यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यानम्, क्ली, (या + ल्युट् । अर्द्धर्च्चादित्वात् पुंलिङ्ग- मपि ।) राज्ञां सन्ध्यादिषड्गुणान्तर्गतगुण- विशेषः । तत्तु उपचितशक्तेः कृतमूलराष्ट्र- रक्षस्य शत्रोरास्कन्दनाय यात्रा । इति भरतः ॥ (यथा, देवीभागवते । ५ । ४ । ११ । “यानमप्यधुना नैव कर्त्तव्यं सहसा पुनः ॥” यान्त्यनेनेति । या + ल्युट् ।) हस्त्यश्वरथदोलादि । तत्पर्य्यायः । वाहनम् २ युग्यम् ३ पत्रम् ४ धोर- णम् ५ । इत्यमरः । २ । ८ । ५८ ॥ विमानम् ६ चङ्कु- रम् ७ यापनम् ८ गतिमित्रकम् ९ । इति शब्द- रत्नावली ॥ * ॥ (यथा, मनुः । ३ । ६४-६५ । “शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः । गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया ॥ अयाज्ययाजनैश्चैव नास्तिक्येन च कर्म्मणाम् । कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥”) अथ चतुष्पदयानीद्देशः । “ये ब्रह्मजात्यादिविभेदतोऽमी मया निरुक्ता इह वाजिमुख्याः । दिशानया सर्व्वचतुष्पदानां भेदो विधेयो विदुषादरेण ॥ तथा यथाश्वादिकपोषणेन यानेन वा दोषगुणौ भवेताम् । तथा तथैवान्यचतुष्पदानां प्रकीर्त्तितौ दोषगुणौ बुधेन ॥ वरमयानमपोषणमेव वा वरमिवान्यशरीरमपोषणम् । न खलु दोषयुतं च चतुष्पदं स्तृशति पश्यति शोभनचेतनः ॥ सुराविन्दुर्दूषयति पयोघटशतं यथा । तथा सर्व्वं दूषयति दोषदुष्टश्चतुष्पदः ॥” इति चतुष्पदयानोद्देशः ॥ * ॥ अथ द्बिपदयानोद्देशः । “मानुषैः पक्षिभिर्व्वापि तथान्यैर्द्विपदैरपि । यानं स्याद्द्विपदं नाम तस्य भेदो ह्यनेकधा ॥ सामान्यञ्च विशेषश्च तस्य भेदो द्विधा भवेत् ॥” इति युत्तिकल्पतरुः ॥ * ॥ विशेषद्विपदयानन्तु चतुर्दालशब्दे निष्पदयानोद्देशस्तु नौकाशब्दे द्रष्टव्यम् ॥ (फलप्राप्तिहेतौ, त्रि । यथा, ऋग्वेदे । १० । ११० । २ । “तनूनपात् पथ ऋतस्य यानान् मध्वा समञ्जन् स्वदयासुजिह्व ॥” “यानान् फलप्राप्तिहेतून् पथो मार्गान् ।” इति तद्भाष्ये सायणः ॥ या + भावे ल्युट् । गतिः । यथा, वाभटे शारीरस्थाने षष्ठेऽध्याये । “यानं खरोष्ट्रमार्ज्जारकपिशार्द्दलशूकरैः । यस्य प्रतैः शृगालैर्वा स मृत्योर्वर्त्तते मुखे ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यानम् [yānam], [या भावे-ल्युट्]

Going, moving, walking, riding; as गजयानम्, उष्ट्र˚, रथ˚ &c.

A voyage, journey; समुद्र- यानकुशलाः Ms.8.157; Y.1.84.

Marching against, attacking (one of the six Guṇas or expedients in politics); अहितान् प्रत्यभीतस्य रणे यानम् Ak.; Ms.7.16.

A procession, train.

A conveyance, vehicle, carriage, chariot; यानं सस्मार कौबेरम् R.15.45;13.69; Ku.6.76; Ms.4.12.

A litter, palanquin.

A ship, vessel.

(With Buddhists) The method of arriving at knowledge; the means of release from repeated births; cf. महायान, हीनयान.

An aeroplane (विमान); Bhāg.4.3.6. -नः Ved. A road, way. -Comp. -आसनम् marching and sitting quiet; Ms.7.162.-आस्तरणम् a carriage cushion; Mk. -करः a carpenter.-ग a. riding in a carriage; न यानगः Ms.4.12. -पात्रम् a ship, boat. -पात्रकम्, -पात्रिका a small boat. -भङ्गः shipwreck. -मुखम् the forepart of a carriage, the part where the yoke is fixed. -यात्रा a sea-voyage; Buddh.-यानम् driving or riding in a carriage. -शाला a coachhouse; यानशालां जगाम ह Rām.3.35.3. -स्वामिन् the owner of a vehicle; यानस्य चैव यातुश्च यानस्वामिन एव च Ms.8.29.

"https://sa.wiktionary.org/w/index.php?title=यानम्&oldid=382173" इत्यस्माद् प्रतिप्राप्तम्