संस्कृतम्

सम्पाद्यताम्
वज्रम्
  • वज्रः, हीरं, हीरकः, हीरकमनि, अक्षज, मणिराज, वज्रमणी, अशनिग्रावन्, लोहजित्।
  • वज्रं नाम मणिराजः।

उदाहरणानि

सम्पाद्यताम्
  • वज्रासनम्- योगाशने एक मुख्यं आसनम्।
  • वज्रायुधम्-देवेन्द्र आयुधम्।
  • वज्रोस्तवम्।

यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वज्रम्, पुं, क्ली, (वजतीति । वज गतौ + “ऋज्रे- न्द्राग्रवज्रविप्रेति ।” उणा० २ । २८ । इति रन्- प्रत्ययेन निपातितः ।) इन्द्रस्यास्त्रविशेषः । वाज् इति भाषा ॥ तत्पर्य्यायः । ह्रादिनी २ कुलिशम् ३ अलमाभरणेन तस्य राज्ञो गुणहीनोऽपि मणिर्न भूषणाय ॥ नार्य्या वज्रमधार्य्यं गुणवदपि सुतप्रसूति- मिच्छन्त्या । अन्यत्र दीर्घचिपिटह्रस्वाद्गुणैर्विमुक्ताच्च ॥ अयसा पुष्परागेण तथा गोमेदकेन च । वैदूर्य्यस्फटिकाभ्याञ्च काचैश्चापि पृथग्विधैः ॥ प्रतिरूपाणि कुर्व्वन्ति वज्रस्य कुशला जनाः । परीक्षा तेषु कर्त्तव्या विद्वद्भिः स्वपरीक्षकैः ॥ क्षारोल्लेखनशालाभिस्तेषां कार्य्यं परीक्षणम् । पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः ॥ सर्व्वाणि विलिखेद्बज्रं तच्च तैर्न विलिख्यते ॥ गुरुता सर्व्वरत्नानां गौरवाधारकारणम् । वज्र तान्वैपरीत्येन सूरयः परिचक्षते ॥ जातिरजातिं विलिखन्ति वज्रकुरुविन्दाः । वज्रैर्वज्रं विलिखति नान्येन लिख्यते वज्रम् । वज्राणि मुक्ता मणयो ये च केचन जातयः । न तेषां प्रतिबद्धानां भा भवत्यूर्द्ध्वगामिनी ॥ तिर्य्यक्क्षतत्वात् केषाञ्चित् कथञ्चिद्यदि दृश्यते । तिर्य्यगालिख्यमानानां सा पार्श्वेष्वपि हन्यते ॥ यद्यपि विशीर्णकोटिः सबिन्दुरेखान्वितो विवर्णो वा । तदपि धनधान्यपुत्त्रान् करोति सेन्द्रायुधो वज्रः । सौदामिनीविस्फुरिताभिरामं राजा यथोक्तं कुलिशं दधानः । पराक्रमाक्रान्तपरप्रतापः समस्तसामन्तभुवं भुनक्ति ॥” इति गारुडे ६८ अध्यायः ॥ वज्रार्थे वैदिकपर्य्यायो यथा । दिद्युत् १ नेमिः २ हेतिः ३ नमः ४ पविः ५ सृकः ६ वृकः ७ वधः ८ वज्रः ९ अर्कः १० कुत्सः ११ कुलिशः १२ तुजः १३ तिग्मम् १४ मेनिः १५ स्वधितिः १६ सायकः १७ परशुः १८ । इत्यष्टादश वज्रनामानि । इति वेदनिघण्टौ । २ । २० ॥

वज्रम्, क्ली, (वज गतौ + ऋज्रेन्द्रेति रन् ।) बालकः । धात्री । इति मेदिनी । रे, ६ ॥ काञ्जिकम् । इति धरणिः ॥ वज्रपुष्पम् । इति शब्दरत्नावली ॥ लौहविशेषः । स च बहुविधो यथा । नीलपिण्डम् १ अरुणाभम् २ मोरकम् ३ नागकेशरम् ४ तिन्तिराङ्गम् ५ स्वर्णवज्रम् ६ शैवालवज्रम् ७ शोणवज्रम् ८ रोहिणी ९ काङ्कोलम् १० ग्रन्थिवज्रकम् ११ मदनाख्यम् १२ इत्यादि । तेषां नामानुरूपं चिह्रम् । इति पुराणम् ॥ अभ्रविशेषः । तस्योत्पत्त्यादि यथा, -- “पुरा वधाय वृत्रस्य वज्रिणा वज्रमुद्धृतम् । विस्फूलिङ्गास्ततस्तस्य गगने परिसर्पिताः ॥ ते निपेतुर्घनध्वानाच्छिखरेषु महीभृताम् । त्रेभ्य एव समुत्पन्नं तत्तद्गिरिषु चाभ्रकम् ॥ तद्वज्रं वज्रजातत्वादभ्रमभ्ररवोद्भवात् । गगनात् स्खलितं यस्मात् गगनञ्च ततो मतम् ॥ पिनाकं दर्दुरं नागं वज्रञ्चेति चतुर्विधम् । वज्रन्तु वज्रवत् तिष्ठेत् तन्नाग्नौ विकृतिं व्रजेत् ॥ सर्व्वाभ्रेषु वरं वज्रं व्याधिवार्द्धक्यमृत्युहृत् ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=वज्रम्&oldid=506940" इत्यस्माद् प्रतिप्राप्तम्