रूपकम्
हृदासने श्रीगुरुपादपद्मम् (अन्यूनाधिकमुपमानम् )
वीणा नाम असमुद्रोत्थितं रत्नम्। (न्यूनमुपमानम् )
साहित्यसङ्गीतकलाविहीन: साक्षात् पशु:पुच्छविषाणहीन:।( अधिकमुपमानम्)
तृणं न खादन् अपि जीवमानस्तद्भागधेयं परमं पशूनाम्। (अधिकमुपमानम्)
विद्याविहीन: पशु:। (अन्यूनाधिकमुपमानम् )
विद्याधनं सर्वधनप्रधानम्। (न्यूनमुपमानम् )
दानेन वर्धते नित्यं तद्विद्याधनमर्जय। (न्यूनमुपमानम् )
येषां न विद्या न तपो न दानं...ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति।(अन्यूनाधिकमुपमानम् )
आराम: कल्पवृक्षाणां विराम: सकलापदाम्।(अन्यूनाधिकमुपमानम् )
अभिरामस्त्रिलोकानां राम: श्रीमान् स न: प्रभु:॥
वज्रपञ्जरनामेदं यो रामकवचं स्मरेत्।(अन्यूनाधिकमुपमानम् )
बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम(अन्यूनाधिकमुपमानम् )
नायं प्रयाति विकृतिं विरसो न य: स्यात्, न क्षीयते बहुजनैर्नितरां निपीत:।
जाड्यं निहन्ति रुचिमेति करोति तृप्तिं नूनं सुभाषितरसोऽन्यरसातिशायी॥
(न्यूनमुपमानम् )
सोऽयं करस्ते रिपुकण्ठपाश:।
क्रोधो ह्यसि: महातीक्ष्ण:।
काव्यालङ्कारकोश:
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रूपकम्, क्ली, (रूपयतीति । रूपि + ण्वुल् ।) नाटकम् । (“तस्य रूपकसंज्ञाहेतुमाह । रूपा- रोपात्तु रूपकम् । रूपकस्य भेदानाह । नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः । ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश ॥ किञ्च । नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् । प्रस्थानोल्लाप्यकाव्यानि प्रेङ्खणं रासकं तथा ॥ संलापकं श्रीगदितं शिल्पकञ्च विलासिका । दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ॥ अष्टादश प्राहुरुपरूपकाणि मनीषिणः । विना विशेष सर्व्वेषां लक्ष्म नाटकवन्मतम् ॥” इति साहित्यदर्पणे ६ परिच्छेदः ॥) मूर्त्तम् । (यथा, कथासरित्सागरे । ५५ । ४३ । “आदिश्यताञ्च चित्रे किमालिखामीह रूप- कम् ॥”) काव्यालङ्करणम । इति मेदिनी । के, १४८ ॥ शेषस्य लक्षणं यथा, -- “रूपकं रूपितारोपात् विषये निरपह्नवे । तत् परम्परितं साङ्गं निरङ्गमिति च त्रिधा ॥ यत्र कस्यचिदारोपः परारोपणकारणम् । तत् परम्परितं श्लिष्टाश्लिष्टशब्दनिबन्धनम् ॥ प्रत्येकं केवलं मालारूपञ्चेति चतुर्व्विधम् । अङ्गिनो यदि साङ्गस्य रूपणं साङ्गमेव तत् ॥ समस्तवस्तुविषयमेकदेशविवर्त्ति च । आरोप्याणामशेषाणां शाब्दत्वे प्रथमं मतम् ॥ यत्र कस्यचिदार्थत्वमेकदेशविवर्त्ति तत् । निरङ्गं केवलस्यैव रूपणं तदपि द्बिधा ॥ माला केवलरूपत्वात् तेनाष्टौ रूपके भिदाः ॥” इति साहित्यदर्पणे १० परिच्छेदः ॥ अपि च । “अभेदो भासते यस्मिन्नुपमानोपमेययोः । रूपकं कथ्यते सद्भिरलङ्कारोत्तमं यथा ॥ तन्वि युष्मन्मखाम्भोजं लोलालकमधुव्रतम् । न कस्य हरते चेतो लसद्दशनकेशरम् ॥ अस्त्यनेकप्रकारत्वं रूपकोपमयोरपि । संक्षेपेणोक्तमन्यत्तु सुधीभिरवधीयताम् ॥” इति काव्यचन्द्रिका ॥ संख्याविशेषः । यथा, -- “सञ्चाली प्रोच्यते गुञ्जा सा तिस्रो रूपकं भवेत् । रूपकैर्द्दशभिः प्रोक्तः कलञ्जो नाम नामतः ॥” इति युक्तिकल्पतरुः ॥ (उपमानम् । यथा, साहित्यदर्पणे १० परिच्छेदे समासोक्त्यलङ्कारे । “यत्र तु रूप्यरूपकयोः सादृश्यमस्फुटमिति ॥” पुं, मुद्रा । यथा, कथासरित्सागरे । ७८ । १३ । “अल्पे परिकरेऽप्येभिरियद्भिः स्वर्णरूपकैः । किमेष व्यसनं पुष्णात्यथ कञ्चन सद्ब्ययम् ॥” तथाच बृहत्संहितायाम् । ८१ । १२ । “गुञ्जात्रयस्य मूल्यं पञ्चाशद्रूपका गुणयुतस्य ॥”)