यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लकुचः, पुं, (लक्यते इति । लक स्वादे + बाहु- लकादुचः ।) वृक्षविशेषः । डेहुया इति मादार इति च भाषा । तत्पर्य्यायः । लिकुचः २ शालः ३ कषायी ४ दृढवल्कलः ५ डहुः ६ कार्श्यः ७ शूरः ८ स्थूलस्कन्धः ९ । अस्य गुणाः । तिक्तरसत्वम् । कषायत्वम् । उष्णत्वम् । लघु- त्वम् । कण्ठदोषहरत्वम् । दाहित्वम् । मल- संग्रहदायकत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । “लकुचः क्षुद्रपनसो लिकुचो डहुरित्यपि । आमं लकुचमुष्णञ्च गुरु विष्टम्भकृत्तथा ॥ मधुरञ्च तथाम्लञ्च दोषत्रितयरक्तकृत् । शुक्राग्निनाशनञ्चापि नेत्रयोरहितं स्मृतम् ॥ सुपक्वं तत्तु मधुरमम्लं चानिलपित्तकृत् । कफवह्निकरं रुच्यं वृष्यं विष्टम्भकञ्च तत् ॥” इति भावप्रकाशः ॥ * ॥ अन्यच्च । “लकुचं गुरु विष्टम्भि स्वाद्वम्लं रक्तपित्तकम् । श्लेष्मकारि समीरघ्नमुष्णं शुक्राग्निनाशनम् ॥” इति वैद्यकम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लकुच पुं।

लिकुचः

समानार्थक:लकुच,लिकुच,डहु

2।4।60।2।3

पीतद्रुः सरलः पूतिकाष्ठं चाथ द्रुमोत्पलः॥ कर्णिकारः परिव्याधो लकुचो लिकुचो डहुः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लकुच¦ पु॰ लक--उचन्। (मां दार) वृक्षभेदे अमरः।
“लकुचः क्षुद्रपनलो लिकुचो डहुरित्यपि। आमं ल-कुचमुष्णञ्च गुरु विष्टम्भकृत्तथा। मधुरञ्च तथाम्लञ्च दोष-त्रितयरक्तकृत्। शुक्राग्निनाशनञ्चापि नेत्रयोरहितंस्मृतम्। सुपछं तत्तु मधुरमम्लं चानिलपित्तकृत्। कफवह्निकरं रुच्यं वृष्यं विष्टम्भकञ्च तत्” भावप्र॰।
“लकुचं गुरु विष्टम्भि स्वाद्वम्लं रक्तपित्तकम्। श्लेष्म-कारि समीरघ्नमुष्णं शुक्राग्निनाशनम्” वैद्यक॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लकुच¦ m. (-चः) A species of the bread-fruit tree, (Artocarpus Lacucha, Rox.) E. लक् to taste, उचन् aff.; also अ substituted for उ, लकच |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लकुच m. ( MBh. Sus3r. etc. )a kind of bread-fruit tree , Artocarpus Lacucha (a tree containing a large quantity of sticky milky juice)

लकुच n. the fruit of this tree.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a tree of six rasas in the हैरण्वत (हिरण्- vata) country. Br. II. १५. ६८; IV. ३१. ५८; M. ११३. ६७; वा. ४५. 9.

"https://sa.wiktionary.org/w/index.php?title=लकुच&oldid=436408" इत्यस्माद् प्रतिप्राप्तम्