यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिपुः, पुं, (अनिष्टं रपतीति । रप वाचि + “रपे- रिच्चोपधायाः ।” उणा० १ । २७ । इति कुः इकारश्चोपधायाः । “रिफ कत्थनयुद्धनिन्दा- हिंसादानेषु । ‘ईषेः किञ्च ।’ उणा० १ । १४ । इति बाहुलकादुप्रत्ययः । रिपति केचित् पठन्ति । तत्र बाहुलकादेव ककारस्य पकारः । रिफति मोषणार्थं युध्यते हिनस्ति वा निन्द्यते च सत्- पुरुषैः ।” इति निघण्टुटीकायां देवराजयज्वा । ३ । २४ । ४ ।) शत्रुः । इत्यमरः । २ । ८ । १० ॥ (यथा, हितोपदेशे । “नकश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद्रिपुः । कारणादेव जायन्ते मित्राणि रिपवस्तथा ॥”) शरीरस्थषड्रिपवो यथा । कामः क्रोधः लोभः मोहः मदः मात्सर्य्यश्च । तथा हि । “आस्थाय योगमवजित्य च वैरिषट्क- मावध्य चेन्द्रियगणं मनसि प्रसन्ने ॥” इत्यादि तन्त्रसारे भुवनेश्वरीस्तोत्रम् ॥ * ॥ चोरकनामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥ लग्नापेक्षया षष्ठलग्नम् । तत्पर्य्यायः । षट्- कोणम् २ रिपुमन्दिरम् ३ । यथा, -- “धीस्थानं पञ्चमं ज्ञेयं यामित्रं सप्तमं स्मृतम् । द्युनं द्यूनं तथास्ताख्यं षट्कोणं रिपुमन्दि- रम् ॥” अपि च । “सुनीचगेऽस्तगेऽपि वा रिपोर्गृहेस्थिता ग्रहाः । वृथा फलं प्रकीर्त्तितं समस्तमेव सूरिभिः ॥” अन्यच्च । “अरातिव्रणयोः षष्ठे चाष्टमे मृत्युरन्ध्रयोः । व्ययस्य द्बादशस्थाने वैपरित्येन चिन्तनम् ॥” इति ज्योतिस्तत्त्वम् ॥ (ध्रुवपुत्त्रस्य शिष्टेः पुत्त्रः । यथा, हरिवशे । २ । १४-१५ । “तस्मात्शिष्टिश्च भव्यश्च घ्रुवात् शम्भुर्व्यजायत । शिष्टेराधत्त सुच्छाया पञ्चपुत्त्रानकल्मषान् ॥ रिपुं रिपुञ्जयं पुष्पं वृकलं वृकतेजसम् ॥” यदोः पुत्त्रः । यथा, भागवते । ९ । २३ । २० । “यदोः सहस्रजित् क्रोष्टानलोरिपुरितिश्रुताः ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिपु पुं।

शत्रुः

समानार्थक:रिपु,वैरिन्,सपत्न,अरि,द्विषत्,द्वेषण,दुर्हृद्,द्विष्,विपक्ष,अहित,अमित्र,दस्यु,शात्रव,शत्रु,अभिघातिन्,पर,अराति,प्रत्यर्थिन्,परिपन्थिन्,भ्रातृव्य,वृत्र

2।8।10।2।1

उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः। रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः॥

वैशिष्ट्यवत् : वैरम्

 : क्षुद्रशत्रुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिपु¦ पु॰ रप--उन् पृषो॰।

१ शत्रौ अमरः।

२ चोरनामगन्धद्रव्येराजनि॰। ज्योतिषोक्ते लग्नापेक्षया

३ षष्ठस्थाने च। देहिस्थेषु षट्सु

४ कामक्रोधादिषु।
“कामः क्रोधश्चमोहश्च मात्सर्य्यं मदलोभकौ। देहिस्था रिपवश्चेति” पुरा॰

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिपु¦ m. (-पुः) An enemy. E. रप् to speak, to abuse, aff. उन्, and इ substi- tuted for the radical vowel.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिपुः [ripuḥ], [रप् उन् पृषो˚ Uṇ.1.26]

An enemy, a foe, an opponent.

A hostile planet.

N. of the sixth astrological house.

Ved. A cheat, rogue. -Comp. -कालः the god of death; Buddh. -घातिन्, -घ्न, -जय, -निपातिन्, -सूदन a. killing or vanquishing foes.-भवनम्, -स्थानम् N. of the 6th astrological house.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिपु mfn. deceitful , treacherous , false RV.

रिपु m. a deceiver , cheat , rogue ib.

रिपु m. an enemy , adversary , foe Mn. MBh. etc.

रिपु m. (in astrol. ) a hostile planet VarBr2S.

रिपु m. N. of the 6th astrological house ib.

रिपु m. a gall-nut L.

रिपु m. N. of a son of श्लीष्टिHariv.

रिपु m. of a son of यदुand बभ्रुPur.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Yadu. भा. IX. २३. २०.
(II)--son of वरान्गी and Divamjaya; married बृहती; father of चाक्षुष. Br. II. ३६. १०१; वा. ६२. ८७.
(III)--a son of Babhru; फलकम्:F1:  Br. III. ७४. 7.फलकम्:/F killed by यौवनाश्व in a battle which lasted for १४ months. फलकम्:F2:  वा. ९९. 7-8.फलकम्:/F
(IV)--(also वैरी). Even though insignificant, not to be neglected. It was भूत that slew हिरण्यकशिपु, and a woman चण्डिका that killed निशुम्भ, शुम्भ and महिष. Br. IV. २१. ४३ and ५५.
(V)--a son of शिष्टि(i1) and सुच्छाया, wife बृहती; his son चाक्षुष. M. 4. ३९; Vi. I. १३. 2.
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RIPU : Grandson of Dhruva. Two sons called Śiṣṭi and Bhavya were born to Dhruva by his wife Śambhū. Śiṣṭi's wife Succhāyā deliverd five sons, i.e. Ripu, Ripuñjaya, Vipra, Vṛkala and Vṛkatejas. Cākṣuṣa Manu was born as the son of Ripu by his wife Bṛhatī. (Viṣṇu Purāṇa, Part 1, Chapter 13).


_______________________________
*1st word in right half of page 649 (+offset) in original book.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ripu is a common word for ‘foe,’ ‘enemy,’ in the Rigveda.[] It occurs in the Atharvaveda[] also.

  1. i. 36, 16;
    147, 3;
    148, 5;
    ii. 23, 16;
    27, 16;
    34, 9, etc.
  2. xix. 49, 9.
"https://sa.wiktionary.org/w/index.php?title=रिपु&oldid=503865" इत्यस्माद् प्रतिप्राप्तम्