रवि
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रविः, पुं, (रूयते स्तूयते इति । रु + “अच इः ।” उणा० ४ । १३८ । इति इः ।) सूर्य्यः । अर्क- वृक्षः । इत्यमरः ॥ सूर्य्यस्य भोग्यं दिनं वार- रूपम् ॥ यथा, -- “रवौ वर्ज्ज्यं चतुः पञ्च सोमे सप्त द्बयं तथा ॥” इत्यादिवारवेलाकथने समयप्रदीपः ॥ तत्र निषिद्धानि यथा, -- “माषमामिषमांसञ्च मसूरं निम्बपत्रकम् । भक्षयेद्यो रवेर्व्वारे सप्तजन्मन्यपुत्त्रकः ॥ आर्द्रकं मधु मत्स्यञ्च भक्षयेद्यो रवेर्दिने । सप्तजन्म भवेद्रोगी जन्म जन्म दरिद्रता ॥ निम्बं मांसं मसूरञ्च विल्वकाञ्जिकमार्द्रकम् । भक्षयेद्यो रवेर्व्वारे सप्तजन्मन्यपुत्त्रकः ॥” इति कर्म्मलोचनम् ॥ * ॥ रविग्रहस्य रक्तश्याममिश्रितवर्णः । अयं पूर्ब्बदिक्पुरुषक्षत्त्रियजातिसत्त्वगुणकटुरससिंह- राशिहस्तानक्षत्रसप्तमीतिथिताम्रकलिङ्गदेशा- नामधिपतिः । काश्यपगोत्रः । द्बादशाङ्गुल- शरीरः । पद्महस्तद्वयः । पूर्ब्बाननः । सप्ताश्व- वाहनः । शिवाधिदैवतः । रह्निप्रत्यधिदैवतश्च । इति ग्रहयज्ञतत्त्वादयः ॥ * ॥ अस्य व्युत्पत्तिर्यथा, “अवतीमांस्त्रयो लोकांस्तस्मात् सूर्य्यः परि- भ्रमात् । अचिरात्तु प्रकाशेत अवनात् स रविः स्मृतः ॥” इति मात्स्ये १०१ अध्यायः ॥ * ॥ अस्य भार्य्यापत्यानि यथा, -- “मरीचेः कश्यपो जज्ञे तस्माज्जज्ञे विभावसुः । तस्य भार्य्याभवत् संज्ञा पुत्त्री त्वष्टुः प्रजापतेः ॥ त्रीण्यपत्यानि राजेन्द्र ! संज्ञायां महसां निधिः । आदित्यो जनयामास कन्याञ्चैकां सुलोचनाम् । वैवस्वतं मनुश्रेष्ठं यमञ्च यमुनां ततः ॥ नातितेजोमयं रूपं सोढुं सालं विवस्वतः । मायामयीं ततश्छायां सवर्णां निर्म्ममे स्वतः ॥ संज्ञोवाच ततश्छायां सवर्णे शृणु मे वचः । अहं यास्यामि सदनं पितुस्त्वं पुनरत्र मे । भवने वस कल्याणि ! निर्व्विशङ्कं ममाज्ञया ॥ मनुरेष यमावेतौ यमुनायमसंज्ञकौ । स्वापत्यदृष्ट्या द्रष्टव्यमेतद्बालत्रयं त्वया ॥ न वक्तव्यदिदं वृत्तं त्वया पत्यौ कदाचन । इत्याकर्ण्याथ सा त्वाष्ट्रीं देवी छाया जगाद ताम् ॥ आकचग्रहणान्नाहमाशापाच्चं कदाचन । आख्यास्यामि चरित्रं ते याहिदेवि ! यथासुखम् ॥ इति च्छायां गृहे स्थाप्य संज्ञागात् पितुरालयम् । उवाच पितरं देवी जामातुस्तव न क्षमा ॥ तेजः सोढुमहं तात ! काश्यपस्य महात्मनः । तन्निशम्य चुकोपासौ भर्त्सयामास कन्यकाम् ॥ मह्यं श्रेयः कथं वा स्यादिति सा परिचिन्त्य च । अगच्छद्बडवा भूत्वा चरन्ती चोत्तरान् कुरून् ॥ तपस्तेपे च सा तीव्रं पतिमाधाय चेतसि । मन्यमानोऽथ तां संज्ञां सवर्णायां तथा रविः ॥ सावर्णिं जनयामास मनुश्रेष्ठं महीपते । शनैश्चरं द्बितीयञ्च सुतां भद्रं तृयीयिकाम् ॥ सवर्णा स्वेष्वपत्येषु सापत्न्यात् स्त्रीस्वभावतः । चकाराप्यधिकं स्नेहं न तथा पूर्व्वजेष्वहो ॥ चिरमालोक्य तां भार्य्यां उवाच सविता वचः । अयि भाविनि बालेषु समेष्वपि कुतस्त्वया ॥ विधीयतेऽधिकः स्नेहः सावर्ण्यादिसुतान् प्रति । नाचचक्षे तदा साथ भास्वते परिपृच्छते ॥ ततः समुद्यते शप्तुं छाया सर्व्वं शशंस ह । यथा वृत्तं तथा तथ्यं तुतोष भगवान् रविः ॥ निरागसं न शशाप जगाम त्वष्टुरन्तिकम् । त्वष्टापि च यथान्यायं सान्त्वयित्वाथ काश्यपम् । निर्दग्धुकामं कोपेन प्राणर्च्चच्च मुदा तदा ॥ त्वष्टोवाच । तवातितेजसो भीता प्राप्योत्तरकुरून् वने । बडवारूपमास्थाय संज्ञा चरति शाद्वले । द्रष्टा हि तां भवानद्य स्वभार्य्यां तात मा रुष ॥ लब्धानुज्ञोऽथ सविता गत्वोत्तरकुरूनथ । स हरिर्हरिरूपेण मुखेन समताडयत् ॥ त्वरमाणा च सवितुः परपूरुषशङ्कया । सा तन्निरवमत् शक्र नासिकाभ्यां विवस्वतः । देवौ तस्मादजायेतामश्विनौ भिषजां वरौ ॥” इति पाद्मे स्वर्गखण्डे ११ अध्यायः ॥ (अन्यत् सूर्य्यशब्दे द्रष्टव्यम् ॥)
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रवि पुं।
पूर्वदिशायाः_ग्रहः
समानार्थक:रवि
1।3।3।2।1
कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात्. रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः। बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः। ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः॥
स्वामी : पूर्वदिशायाः_स्वामी
सम्बन्धि1 : पूर्वदिक्
पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः
रवि पुं।
सूर्यः
समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह
1।3।31।1।6
भानुर्हंसः सहस्रांशुस्तपनः सविता रविः। पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा। कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः। प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः। इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः। माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः॥
अवयव : किरणः
पत्नी : सूर्यपत्नी
सम्बन्धि2 : सूर्यपार्श्वस्थः
वैशिष्ट्यवत् : प्रभा
सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः
पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रवि¦ पु॰ अव--इन् रुट्च्।
१ सूर्य्ये शब्दर॰।
२ अर्कवृक्षे च[Page4793-b+ 38]
“अचिरात्तु प्रकाशेन अवनात् स रविः स्मृतः” मत्स्यपु॰तन्नामनिरुक्तिः।
३ द्वादशसंख्यायाम्।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रवि¦ m. (-विः)
1. The sun.
2. The right canal for the passage of the vital air. E. रु to sound, passive form, to be praised or glorified, Una4di aff. इन् |
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रविः [raviḥ], [cf. Uṇ.4.15]
The sun; सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः R.1.18.
A mountain.
The Arka plant.
The number 'twelve'. -Comp. -इष्टः an orange. -कान्तः, ग्रावन् the sun-stone (सूर्यकान्त).-चक्रम् a particular astronomical diagram.
जः, तनयः, पुत्रः, सूनुः the planet Saturn.
epithets of Karṇa; रवितनयो$भ्यहनच्छिनिप्रवीरम् Mb.8.3.9.
of Vāli.
of Manu Vaivasvata.
of Yama.
of Sugrīva. -दिनम्, -वारः, -वासरः, -रम् Sunday. -दीप्तa. lighted by the sun. -ध्वजः day. -नेत्रः N. of Viṣṇu.
प्रियम् a red lotus flower.
copper. -बिम्बः the sun's disk. -मासकः a solar month. -रत्नम् a ruby.-लोचनः N. of
Viṣṇu.
Śiva. -लोहम्, -संज्ञकम् copper. -वंशः the solar race (of kings). -संक्रान्तिः f. the sun's entrance into any zodiacal sign.
सारथिः N. of Aruṇa.
the dawn.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रवि m. ( accord. to Un2. iv , 138 Sch. fr. 1. रु)a partic. form of the sun (sometimes regarded as one of the 12 आदित्यs ; hence रविis also a N. of the number " twelve ") Var. Hariv. etc.
रवि m. the sun (in general) or the sun-god , Mn. MBh. etc.
रवि m. = रविदिन, Sunday Inscr.
रवि m. Calotropis Gigantea L.
रवि m. a mountain L.
रवि m. N. of a सौवीरकMBh.
रवि m. of a son of धृत-राष्ट्रib.
रवि m. of the author of a Comm. on the काव्य-प्रकाशCat.
रवि m. of the author of the होराप्रकाशib.
रवि m. the right canal for the passage of the vital air (?) W.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--from अव् to protect--see सूर्य; फलकम्:F1: Br. II. २१. 4; २३. २६; २४. ३५; III. ५९. ३७; IV. 1. १३८; वा. ५०. ६०; Vi. II. 8. ११-12.फलकम्:/F got a place among श्राद्धदेवस्; फलकम्:F2: M. १३. 1.फलकम्:/F the श्राद्धदेव; फलकम्:F3: Ib. १५. ४३.फलकम्:/F an आदित्य; फलकम्:F4: Ib. १७१. ५६.फलकम्:/F in three forms, गयादित्य, उत्तरार्क, and दक्षिणार्क; फलकम्:F5: वा. १०६. ५७.फलकम्:/F movements of the sun, detailed; मण्डल measurement of; rise at Samy- amana, mid-day at अमरावती, mid-night at सुषा, setting at विभावरी; other similar calculations; the movement in a मुहूर्त; movement for a day and a night; movement in दक्षिणायनम्; chariot of, limbs of the year; the seven horses are च्छन्दस्, गायत्री, त्रिष्टुब्, जगती, अनुष्टुब्, पङ्क्ती, बृहती and उष्णिक्; gives a list of sages, Gandharvas, Apsaras, नागस्, ग्रामणि and राक्षसस् with the sun in the six seasons; these go with the sun in his own wheel; फलकम्:F6: M. chh. १२४-6; वा. १००. २२२.फलकम्:/F a marut- गण; फलकम्:F7: M. १७१. ५२.फलकम्:/F standard of नाग in the तारकामय. फलकम्:F8: Ib. १७३. 9.फलकम्:/F
(II)--son of स्वारोचिष Manu. Br. II. ३६. १९; वा. ६२. १९.
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
RAVI I : A prince of Sauvīra. It was this prince who stood with the flag behind the chariot of Jayadratha, who had come to carry away Draupadī. He was killed by Arjuna. (Vana Parva, Chapter 221, Verse 27).
_______________________________
*1st word in left half of page 647 (+offset) in original book.
RAVI II : A son of Dhṛtarāṣṭra. He was killed by Bhīma in the great war. (Śalya Parva, Chapter 26, Verse 14).
_______________________________
*2nd word in left half of page 647 (+offset) in original book.