यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रचना, स्त्री, (रच्यते इति । रच + णिच् + “ण्यास- श्रन्थो युच् ।” ३ । ३ । १०७ । इति युच् ।) कुसुमप्रकारादेः पत्रावल्यादेश्च रचनम् । तत्- र्य्यायः । परिस्पन्दः २ । इत्यमरः । २ । ६ । १३७ ॥ परिस्यन्दः ३ । इति भरतः ॥ (यथा, साहित्यदर्पणे । ३ । १४९ । “भूषाणामर्द्धरचना वृथा विश्वगवेक्षणम् । रहस्याख्यानमीषच्च विक्षेपो दयितान्तिके ॥”) यथाक्रमेण स्थापनम् । तत्पर्य्यायः । निवेशः २ स्थितिः ३ । इति हेमचन्द्रः । ३ । ४११ ॥ (यथा, महाभारते । ८ । ४६ । १० । “शृणु व्यूहस्य रचनामर्ज्जुनश्च यथागतः ॥”) निर्म्मितिः । कृतिः । यथा, -- “असाधारणचमत्कारकारिणी रचना हि निर्म्मितिः ॥” इत्यलङ्कारकौस्तुभे १ किरणः ॥ तत्पर्य्यायः । सन्दर्भः २ गुम्फः ३ स्रन्थनम् ४ । ग्रन्थनम् ५ । इति हेमचन्द्रः । ३ । ३१७ ॥ (उद्यमः । यथा, श्रीमद्भागवते । ३ । ९ । १० । “दैवाहतार्थरचना ऋषयोऽपि देव युष्मत्प्रसङ्गविमुखा इह संसरन्ति ॥” “दैवेनाहताः सर्व्वतः प्रतिहताः अर्थानां रचनाः अर्थार्थोद्यमाः येषाम् ।” इति तट्टी- कायां श्रीधरस्वामी ॥ रचयतीति । रचि + ल्युः । टाप् । विश्वकर्म्मणो भार्य्या । यथा, श्रीमद्भाग- वते । ६ । ६ । ४४ । “त्वष्टुर्दैत्यात्मजा भार्य्या रचना नाम कन्यका । सन्निवेशस्तयोर्ज्जज्ञे विश्वरूपश्च वीर्य्यवान् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रचना स्त्री।

माल्यादिरचना

समानार्थक:रचना,परिस्पन्द

2।6।137।1।1

रचना स्यात्परिस्यन्द आभोगः परिपूर्णता। उपधानं तूपबर्हः शय्यायां शयनीयवत्.।

वृत्तिवान् : मालाकारः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रचना¦ स्त्री रच--युच्। रचने

१ पुष्पपत्त्रादेर्विन्यासे अमरः। भावे ल्युट्। तत्रैवार्थे न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रचना¦ f. (-ना)
1. Orderly and becoming arrangement or disposition in general.
2. Decoration or dressing of hair.
3. Stringing flowers, &c., weaving wreaths, chaplets, or similar decorations.
4. Military array, arrangement of troops.
5. Literary composition, whether in verse or prose.
6. Suspending garlands, &c. at the doors of a house or building on festival occasions.
7. Making or preparing any thing. E. रच् to make, to manufacture, aff. युच् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रचना f. N. of the wife of त्वष्टृBhP.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Daitya lady and queen of त्वष्ट. भा. VI. 6. ४४.

"https://sa.wiktionary.org/w/index.php?title=रचना&oldid=435950" इत्यस्माद् प्रतिप्राप्तम्