ।) कुबेरः । (यथा, भागवते । ८ । १८ । १७ । “तस्मा इत्युपनीताय यक्षराट् पात्रिकाम- दात् ॥” यक्षराजमात्रम् । मणिभद्रः । यथा, महा- भारते । ३ । ६४ । १२७ । “तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु ॥” * ॥ यक्षा इव मल्ला राजन्तेऽत्र । राज् + क्विप् ।) रङ्गमण्डपः । इति मेदिनी । जे, ३५ ॥

"https://sa.wiktionary.org/w/index.php?title=यक्षराट्&oldid=159409" इत्यस्माद् प्रतिप्राप्तम्