यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेहः, पुं, (लेहनमिति । लिह् + घञ् ।) आहारः । भक्षणम् । इति हेमचन्द्रः ॥ तत्- पर्य्यायः । स्वादनम् २ रसनम् ३ स्वदनम् ४ स्वदिः ५ । इति राजनिर्घण्टः ॥ (यथा, बृहत्- संहितायाम् । ५ । ४३ । “सव्यापसव्यलेहग्रसननिरोधावमर्द्दनारोहाः । आघ्रातं मध्यतमस्तमोऽन्य इति ते दश ग्रासाः ॥” कर्म्मणि घञ् । रसः । यथा, सुश्रुते । १ । ४४ । “पचेल्लेहं सिता क्षौद्रं पलार्द्धकुडवान्वितम् ॥” लेढीति । लिह् + पचाद्यच् । लेहनकर्त्तरि, त्रि । यथा, भट्टिः । ६ । ८२ । “दह्येऽहं मधुनो लेहैर्द्दावैरुग्रैर्यथा गिरिः ॥” अवलेहः । तत्पर्य्यायो यथा, -- “क्वाथस्य स्यात् पुनः पाकात् घनत्वं सारस- क्रिया । सोऽवलेहश्च लेहः स्यात्तन्मात्रा स्यात् पलो- न्मिता ॥ सिता चतुर्गुणा कार्य्या चूर्णाच्च द्विगुणो गुडः । द्रवं चतुर्गुणं दद्यादिति सर्व्वत्र निश्चयः ॥” इति मध्यखण्डेऽष्टमेऽध्याये शार्ङ्गधरेणोक्तम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेह पुं।

भोजनम्

समानार्थक:जग्धि,भोजन,जेमन,लेह,आहार,निघस,न्याद

2।9।56।1।2

जेमनं लेह आहारो निघासो न्याद इत्यपि। सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम्.।

अवयव : तैलम्,भुक्तोच्चिष्टम्

 : पौलिः, भृष्टव्रीह्यादिः, अपूपः, दधिमिश्रसक्तुः, सिद्धान्नम्, भक्तोद्भवमण्डः, यवागू, तिलौदनः, गोरसम्, दुग्धम्, सहभोजनम्, पानरुचिजनकभक्षणम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेह¦ पु॰ लिह--घञ्।

१ आहारे

२ आस्वादे जिह्वया रसा-दानव्यापारभेदे (चाटा) च हेमच॰। भावे ल्युट्। लेहन-मप्यत्र न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेह¦ m. (-हः)
1. Food.
2. Licking, tasting. E. लिह् to taste, aff. घञ |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेहः [lēhḥ], [लिह्-घञ्]

Licking, sipper; as in मधुनो लेहः Bk. 6.82.

Tasting.

A lambative, an electuary.

Food.

One of the ten ways in which an eclipse occurs; Bṛi. S. -ही A disease of the tips of the ears.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लेह m. one who licks , a licker , sipper( मधुनो लेहः, " sipper of honey " , a bee) Bhat2t2.

लेह m. anything to be taken by licking or sipping or sucking , an electuary , syrup Sus3r.

लेह m. food L.

लेह m. N. of one of the 10 ways in which an eclipse can take place VarBr2S.

लेह लेहनetc. See. p. 903 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=लेह&oldid=230296" इत्यस्माद् प्रतिप्राप्तम्