यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तसारः, पुं, (रक्तः सारो यस्य ।) अम्लवेतसः । रक्तखदिरः । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, -- “खदिरो रक्तसारश्च गायत्त्री दन्तधावनः । कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञियः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ रक्ते सारो यस्येति । शोणितसारयुक्ते, त्रि । यथा, बृहत्संहितायाम् । ६८ । ९७ । “ताल्वोष्ठदन्तपालीजिह्वानेत्रान्तपायुकर- चरणैः । रक्तैस्तु रक्तसारा बहुसुखवनितार्थपुत्त्रयुताः ॥”)

"https://sa.wiktionary.org/w/index.php?title=रक्तसारः&oldid=160469" इत्यस्माद् प्रतिप्राप्तम्