यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्यः, त्रि, लक्षणया बोध्यः । इति साहित्य- दर्पणम् ॥ (लक्ष्यते इति । लक्ष + ण्यत् ।) दर्शनीयः । इति लक्षधात्वर्थदर्शनात् ॥ (व्याजः । इत्यमरः ॥ यथा, रघुः । ६ । ८१ । “रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्वा निराक्रामदरालकेश्याः ॥” अनुमेयः । इति मल्लिनाथः ॥ यथा, कुमारे । ५ । ७४ । “इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया ॥” तथा च रघुः । ४ । ५ । “छायामण्डललक्ष्येण तमदृश्या किल स्वयम् । पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=लक्ष्यः&oldid=162330" इत्यस्माद् प्रतिप्राप्तम्