लता
मलयाळम्
सम्स्कृतम्
सम्पाद्यताम्नामम्
सम्पाद्यताम्एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमा विभक्तिः | लता | लते | लताः |
सम्बोधनप्रथमा | लते | लते | लताः |
द्वितीया विभक्तिः | लताम् | लते | लताः |
तृतीया विभक्तिः | लतया | लताभ्याम् | लताभिः |
चतुर्थी विभक्तिः | लतायै | लताभ्याम् | लताभ्यः |
पञ्चमी विभक्तिः | लतायाः | लताभ्याम् | लताभ्यः |
षष्ठी विभक्तिः | लतायाः | लतयोः | लतानाम् |
सप्तमी विभक्तिः | लतायाम् | लतयोः | लतासु |
अनुवादाः
सम्पाद्यताम्Bulgarian: [[пълзящо растение#फलकम्:bg|{{फलकम्:bg/script|lang=bg|пълзящо растение}}]] (bg)
- Catalan: [[enfiladissa#फलकम्:ca|{{फलकम्:ca/script|lang=ca|enfiladissa}}]] (ca) f.
- Dutch: slingerplant
- Finnish: köynnöskasvi
| width=1% | |bgcolor="#FFFFE0" valign=top align=left width=48%|
- German: Kletterpflanze (de) f., Schlingpflanze (de) f.
- Italian: rampicante (it)
- Malayalam: [[വള്ളി#फलकम्:ml|फलकम्:Mlym]] (ml) (valli) f., [[വല്ലി#फलकम्:ml|फलकम्:Mlym]] (ml) (valli), [[ലത#फलकम्:ml|फलकम्:Mlym]] (ml) (latha)
- Spanish: enredadera (es) f., trepodora (es) f., planta trepodora (es) f.
- Swedish: [[klängväxt#फलकम्:sv|{{फलकम्:sv/script|lang=sv|klängväxt}}]] (sv) फलकम्:c
|}
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लता, स्त्री, (लतति वेष्टयते यान्यमिति । लत + पचा- द्यच् । टाप् ।) शाखादिरहिता गुडूच्यादिः । तत्पर्य्यायः । वल्ली २ व्रततिः ३ । इत्यमरः ॥ वल्लिः ४ वेल्लिः ५ प्रततिः ६ । सा शाखापत्र- समायुक्ता चेत्प्रतानिनी । इति शब्दरत्नावली ॥ तत्पर्य्यायः । वीरुत् २ गुल्मिनी ३ उलपः ४ । इत्यमरः ॥ * ॥ अमायां वीरुधां छेदकर्त्तुर्निन्दा यथा, -- “अप्सु तस्मिन्नहोरात्रे पूर्ब्बं विशति चन्द्रमाः ततो वीरुत्सु वसति प्रयात्यर्कं ततः क्रमात् ॥ छिनत्ति वीरुधो यस्तु वीरुत्संस्थे निशाकरे । पत्रं वा पातयत्येकं ब्रह्महत्यां स विन्दति ॥” इति श्रीविष्णुपुराणे २ अंशे १२ अध्यायः ॥ * ॥ आश्रमे रोपणीया शुभदा लतादिर्यथा, -- “अलावुश्चापि कुष्माण्डं मायाम्बुश्च सुकामुकः । खर्ज्जुरी कर्कटी चापि शिविरे मङ्गलप्रदा ॥ वास्तूकः कारवेल्लश्च वार्त्ताकुश्च शुभप्रदा । लताफलञ्च शुभदं सर्व्वं सर्व्वत्र निश्चितम् ॥” इति व्रह्मवैवर्त्ते श्रींकृष्णजन्मखण्डे १०२ अध्यायः ॥ शाखा । प्रियङ्गुः । (अस्याः पर्य्यायो यथा, -- “प्रियङ्गुः फलिनी कान्ता लता च महिलाह्वया । गुन्द्रा गुन्द्रफला श्यामा विष्वक् सेनाङ्गना- प्रिया ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) पृक्का । (यथास्याः पर्य्यायः । “तस्करोच्चारकश्चण्डो देवी पृक्का लता लघुः ॥” इति वैद्यकरत्नमालायाम् ॥) अशनपर्णी । इत्यमरः ॥ ज्योतिष्मती । (अस्याः पर्य्यायो यथा, -- “ज्योतिष्मती स्यात् कटभी ज्योतिष्का कङ्गीनी- ति च । पारावतपदी पण्या लता प्रोक्ता ककुन्दनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) लताकस्तूरिका । माधवी । दूर्व्वा । इति मेदिनी । ते, ५१-५२ ॥ कैवर्त्तिका । सारिवा । इति राज- निर्घण्टः ॥ (बृहती । तत्पर्य्यायो यथा, -- “भण्डाकी बृहती सिंही वार्त्ताकी राष्ट्रिका- कुली । प्रसहा रक्तपाका च लता वृहतिका परा ॥”) नारी । यथा, -- “नग्नां परलतां पश्यन् अयुतं यस्तु साधकः । प्रजपेत् स भवेत् शीघ्रं विद्याया वल्लभः स्वयम् ॥” इति तन्त्रसारे श्यामासाधनम् ॥ (तथा च नैषधे । १ । ८५ । “नवा लता गन्धवहेन चुम्बिता करम्बिताङ्गी मकरन्दशीकरैः । दृशा नृपेण स्मितशोभिकुड्मला दरादराभ्यां दरकम्पिनी पपे ॥” “नवा नवीना तला माधवीलता पक्षे नवा रम्या लता स्त्री ।” इति तट्टीका ॥ * ॥ अप्सरो- विशेषः । यथा, महाभारते । १ । २१७ । २० । “अहञ्च सौरभेयी च समीची वुद्वुदा लता । यौगपद्येन तं विप्रमभ्यगच्छाम भारत ! ॥”)
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लता स्त्री।
लता
समानार्थक:वल्ली,व्रतति,लता
2।4।9।1।5
अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता । लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि॥
: शाखादिभिर्विस्तृतवल्ली, वृक्षमूलादग्रपर्यन्तं_गता_लता, देवतालः, मल्लिका, वृक्षरुहा, गुडूची, पाटा, कटुरोहिणी, मर्कटी, मञ्जिष्टा, धन्वयासः, सिंहिपुच्छी, पिप्पली, चव्यम्, काकचिञ्चा, शतावरी, दारुहरिद्रा, वचा, श्वेतमूलवचा, विष्णुक्रान्ता, द्राक्षा, कृष्णभूकूश्माण्डः, शुक्लभूकूश्माण्डः, शारिवा, काकमुद्गा, घोषवल्ली, पीतघोषवल्ली, पटोलिका, नागवल्ली, तुवरिका, अग्निशिखा, वृद्धदारकः, ब्रम्ही, स्वर्णक्षीरी, माषपर्णी, तुण्डिकेरी, अम्ललोणिका, अम्लवेतसः, कारवेल्लः, पटोलः, कूष्माण्डकः, कर्कटी, इक्ष्वाकुः, तुम्बी, इन्द्रवारुणी, ज्योत्स्निका, घोषः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
लता स्त्री।
शाखा
समानार्थक:शाखा,लता
2।4।11।1।2
समे शाखालते स्कन्धशाखाशाले शिफाजटे। शाखाशिफावरोहः स्यान्मूलाच्चाग्रं गता लता॥
अवयव : शिखरम्
: प्रधानशाखा
पदार्थ-विभागः : अवयवः
लता स्त्री।
प्रियङ्गुवृक्षः
समानार्थक:श्यामा,महिलाह्वय,लता,गोवन्दनी,गुन्द्रा,प्रियङ्गु,फलिनी,फली,विष्वक्सेना,गन्धफली,कारम्भा,प्रियक
2।4।55।2।1
कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया। लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
लता स्त्री।
कुन्दभेदः
समानार्थक:अतिमुक्त,पुण्ड्रक,वासन्ती,माधवी,लता
2।4।72।1।5
अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता। सुमना मालती जातिः सप्तला नवमालिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
लता स्त्री।
स्पृक्का
समानार्थक:मरुन्माला,पिशुना,स्पृक्का,देवी,लता,लघु,समुद्रान्ता,वधू,कोटिवर्षा,लङ्कोपिक
2।4।133।1।5
मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः। समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्
लता स्त्री।
ज्योतिष्मती
समानार्थक:पारावताङ्घ्रि,कटभी,पण्या,ज्योतिष्मती,लता
2।4।150।1।5
पारावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता। वार्षिकं त्रायमाणा स्यात्त्रायन्ती बलभद्रिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लता¦ स्त्री लत--अच्। शाखारहिते
१ गुडूच्यादौ अमरः।
२ शाखायां
३ प्रियङ्गौ
४ पृक्कायाम्
५ असनपर्ण्यां चअमरः।
६ ज्योतिष्मत्यां
७ लताकस्तूरिकार्या
८ माधवीलतायां
९ दूर्वायाञ्च मेदि॰।
१० कैवर्त्तिकायां
११ सारिवोषधौच राजनि॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लता¦ f. (-ता)
1. A creeper, a creeping or winding plant in general; (this word is often employed as the last member of compounds to indicate “thinness” or “tenderness.”)
2. A branch.
3. A plant, commonly Priyangu
4.
4. A gramineous plant, (Trigonella corni- culata.)
5. Heart-pea, (Cardiospermum haliacacabum.)
6. The large Bengal creeper, (Gærtnera racemosa.)
7. A sort of grass, (Panicum dactylon.)
8. A vegetable and medicinal substance, commonly Lata4kastu4ri4 or the musk-creeper, said to grow in the Dakshin.
9. Thread.
10. A whip.
11. A string of pearls. E. लत a Sautra root, to hurt, to enfold, &c. affs. अच् and टाप् |
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लता [latā], [लत्-अच्]
A creeper, creeping plant; लताभावेन परिणतमस्या रूपम् V.4; लतेव संनद्धमनोज्ञपल्लवा R.3.7 (often used as the last member of compounds, especially with words meaning 'arm', 'eyebrow', 'lightning', to denote beauty, tenderness, thinness &c.; भुजलता, बाहुलता, भ्रूलता, विद्युल्लता; so खड्ग˚, अलक˚, &c.; cf. Ku.2. 64; Me.49; Ś.3.14; R.9.46.
A branch; मधुसुरभिणि षट्पदेन पुष्पे मुख इव शाललतावधूश्चुचुम्बे Ki.1.34; Rām. 2.8.6.
The creeper called Priyaṅgu.
The Mādhavī creeper.
Musk-creeper.
A whip or the lash of a whip.
A string of pearls.
A slender woman.
A woman in general.
The Dūrvā grass. -Comp. -अङ्गुलिः f. a branch serving as a finger. -अन्तम् a flower. ˚बाणः the god of love; लतान्त- बाणंबाणलक्ष्यतामयासिषम् Dk.1.4. -अम्बुजम् a kind of cucumber. -अर्कः a green onion. -अलकः an elephant.-आननः a particular position of the hands in dancing.-उद्गमः the upward winding or climbing of a creeper. -करः a particular position of the hands in dancing. -कस्तूरिका, कस्तूरी musk-creeper; लताकस्तूरिका तिक्ता हृद्या शीतास्यरोगहृत् Rājavallabha. -गृहः, -हम् a bower surrounded with creepers, an arbour; लतागृहद्वारगतो $थ नन्दी Ku.3.41. -जिह्वः, -रसनः a snake.
तरुः, द्रुमः the Sāla tree.
the Tāla tree.
the orange tree.-पनसः the water-melon. -पर्णः N. of Viṣṇu. -प्रतानः the tendril of a creeper; लताप्रतानोद्ग्रथितैः स केशैरधिज्यधन्वा विचचार दावम् R.2.8. -भवनम् an arbour, a bower.-मणिः coral. -मण्डपः a bower, an arbour. -मृगः a monkey. -यष्टिः f. Bengal madder. -यावकम् a shoot, sprout. -रदः an elephant. -वलयः, -यम् an arbour.
वृक्षः the cocoa-nut tree.
the Sāla tree. -वेष्टः a kind of coitus or mode of sexual enjoyment; बाहुभ्यां पाद- युग्माभ्यां वेष्टयित्वा स्त्रियं रमेत् । लघुलिङ्गताडनं योनौ तल्लतावेष्टमुच्यते ॥ Rasamañjarī. -वेष्टनम्, -वेष्टितकम् a kind of embrace; अपि भ्रमी भङ्गिभिरावृताङ्गं वासो लतावेष्टितकप्रवीणम् N.7.97 ('उपविष्टं प्रियं कान्ता सुप्ता वेष्टयते यदि । तल्लतावेष्टितं ज्ञेयं कामानुभव- वेदिभिः Narāyaṇa's com.).
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
लता f. a creeper , any creeping or winding plant or twining tendril Mn. MBh. etc. (the brows , arms , curls , a slender body , a sword-blade , lightning etc. are often compared to the form of a creeper , to express their graceful curves and slimness of outline ; See. भ्रू-ल्, बाहु-ल्, तडिल्-ल्etc. )
लता f. the माधवी-creeper , Gaertnera Racemosa Bhpr.
लता f. Trigonella Corniculata ib.
लता f. Panicum Italicum L.
लता f. Cardiospermum Halicacabum L.
लता f. Panicum Dactylon L.
लता f. = कैवर्तिकाL.
लता f. = the plant सारिवाL.
लता f. musk-creeper L.
लता f. a slender woman , any woman Naish. Tantras.
लता f. the thong or lash of a whip , whip Pan5cat. Sus3r.
लता f. a string of pearls VarBr2S.
लता f. a streak , line( वारां लताः, thin jets of water) Ba1lar.
लता f. a kind of metre Col.
लता f. N. of an अप्सरस्MBh.
लता f. of a daughter of मेरुand wife of इला-वृतBhP.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a daughter of Meru and wife of इलावृत. भा. V. 2. २३.
(II)--a daughter of इरा and mother of Vanaspati. Br. III. 7. ४६०.
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
LATĀ : A celestial maiden. She was the companion of another Devī of name Vargā. Though she became a crocodile by the curse of a brahmin she was set free by Arjuna. (See under Pañcatīrtha).
_______________________________
*3rd word in right half of page 451 (+offset) in original book.