यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राख, ऋ शोषालमर्थयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-सक० च-सेट् ।) शोषः स्नेहरहितीभावः । अलमर्थो भूषणं सामर्थ्यं निवारणञ्च । ऋ, अरराखत् । इति दुर्गा- दासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राख¦ शोषणे भूषणे निवारणे च सक॰ सामर्थ्ये अक॰ भ्वा॰पर॰ सेट्। राखति अराखीत्। ऋदित् चङि नह्रस्वः।

"https://sa.wiktionary.org/w/index.php?title=राख&oldid=503792" इत्यस्माद् प्रतिप्राप्तम्