यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन्तः, पुं, (वसन्त्यत्र मदनोत्सवा इति । वस + “तॄभूवहिवसिभासिसाधिगडिमण्डिजिनन्दि- भ्यश्च ।” उणा० ३ । १२८ । इति झच् ।) ऋतुविशेषः । स च चैत्रवैशाखमासद्बयात्मकः । यथा । मधुश्च माधवश्च वासन्तिकावृतुः । इति मलमासतत्त्वधृता श्रुतिः ॥ (फाल्गुनचैत्रात्मक- श्चेति केचित् । वसन्तः कुम्भमीनयोरितिप्रयोः- दर्शनात् ॥ * ॥) तत्पर्य्यायः ॥ पुष्पसमयः २ सुरभिः ३ । इत्यमरः ॥ मधुः ४ । इति शब्दरत्नावली ॥ माधवः ५ फल्गुः ६ । इति जटाधरः ॥ ऋतु- राजः ७ पुष्पमासः ८ पिकानन्दः ९ कान्तः १० कामसखः ११ ॥ तत्कालीनजलगुणाः । कषाय- त्वम् । मधुरत्वम् । रूक्षत्वञ्च । इति राज- निर्घण्टः ॥ (यथा, ऋतुसंहारे । ६ । २ । “द्रुमाः सपुष्पाः सलिलं सपद्मं स्त्रियाः सकामाः पवनः सुगन्धिः । सुखाः प्रदोषा दिवसाश्च रम्या सर्व्वं प्रिये ! चारुतरं वसन्ते ॥” यथा च । “हेमन्ते चीयते श्लेष्मा वसन्ते च प्रकुप्यति । प्रायेण प्रशमं याति स्वयमेव समीरणः । शरत्काले वसन्ते च पित्तं प्रावृडृतौ कफः ॥” इति पूर्ब्बखण्डे द्बितीयेऽध्याये शार्ङ्गधरेणोक्तम् ॥ “मुदितकोकिलकूजितकाननं मदनसूचककिंशुकशोभितम् । कुसुमसौरभरञ्जितभूधरं ॥ कलितमत्तमधुव्रतलालसम् ॥ भावं न कुरुते कामं कायोत्थमपि शङ्करः ॥” इति कालिकापुराणे ७ अध्यायः ॥ * ॥ वसन्ते वर्णनीयानि यथा, -- “सुरभौ दोला कोकिलमारुतसूर्य्यगतितरु- दलोद्भिदाः । जातीतरपुष्पचयाम्रमञ्जरीभ्रमरझङ्काराः ॥” इति कविकल्पलतायां प्रथमस्तवकः ॥ * ॥ अतिसारः । इति शब्दरत्नावली ॥ षड्रागान्त- र्गतद्वितीयरागः । यथा, -- “रागाः षडेव तु प्रोक्ता रागिण्यस्त्रिंशदेव तु । भैरवोऽथ वसन्तश्च नटनारायणस्तथा ॥” इत्यादि ॥ तस्य पञ्चरागिण्यो यथा, -- “आन्दोलिता च देशाख्या लोला प्रथममञ्जरी । मन्दारी चेति रागिण्यो वसन्तस्य सदानुगाः ॥” अस्य ध्यानं यथा, -- “शिखण्डिवर्होच्चयबद्धचूडः पुष्णन् पिकं चूतलताङ्कुरेण । भ्रमन् मुदा वाममनोज्ञमूर्त्ति- र्मतङ्गमत्तः स वसन्तरागः ॥” अस्य गानसमयो यथा, -- “श्रीपञ्चम्याः समारभ्य यावत् स्याच्छयनं हरेः । तावद्वसन्तरागस्य गानमुक्तं मनीषिभिः ॥” इति सङ्गीतदामोदरः ॥ कल्लिनाथमते अस्य षड्रागिण्यो यथा । आन्धुली १ गमकी २ पठमञ्जरी ३ गौडकरी ४ धामकली ५ देवशाखा ६ ॥ हनूमन्मते हिन्दोलरागपुत्त्रनामानोऽस्याष्टौ पुत्त्राः । किन्तु तेषां मध्ये विभासस्थाने हिन्दोल इति लिखि- तम् ॥ सोमेश्वरमते तस्य षड्रागिण्यो यथा । देशी १ देवगिरी २ वैराटी ३ टोडिका ४ ललिता ५ हिन्दोली ६ ॥ तन्मते अस्य रागस्य रागिणीसहितस्य वसन्तर्त्तुर्गानसमयः । इति सङ्गीतशास्त्रम् ॥ * ॥ तालविशेषः । यथा, -- “जयमङ्गलगन्धर्व्वमकरन्दत्रिभङ्गमाः । रतितालो वसन्तश्च जगज्झम्पोऽथ गारुणिः ॥” इत्यादि ॥ “वसन्तताले कर्त्तव्यो नगणो मगणस्तथा । जगजझम्पे गुरुश्चैको विरामान्तञ्च खद्वयम् ॥” इति सङ्गीतदामोदरः ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन्त पुं।

चैत्रवैशाखाभ्यां_निष्पन्नः_ऋतुः

समानार्थक:वसन्त,पुष्पसमय,सुरभि

1।4।18।2।1

बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम्. वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन्त¦ पु॰ वस--झ। मधुमाधवात्मके ऋतुभेदे
“मधुश्च माध-वश्च वासन्तिकावृतुः” यजु श्रुतिः।

२ अतिसारे शब्दर॰।

३ नाट्ये विदूषकोपाधौ।

४ रागभेदे च।
“आन्दोलिता च देशाख्या लोला प्रथममञ्जरी। मन्दारीचेति रागिण्यो वसन्तस्य सदानुगाः” इत्युक्ता अस्यपञ्च रागिण्यः षट् इत्यन्ये रामिणीशब्दे दृश्याः। [Page4863-a+ 38] अस्य गानकालः।
“श्रीपञ्चमी समारभ्य यावत् स्याच्छ-यनं हरेः। तावद्वसन्तरागस्य गानमुक्तं मनीषीभिः” सङ्गीतदा॰।

४ तालविशेषे।
“जयमङ्गलगन्धर्वमकरन्द-त्रिभङ्गमाः। रतितालो वसन्तश्च जगझम्पोऽथ गारुणिः” वसन्तताले कर्त्तव्यो नगणो मगणस्तथा। ” सङीतदा॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन्त¦ m. (-न्तः)
1. Vasanta, the season of spring, comprising the month of Chaitra and Vaisa4kha, or its deified personification, which is considered to be a companion of KA4MADE4VA.
2. Dysentery, diarrhœa.
3. Small-pox. E. वस् to dwell, Una4di aff. झच्, as applied to the season, when love is especially present on earth.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन्तः [vasantḥ], [वस्-झच् Uṇ.3.128]

The spring, vernal season (comprising the two months चैत्र and वैशाख); मधुमाधवौ वसन्तः Su&śr.; सर्वं प्रिये चारुतरं वसन्ते Ṛs.6.2; विहरति हरिरिह सरसवसन्ते Gīt.1.

Spring personified as a deity and regarded as a companion of Kāmadeva; सुहृदः पश्य वसन्त किं स्थितम् Ku.4.27.

Dysentery.

Smallpox.

(In dramas) A nickname for the Vidūṣaka or buffoon. -Comp. -अवतारः the advent or setting in of the spring; वसन्तावतारसमये$स्या उन्मादयितृकं रूपं प्रेक्ष्य Ś.1. -उत्सवः the vernal festival, spring-festivities, formerly held on the full-moon day of Chaitra, but now on the full-moon day of Phālguna, and identified with the Holi festival. -कालः the spring-tide, vernal season. -कुसुमः Cordia Latifolia (Mar. गोंधणी). -घोषिन्m. a cuckoo.

जा the Vāsantī or Mādhavī creeper.

the spring festival; see वसन्तोत्सव. -तिलकः, -कम् the ornament of the spring; फुल्लं वसन्ततिलकं तिलकं वनाल्याः Chand. M.5. (-कः -का -कम्) N. of a metre.

दूतः the cuckoo.

the month called Chaitra.

the musical mode हिन्दोल.

the mango tree.

दूती the trumpet-flower.

the female cuckoo.

Bignonia Suaveolens (Mar. पाटला). -द्रुः, द्रुमः the mango tree.-पञ्चमी the fifth day in the bright half of Māgha.-बन्धुः, -योधः, -सखः epithets of the god of love.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन्त m. ( n. g. अर्धर्चा-दि)" brilliant (season) " , spring (comprising accord. to some , the months चैत्रand वैशाखor from the middle of March to that of May See. ऋतु; often personified and considered as a friend or attendant of कामदेव, the god of love) RV. etc.

वसन्त m. a partic. metre (4 times ?) Col.

वसन्त m. a partic. time (in music) L.

वसन्त m. diarrhoea L.

वसन्त m. N. of a man Ra1jat.

वसन्त etc. See. p. 930 , col. 1.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(personified) a friend of Manmatha. Br. IV. ३०. ६८; ३२. २१-58.
(II)--a mind-born son of ब्रह्मा in the १६थ् kalpa. वा. २१. ३५.
(III)--the spring season of Citra and वैकाशि; the Saptakas who reside in the sun are धात and अर्यमा, Pulastya and Pulaha, वासुकि and सम्कीर्णार snakes, Tum- buru and नारद Gandharvas, क्रतस्तालि and पुञ्जिकस्थल Apsarasas, रथकृछ्र and ऊर्ज Gra1man2is, Heti and Praheti राक्षसस्. वा. ५०. १७७ and १९३; ५२. 6; ५३. २५.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vasanta, ‘spring,’ is mentioned in the Rigveda[] and later.[] It is regularly identified with the first of the months. See Ṛtu.

  1. x. 90, 6;
    161, 4.
  2. Av. vi. 55, 2;
    viii. 2, 22;
    xii. 1, 36, etc.
"https://sa.wiktionary.org/w/index.php?title=वसन्त&oldid=504180" इत्यस्माद् प्रतिप्राप्तम्