यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन्ततिलकम्, क्ली, (वसन्तस्य तिलकमिव ।) पुष्पविशेषः । चतुर्दशाक्षरपादच्छन्दोविशेषः । यथा, -- “ज्ञेयं वसन्ततिलकं त भ जा ज गौ गः ॥ फुल्लं वसन्ततिलकं तिलकं वनाल्या लीलापरं पिककुलं कलमत्र रौति । वात्येष पुष्पसुरभिर्मलयाद्रिवातो यातो हरिः स मथुरां विधिना हताः स्मः ॥” इति छन्दोमञ्जरी ॥ * ॥ औषधविशेषः । यथा, -- “अक्षारलूदहनसैन्धवविश्वशक्र- चूर्णं करञ्जसहितं मथितेन पीतम् । नैवं प्ररोहति पुनर्गुदजः स्वहेतो- स्तस्मै वसन्ततिलकैरपि कल्पकल्पम् ॥” इति वृत्तरत्नावल्यां गुदजरोगचिकित्सा ॥ (अन्यविधमौषधम् । यथा, -- “हेम्नो भस्मकमभ्रकं द्विगुणितं लौहास्त्रयः पारदा- श्चत्वारो नियतन्तु वङ्गयुगलञ्चैकीकृतं मर्द्दयेत् । मुक्ताविद्रुमयो रसेन समता गोक्षुरवासेक्षुणा सर्व्वं वन्थकरीषकेण सुदृढं गुप्तं पचेत् सप्तधा ॥ कस्तूरीघनसारमर्द्दितरसः पश्चात् सुसिद्धो भवेत् । कासश्वाससपित्तवातकफजित्पाण्डुक्षयादीन् हरेत् शूलादिग्रहणीं विषादिहरणो मेहांस्तथा विंशतिम् ॥ हृद्रोगादिहरो ज्वरादिशमनो वृष्यो वयोवर्द्धनः श्रेष्ठः पुष्टिकरो वसन्ततिलको मृत्युञ्जयेनोदितः ॥” इति वैद्यकरसेन्द्रसारसंग्रहे रसायनाद्यधिकारे ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन्ततिलक¦ न॰ ज्ञेयं वसन्ततिलकं तभजा जनौ गः” छन्दो॰ उक्ते चतुर्दशाक्षरपादके छन्दोभेदे

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसन्ततिलक/ वसन्त--तिलक n. the ornament of spring Chandom.

वसन्ततिलक/ वसन्त--तिलक n. the blossom of the तिलकVarBr2S.

वसन्ततिलक/ वसन्त--तिलक n. a partic. mixture L.

वसन्ततिलक/ वसन्त--तिलक f. a kind of metre (four times ?) Pin3g.

वसन्ततिलक/ वसन्त--तिलक m. N. of a man Katha1s.

"https://sa.wiktionary.org/w/index.php?title=वसन्ततिलक&oldid=243322" इत्यस्माद् प्रतिप्राप्तम्