यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेखागणितः, पुं, (रेखाया गणितं प्रमाणस्वरू- पादि यत्र ।) श्रीजयसिंहमहाराजपण्डितद्विज- सम्राड्जगन्नाथकृतगणितग्रन्थविशेषः । तस्य संक्षिप्तविवरणम् । यथा, -- “येनेष्टं वाजपेयाद्यैर्म्महादानानि षोडश । दत्तानि द्बिजवर्य्येभ्यो गोग्रामगजवाजिनः ॥ तस्य श्रीजयसिंहस्य तुष्ट्यै रचयति स्फुटम् । द्विजः सम्राड् जगन्नाथो रेखागणितमुत्त- मम् ॥ अपूर्ब्बं विहितं शास्त्रं यत्र कोणाववोधनात् । क्षेत्रेषु जायते सम्यक् व्युत्पत्तिर्गणिते तथा ॥ शिल्पशास्त्रमिदं प्रोक्तं ब्रह्मणा विश्वकर्म्मणे । पारम्पर्य्यवशादेतदागतं धरणीतले ॥ तदुच्छिन्नं महाराजजयसिंहाज्ञया पुनः । प्रकाशितं मया सम्यक् गणकानन्दहेतवे ॥” * ॥ अथ रेखागणिता । अत्र ग्रन्थे पञ्चदशा- ध्यायाः सन्ति । अष्टसप्तोत्तरचतुःशतम् शक- लानि सन्ति । तत्र प्रथमाध्याये अष्टचत्वारिंश- च्छकलानि । तत्रादौ परिभाषा । यः पदार्थः दर्शनयोग्यः विभागानर्हः स बिन्दुर्वाच्यः । यः पदार्थः दीर्घः विस्ताररहितः विभागार्हः स रेखाशब्दवाच्यः । विस्तारदैघ्ययोर्यद्भिद्यते तद्ध- रातलं तदेव क्षेत्रम् । तद्द्विविधं एकं जलवत् समं द्बितीयं विषमम् । अथ रेखापि द्विविधा । एका वक्रा अन्या सरला । अथ सरलरेखालक्षणम् । यस्यां न्यस्ता बिन्दवः अवलोकिताः सन्त एक- बिन्दुनाच्छाद्यन्ते सा सरला अन्यथा कुटला । धरातलमपि समं विषमञ्च ज्ञेयम् । समं य आवृणोति । यत् रेखाद्बयं समं समानान्तरं न भवति तस्य यस्मिन् प्रदेशे बह्वन्तरं भवति तद्दिशि वर्द्धितयो रेखयोरन्तरमुत्तरोत्तरं अधिक- मेव भवति यत्राल्पमन्तरं भवति तद्दिशि वर्द्धितयो रेखयोरन्तरमुत्तरोत्तरमल्पमेव भवति यावद्रेखासंयोगं तदनन्तरमन्तरं वर्द्धिष्णु भवति । यत्र कोणशब्दः तत्र सरलरेखाकृत एव कोणो ज्ञेयः । यत्र रेखाशब्दः तत्र सरलैव रेखा ज्ञेया । यत्र भूमितलशब्दः तत्र जलसमीकृत- मेव भूतलं ज्ञेयम् । इति रेखागणितस्य परि- भाषा ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेखागणित¦ न॰ रेखायाः गणितं प्रमाणस्वरूपादि यत्र। जगन्नाथपण्डितकृते गणितग्रन्थभेदे क्षेत्रशब्दे तत्परि-भाषादिकं

२३

८९ पृ॰ उक्तम्।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेखागणित¦ n. (-तं) Geometry.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेखागणित/ रेखा--गणित n. " line-reckoning , geometry " , N. of a wk. by भास्कराचार्य

"https://sa.wiktionary.org/w/index.php?title=रेखागणित&oldid=221592" इत्यस्माद् प्रतिप्राप्तम्