यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लशुनम्, क्ली, (अश्यते भुज्यते इति । अश् + “अशेर्लश च ।” उणा० ३ । ५७ इति उनन् । लशादेशश्च धातोः ।) रसुनः । तत्पर्य्यायः । महौषधम् २ गृञ्जनः ३ अरिष्टः ४ महा- कन्दः ५ रसोनकः ६ । इत्यमरः ॥ रसोनः ७ म्लेच्छकन्दः ८ भूतघ्नः ९ उग्रगन्धः १० । अस्य गुणाः । अम्लरसेन ऊनत्वम् । गुरुत्वम् । उष्णत्वम् । कफवातनाशित्वम् । अशुचित्वम् । क्रिमिहृद्रोगशोफघ्नत्वम् । रसायनत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । “लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् । अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः ॥ यदामृतं वैनतेयो जहार सुरसत्तमात् । तदा ततोऽपतद्विन्दुः सुरसोनोऽपतद्भुवि ॥ पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्ज्जितः । तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ॥ कटुकश्चापि मूलेषु तिक्तः पत्रेषु संस्थितः । नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः ॥ बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः । रसोनो बृंहणो वृष्यो स्निग्धोष्णः पाचनः सरः ॥ रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः । भग्नसन्धानकृत् कण्ठ्यो गुरुः पित्तास्रवृद्धिदः । बलवर्णकरो मेधाहितो नेत्र्यो रसायनः ॥ हृद्रोगजीर्णज्वरकुक्षिशूलं विबन्धगुल्मारुचिकासशोफान् । दुर्नामकुष्ठानलसादजन्तु- समीरणश्वासकफांश्च हन्ति ॥ मद्यं मांसं तथाम्लञ्च हितं लशुनसेविनाम् ॥ व्यायाममातपं रोषमतिनीरं पयो गुडम् । रसोनमश्नन् पुरुषस्त्यजेदेतन्निरन्तरम् ॥” इति भावप्रकाशः ॥ * ॥ अन्यच्च । “लशुनः क्षारमधुरः कण्ठ्यो वृष्यो गुरुः सरः । भग्नसन्धानकृद्बल्यो रक्तपित्तप्रदूषणः ॥” इति राजवल्लभः ॥ (तथाचास्य गुणादिविषयो यथा, -- “कट्वम्लवीर्य्यो लशुनो हितश्च स्निग्धो गुरुः स्वादुरसोऽथ बल्यः । वृद्धस्य मेधास्वरवर्णचक्षु- र्भग्नास्थिसन्धानकरः सुतीक्षणः ॥ हृद्रोगजीर्णज्वरकुक्षिशूल- प्रमेहहिक्कारुचिगुल्मशोफान् । दुर्नामकुष्ठानलमान्द्यजन्तु- समीरणं श्वासकफान्निहन्ति ॥” इति हारीते कल्पस्थाने तृतीयाध्याये ॥ “शीतवातहिमदग्धतनूनां स्तब्धभुग्नकुटिलव्यथितास्थ्नाम् । भेषजस्य पवनोपहतानां वक्ष्यते विधिरतो लशुनस्य ॥” “शीलयेल्लशुनं शीते वसन्तेऽपि कफोल्वणः । घनोदयेऽपि वातार्त्तः सदा वा ग्रीष्मलीलया ॥” इति वाग्भटे उत्तरस्थाने ३९ अध्यायः ॥ “क्रिमिकुष्ठकिलासघ्नो वातघ्नो गुल्मनाशनः । स्निग्धश्चोष्णश्च वृष्यश्च लशुनः कटुको गुरुः ॥” इति चरके सूत्रस्थाने २७ अध्यायः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लशुन नपुं।

लशुनम्

समानार्थक:महौषध,लशुन,गृञ्जन,अरिष्ट,महाकन्द,रसोनक

2।4।148।2।1

लतार्कदुद्रुमौ तत्र हरितेऽथ महौषधम्. लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लशु(शू)न¦ न॰ अश--उनन् ऊनन् वा धातोरादेर्लश्च। (रशुन)। रसोने भावप्र॰। तस्योत्पत्तिगुणादि भावप्र॰ उक्तं यथा
“लशुनन्तु रसोनः स्यादुग्रगन्धो मश्लौषधम्। अरिष्टो[Page4824-b+ 38] म्लेच्छकन्दः स्यात् पवनेष्टो रसोनकः। यदामृतं वैनतेयो। जहार सुरसद्मनः। तदा ततोऽपतद्विन्दु स रसो-नोऽपतद् भुवि। पञ्चभिश्च रसैर्युक्तोरसेनाम्लेन वर्जितःतस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः। कटुक-श्चापि मूलेषु तिक्तः पत्रेषु संस्थितः। नाले कषाय उद्दिष्टोनालाग्रे लवणः स्थितः। वीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः। रसोनो वृंहणो वृष्यः स्निग्धोष्णःपाचनः सरः। रसे पाके च कटुकस्तीक्ष्णो मधुरसोमतः। भग्नसन्धानकृत् कण्ठ्यो गुरुपित्तास्ववृद्धिदः। बलार्णकरो मेधाहितो नेत्र्यो रसायनः। हृद्रोग-जीर्णज्वरकुक्षिशूल विबन्धगुल्मारुचिकासशोफान्। दु-र्णामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति। मद्यंभांसं तथाम्लञ्च हितं लशुनसेविनाम्”। दीर्घमध्यःशब्दर॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लशुन¦ n. (-नं) Garlic. E. अश् to eat, Una4di aff. उनन्, and लश substitu- ted for the root; also with the vowel of the aff, long, लशून n. (-नं).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लशुन n. or (rarely) m. ( Un2. iii , 57 ; sometimes written लसुनSee. रसुन)garlic Gaut. Mn. MBh. etc.

लशुन n. one of the 10 kinds of onion L.

"https://sa.wiktionary.org/w/index.php?title=लशुन&oldid=503982" इत्यस्माद् प्रतिप्राप्तम्