यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपुष्पः, पुं, (रक्तं पुष्पमस्य ।) करवीरः । इति जटाधरः ॥ (अस्य पर्य्यायो यथा, -- “करवीरः श्वेतपुष्पः शतकुम्भोऽश्वमारकः । द्वितीयो रक्तपुष्पश्च चण्डातो लगुडस्तथा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) रौहितवृक्षः । इति शब्दमाला ॥ रक्तकाञ्चन- वृक्षः । दाडिमवृक्षः । वकवृक्षः । इति रत्न- माला ॥ बन्धूकवृक्षः । पुन्नागवृक्षः । इति राजनिर्घण्टः ॥ (रक्तवर्णपुष्पविशिष्टे, त्रि ।) यथा, बृहत्संहितायाम् । १५ । १४ । “इन्द्राग्निदैवते रक्तपुष्पफलशाखिनः सतिल- मुद्गाः । कार्पासमाषचणकाः पुरन्दरहुताशभक्ताश्च ॥”)

"https://sa.wiktionary.org/w/index.php?title=रक्तपुष्पः&oldid=160380" इत्यस्माद् प्रतिप्राप्तम्