यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लावण्यम्, क्ली, (लवण + ष्यञ् ।) लवणत्वम् । लवणस्य भाव इत्यर्थे ष्ण्यप्रत्ययेन निष्पन्नम् । (लवणा त्विट् विद्यते यस्येति लवणः । अर्श- आदिभ्योऽच् । तस्य भावः । दृढादित्वात् ष्यञ् । यद्बा, लवणा त्विट् सैव । चतुर्वर्णादि- त्वात् स्वार्थे ष्यञ् ।) सौन्दर्य्यविशेषः । तस्य लक्षणं यथा, -- “मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥” इत्युज्ज्वलनीलमणिः ॥ तथा हि । “नीतिर्भूमिभुजां नतिर्गुणवतां ह्नीरङ्गनानां धृति- र्दम्पत्योः शिशवो गृहस्य कविता बुद्धेः प्रसादो गिराम् । लावण्यं वपुषः स्मृतिस्तु मनसा शान्तिर्द्विजस्य क्षमा शक्तस्य द्रविणं गृहाश्रमवतां स्वास्थ्यं सतां मण्डनम् ॥” इति नवरत्नान्तर्गतामरसिंहः ॥ (शीलनैपुण्यादि । अस्य प्रमाणं लावण्यार्जित- शब्दे द्रष्टव्यम् ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लावण्य¦ न॰ लबणस्य भावः ष्यञ्। लवणत्वे
“मुक्ताफलेषछायायास्तरलत्वमिवान्तरा। प्रतिभाति यदङ्गेषु तल्लाव-ण्यमिहोच्यते” उज्ज्वलम स्युक्ते देहसौन्दर्य्यभेदे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लावण्य¦ n. (-ण्यं)
1. Saltness, the taste or property of salt.
2. Beauty, loveliness. E. लवण salt, and ष्यञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लावण्यम् [lāvaṇyam], [लवणस्य भावः ष्यञ्]

Saltness.

Beauty, loveliness, charm; तथापि तस्या लावण्यं रेखया किंचिदन्वितम् Ś. 6.13;7.18; (लावण्य is thus defined in Śabdak.: मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥). Shri Kshitishachandra points out in his Mañjūṣā that the word does not seem to have any connection with लवण (salt). The word रामण्यक (= beauty) occurs in the Rāmāyaṇa (वनरामण्यकं यत्र जलरामण्यकं तथा Araṇyakāṇḍa 25.5). 'रलयोरभेद इति न्यायेन सन्निहितयोरनुनासिकयो रेकस्य विषमीकरणप्रक्रियया चाननुनासिकीकरणेन लावण्यमिति निष्पन्न- मिति प्रतिभाति' ।' Amaruśataka gives a verse containing a pun on the word लावण्य (saltness, loveliness): पीता यतः- प्रभृति कामपिपासितेन तस्या मयाधररसः प्रचुरः प्रियायाः । तृष्णा तदा प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र किमत्र चित्रम् ॥ -Comp. -अर्जितम् the private property of a married woman given to her at her marriage by her father or mother-in-law. -कलित a. endowed with beauty. -लक्ष्मीः great beauty.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लावण्य n. ( ifc. f( आ). )saltness , the taste cr property of salt Amar.

लावण्य n. beauty , loveliness , charm Inscr. Ka1v. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=लावण्य&oldid=503996" इत्यस्माद् प्रतिप्राप्तम्