यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशरोचना, स्त्री, (रोचते इति । रुच + नन्द्या- दित्वात् ल्युः । टाप् । वंशस्य रोचना ।) स्वनामख्यातवंशपर्व्वस्थितश्वेतवर्णौषधविशेषः । वंशलोचन इति भाषा । तत्पर्य्यायः । त्वक्- क्षीरा २ । इत्यमरः । २ । ९ । १०९ ॥ वंश- लोचना ३ । इति भरतः ॥ तुगाक्षीरी ४ शुभा ५ वांशी ६ वंशजा ७ । इति रत्नमाला ॥ क्षीरिका ८ । इति शब्दरत्नावली ॥ तुगा ९ त्वक्क्षीरी १० शुभ्रा ११ वंशक्षीरी १२ वैणवी १३ त्वक्सारा १४ कर्म्मरी १५ श्वेता १६ वंश- कर्पूररोचना १७ तुङ्गा १८ रोचनिका १९ पिङ्गा २० वंशशर्करा २१ । अस्या गुणाः । रूक्षत्वम् । कषायत्वम् । मधुरत्वम् । हिमत्वम् । रक्तशुद्धिकारित्वम् । तापपित्तोद्रेकहरत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “वंशजा वृंहणी वृष्या बल्या स्वाद्बी च शीतला । तृष्णाकासज्वरश्वासक्षयपित्तास्रकामलाः । हरेत् कुष्ठं व्रणं पाण्डुं कषाया वातकृच्छ्रजित् ॥” इति भावप्रकाशः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशरोचना स्त्री।

वेणुजन्यौषधिविशेषः

समानार्थक:त्वक्क्षीरी,वंशरोचना

2।9।109।2।4

पाक्योऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः। सौवर्चलं स्याद्रुचकं त्वक्क्षीरी वंशरोचना॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशरो(लो)चना¦ स्त्री वंशेषु रोचते रुच--ल्यु वा रस्य लः। वंशपर्वस्थिते श्वेतवर्णे कर्पूराकारे द्रव्ये। (वंशलोचन)।
“वंशजा वृंहणी वृष्या बल्या स्वाद्वी च शीतला। तृष्णाकासज्वरश्वासक्षयपित्तास्रकामलाः। हरेत् कुष्ठंप्रणं पाण्डुं कषायवातकृच्छ्रजित् भावप्र॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वंशरोचना/ वंश--रोचना f. an earthy concretion of a milk white colour formed in the hollow of a -bbamboo and called -bbamboo-manna L. (also -लोचनCar. )

"https://sa.wiktionary.org/w/index.php?title=वंशरोचना&oldid=233025" इत्यस्माद् प्रतिप्राप्तम्