यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तलशुनः, पुं, (रक्तवर्णो लशुनः ।) रक्तवर्ण- मूलविशेषः । तत्पपर्य्यायः । महाकन्दः २ गृञ्जनः ३ दीर्घपत्रकः ४ पृथुपत्रः ५ स्थूल- कन्दः ६ यवनेष्टः ७ । अस्य गुणाः । “गृञ्जनस्य मधुरं कटु कन्दं नालमप्युपदिशन्ति कषायम् । पत्रसञ्चयमुशन्ति सतिक्तं सूरयो लवणमस्थि वदन्ति ॥” इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तलशुनः&oldid=160423" इत्यस्माद् प्रतिप्राप्तम्