यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्तकः, पुं, (रक्तेन रक्तवर्णेन कायतीति । कै + कः । रस्य लत्वम् ।) अलक्तकः । इति शब्द- रत्नावली ॥ (यथा, गो० रामायणे । २ । ६० । १६ । “प्रकृत्या लक्तकरसप्रख्यौ तद्रसवर्ज्जितौ । तथैव रेजतुस्तस्याश्चरणौ पद्मवर्चसौ ॥”) जीर्णवस्त्रखण्डम् । नेकडा इति भाषा । तत्- पर्य्यायः । कर्पटः २ । इत्यमरः ॥ नक्तकः ३ । इति भरतः ॥ द्वे मलिनत्वादिदुष्टजीर्णवस्त्रखण्डे नेकडा इति ख्याते । लक्तकाद्यष्टकं वस्त्रमात्रे इति केचित् ॥ पटोऽस्त्री कर्पटः शाटः सिचय- प्रोतलक्तकाः । इति रभसः ॥ लक्यते हीनै- रास्वाद्यते अनुभूयते लक्तः रक लक क स्वाद आपने चुर्भ्यो ञिर्व्वेति विभाषितत्वात् न ञिः कर्म्मणि क्तः ततः स्वार्थे कः लक्तकोऽन्तः स्थादिः । अज्यते स्म अक्तं व्यक्तं अन्जोः क्तः न अक्तं कं मुखं यस्मादिति त्रिपदबहुव्रीहौ मनीषादित्वात् अक्तस्य पूर्व्वलोपे नक्तकस्तवर्गपञ्चमादिरपि । इति तट्टीकायां भरतः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्तकः [laktakḥ], 1 Lac.

A tattered cloth, a rag.

"https://sa.wiktionary.org/w/index.php?title=लक्तकः&oldid=223825" इत्यस्माद् प्रतिप्राप्तम्