यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीवान्, [त्] पुं, (लक्ष्मीः शोभास्त्यस्येति । मतुप् । मस्य वः ।) पनसवृक्षः । इति शब्द- माला ॥ श्वेतरोहितवृक्षः । इति राजनिर्घण्टः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ५२ । “सर्व्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥”)

लक्ष्मीवान्, [त्] त्रि, (लक्ष्मीरस्त्यत्रेति ।) श्रीयुक्तः । धनवान् । तत्पर्य्यायः । लक्ष्मणः २ श्रीलः ३ श्रीमान् ४ । इत्यमरः ॥ (यथाह कश्चित् । “शेषे धराभराक्रान्ते शेषे विश्वम्भरः श्रिया । लक्ष्मीवन्तो न पश्यन्ति दुःसहां परवेदनाम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मीवान्&oldid=162318" इत्यस्माद् प्रतिप्राप्तम्