यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपादः, पुं, (रक्तौ पादावस्य ।) शुकपक्षी । इति हेमचन्द्रः ॥ (यथा, रामायणे । ७ । ६ । ५७ । “रक्षोगणस्योपरिष्टात् परिभ्रमति कालवत् । कपोता रक्तपादाश्च सारिका विद्रुता ययुः ॥” तथा च याज्ञवल्क्यः । १ । १७५ । “चाषांश्च रक्तपादांश्च सौनं वल्लूरमेव च । मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं चरेत् ॥”) लोहितचरणयुक्ते, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तपादः&oldid=160364" इत्यस्माद् प्रतिप्राप्तम्