यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगिनी, स्त्री, (योगोऽस्त्यस्या इति । योग + इनिः । ङीप् ।) योगयुक्ता नारी । (यथा, मार्कण्डेये । ५२ । ३१ । “ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज ॥”) भगवत्याः सखीरूपा आवरणदेवता । सा कोटिविधा । तासां मध्ये चतुःषष्टिः प्रधानाः । यथा । नारायणी १ गौरी २ शाकम्भरी ३ भीमा ४ रक्तदन्तिका ५ भ्रामरी ६ पार्व्वती ७ दुर्गा ८ कात्यायनी ९ महादेवी १० चण्डघण्टा ११ महाविद्या १२ महातपा १३ सावित्री १४ ब्रह्मवादिनी १५ भद्रकाली १६ विशालाक्षी १७ रुद्राणी १८ कृष्णपिङ्गला १९ अग्निज्वाला २० रौद्रमुखी २१ कालरात्रिः २२ तपस्विनी २३ तारं मायां तथागच्छानुरागिणि मैथुनप्रिये । वह्निभार्य्या मनुः प्रोक्तः सर्व्वसिद्धिप्रदायकः ॥ एषा मधुमती तु स्यात् सर्व्वसिद्धिप्रदा प्रिये । गुह्यात् गुह्यतरा विद्या तव स्नेहात प्रकी- र्त्तिता ॥ ८ ॥ देव्युवाच । श्रुतञ्च साधनं पुण्यं यक्षिणीनां सुखप्रदम् । यस्मिन् काले प्रकर्त्तव्यं विधिना केन वा प्रभो । अत्राधिकारिणः के वा समासेन वदस्व मे ॥ ईश्वर उवाच । वसन्ते साधयेद्धीमान् हविष्याशी जितेन्द्रियः । सदा ध्यानपरो भूत्वा तद्दर्शनमहोत्सुकः ॥ उज्जटे प्रान्तरे वापि कामरूपे विशेषतः । स्थानेष्वेकतमं प्राप्य साधयेत् सुसमाहितः । अनेन विधिना साक्षात् भविष्यति न संशयः ॥ देव्याश्च सेवकाः सर्व्वे परं चात्राधिकारिणः । तारकब्रह्मणो भृत्यं विनाप्यत्राधिकारिणः ॥” इति तन्त्रसारे योगिनीसाधनप्रकरणं समाप्तम् ॥ दशविधदशान्तर्गतदशाविशेषः । यथा, -- “स्वनक्षत्रं ध्रुवं कृत्वा पञ्च तत्र विमिश्रयेत् । मङ्गलेन हृतः शेषो मङ्गलादिविनिश्चयः ॥ मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा । उल्का सिद्धा सङ्कटा च योगिन्यष्टौ प्रकीर्त्तिताः ॥ अब्दैकं मङ्गला धत्ते शेषास्त्वेकैकवर्द्धिकाः । पुनस्त्र्यर्कान्निवर्त्तन्ते चक्रवत् परिवर्त्तनात् ॥” अपि च । “रोहिण्यादौ त्रिरावृत्त्या मङ्गलादौ यथाक्रमम् । उल्का सिद्धा सङ्कटा च अश्विन्यादित्रये पुनः ॥” एतासामन्तर्दशा । “दशावर्षन्तु षट्त्रिंशद्भागं कृत्वा विनिर्द्दिशेत् । यन्तु यस्या हि यद्बर्षं तत्तद्भागं प्रकीर्त्तितम् ॥” फलं यथा, -- “मङ्गला मङ्गलं धत्तेऽतुलभोगं सुखं तथा । गोगजाश्वसहस्राणि गृहे तस्य दिने दिने ॥ पिङ्गला विविधं दुःखमन्नचिन्तादिसम्भवम् । ददाति नाशं शत्रुभ्यो धनधान्यगजादिकम् ॥ धन्या च सततं दत्ते सर्व्वत्र विजयादिकम् । शत्रुभ्यो रक्षते नित्यं मातृवत् परिपालयेत् ॥ भ्रामरी विविधं दुःखमन्तःसम्भ्र मसम्भवम् । अकस्मात्तस्य दुर्द्दैवं विधिना प्रेरितं भवेत् ॥ भद्रिका विविधान् धत्ते सम्मानादिमनोरथान् । तुष्टा चेद्भद्रिका नित्यं दुर्ग्रहः सुग्रहायते ॥ उल्का व्याधिकरी प्रोक्ता नित्यं नानाभयप्रदा । उल्का यदि समायाति सुग्रहो दुर्ग्रहायते ॥ सिद्धा च साधयेत् सर्व्वं मन्त्रारम्भधनादिकम् । यस्य तुष्टा भवेत् सिद्धा लक्ष्मीस्तस्य करे स्थिता ॥ सङ्कटा सङ्कटं दत्ते भुङ्क्ते धान्यधनादिकम् । सैव भाव्या सदा नित्यं गृही कृष्णः फणी यथा ॥” इत्युद्बोधचन्द्रिका ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगिनी f. See. next.

योगिनी f. a female demon or any being endowed with magical power , a fairy , witch , sorceress (represented as eight in number and as created by दुर्गाand attendant on her or on शिव; sometimes 60 , 64 or 65 are enumerated) Hariv. Katha1s. etc. (See. RTL. 188 , 189 )

योगिनी f. N. of दुर्गाL.

योगिनी f. (with तान्त्रिकs) a partic. शक्ति

योगिनी f. (with Buddhists) a woman representing any goddess who is the object of adoration.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a वर्ण s4akti: an attendant on शिव. Br. IV. ४४. ५९ and १०५; III. ४१. ३०.
(II)--the goddess who stands in Kanakhala- तीर्थ and dances with शिव. M. १९३. ७०.
"https://sa.wiktionary.org/w/index.php?title=योगिनी&oldid=435898" इत्यस्माद् प्रतिप्राप्तम्