यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्तिः, पुं, स्त्री, (वसति मूत्रादिकमत्र । वस् + “वसेस्तिः ।” उणा० ४ । १७९ । इति तिः ।) नाभेरधोभागः । इत्यमरः ॥ वस्ते आच्छादयति मूत्राशयपुटं वस्तिः । वस ल स्तृतौ नाम्नीति तिक् । मूत्राशयपुटो वस्तिरिति रत्नमाला । इति तट्टीकायां भरतः ॥ * ॥ अथ वस्ति- विधिः । “वस्तिर्द्विधानुवासाख्यो निरूहश्च ततः परः । यः स्नेहैर्दीयते स स्यादनुवासननामकः ॥ कषायक्षारतैलैर्यो निरूहः स निगद्यते । वस्तिभिर्दीयते यस्मात् तस्माद्बस्तिरिति स्मृतः ॥” वस्तिभिः मृगादीनां मूत्राशयैः । “तत्रानुवासनाख्यो हि वस्तिर्यः सोऽत्र कथ्यते । अनुवासनभेदश्च मात्रावस्तिरुदीरितः ॥ पलद्वयं तस्य मात्रा तस्मादर्द्धापि वा भवेत् । अनुवास्यस्तु रूक्षः स्यात्तीक्ष्णाग्निः केवला- निली ॥ नानुवास्यस्तु कुष्ठी स्यान्मेही स्थूलस्तथोदरी । नास्थाप्या नानुवास्याः स्युरजीर्णोन्मादतृड्- युताः ॥ शोथमूर्च्छारुचिभयश्वासकासक्षयातुराः । नेत्रं कार्य्यं सुवर्णादिधातुभिर्वृक्षवेणुभिः । नलैर्दन्तैर्विषाणाग्रैर्मणिभिर्वा विधीयते ॥” नेत्रं नाडी । तथा च विश्वप्रकाशे । नेत्रं पथि गुणे वस्त्रे तरुमूले विलोचने । नेत्रबन्धे च नाड्याञ्च नेत्रो नेतरि भेदवदिति ॥ “एकवर्षात्तु षड्वर्षं यावन्मानं षडङ्गुलम् । ततो द्बादशकं यावन्मानं स्यादष्टसंमितम् ॥ ततः परं द्वादशभिरङ्गुलैर्नेत्रदीर्घता । मुद्गच्छिद्रं कलायाभं छिद्रं कोलास्थिरन्ध्रकम् ॥ यथासंख्यं भवेन्नेत्रं श्लक्ष्णं गोपुच्छसन्निभम् ॥” मूले स्थूलम् । ततः क्रमात् कृशम् । मुद्गच्छिद्रादि- प्रमाणं नेत्रं क्रमेण षड्वर्षाय द्वादशवर्षाय तदूर्द्धवर्षाय ज्ञेयम् । “आतुराङ्गुष्ठमानेन मूले स्थूलं विधीयते । कनिष्ठिकापरीणाहमग्रे च गुटिकामुखम् ॥” परिणाहोऽत्र स्थौल्यम् । “तन्मूले कर्णिके द्वे च कार्य्ये भागाच्चतुर्थकात् । कर्णिका गवादिकर्णवत् । कर्णिका छत्राकारा गुदाधिकान्तःप्रवेशरोधिनी कर्णिकेति । कर्णि- काकारत्वात् कर्णिकेति कथ्यते । “स्निग्धोष्ण एकः पवने निरूहो द्वौ स्वादुशीतौ पयसा च पित्ते । त्रयः समूत्राः कटुकोष्णतीक्ष्णाः कफे निरूहा न परं विधेयाः ॥ रसेन वाते प्रति भोजनं स्यात् क्षीरेण पित्ते तु कफे च यूषैः । तथानुवास्येषु च विल्वतैलं स्याज्जीवनीयं फलसाधितञ्च ॥” इति चरके सिद्धिस्थाने तृतीयेऽध्याये ॥ “तत्र स्नेहादीनां कर्म्मणां वस्तिकर्म्मप्रधान- तममाहुराचार्य्याः । कस्मादनेककर्म्मकरत्वा- द्वस्तेरिह वस्तिर्नानाविधद्रव्यसंयोगाद्दोषाणां संशोधनसंशमनसंग्रहणानि करोति । क्षीण- शुक्रं वाजीकरोति कृशं बृंहयति स्थूलं कर्ष- यति चक्षुः प्रीणयति वलीपलितमुपहन्ति वयः स्थापति । शरीरोपचयं वर्णं बलमारोग्य- मायुषः परिवृद्धिञ्च करोति वस्तिः सम्य- गुपासितः ॥ तथा ज्वरातीसारतिमिरप्रति- श्यायशिरोरोगाधिमन्थार्द्दिताक्षेपकपक्षाघातै- काङ्गसर्व्वाङ्गरोगाध्मानोदरशर्कराशूलवृद्ध्युप- दंशानाहमूत्रकृच्छ्रगुल्मवातशोणितवातमूत्र- पुरीषोदावर्त्तशुक्रार्त्तवस्तन्यनाशहृद्धनुमण्याग्रहा- र्शोऽश्मरी मूढगर्भप्रभृतिषु चात्यर्थमुपयुज्यते ॥”

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्ति स्त्री-पुं।

वस्त्रान्तावयवः

समानार्थक:दशा,वस्ति

2।6।114।1।2

स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयोर्द्वयोः। दैर्घ्यमायाम आरोहः परिणाहो विशालता॥

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्ति¦ पु॰ वस्ते आवृणोति मूत्रम् वस--तिच्। नाभेरधो-भ{??}मे मूत्राधारे

१ स्थाने

२ वासे च

३ वसनदशायां पुंस्त्रीब॰ व॰ अमरः (पिचकारी) औषधदानार्थे द्रव्यभेदेपु॰ तद्विधिः भावप्र॰(
“वस्तिर्द्विधानुवासाख्यो निरूहश्च ततः परम्। यः सेहो द्रीयते सः स्यादनुवासननामकः। कषायक्षीरतैलैर्यो निरूहः स निगद्यते। वस्तिभिदींयतेयस्मात्तस्माद्वस्तिरिति स्मृतः। ” वस्तिभिः मृगादीनांमूत्राशयैः
“तत्रानुवासनाख्यो हि वस्तिर्यः सोऽत्रकथ्यते। अनुवासनभेदश्च मात्रावस्तिरुदीरितः। पलद्वयन्तस्य मात्रा तस्मादर्द्धापि वा भवेत्। अनुवास्यस्तुरूक्षः स्यात्तीक्ष्णाग्निः केवलानिली। नानुवास्यस्तु कुष्ठीस्यान्मेही स्थूलस्तथोदरी। नास्थाप्या नानुवास्याश्चजीर्णोन्मादतृडर्दिताः। शोथमूर्च्छारुचिभयश्चासकास-क्षयातुराः। नेत्रं कार्य्यं सुवर्ण्णादिधातुभिर्वृक्ष-वेणुभिः। नलैर्दन्तैर्विषाणाग्रैर्मणिभिर्वा विधीयते। ” नेत्रं नाडी तथा चोक्तं विश्वप्रकाशे
“नेत्रं मन्थगुणेवस्त्रे तरुमूले विलोचने। नेत्रवन्धे च नाड्याञ्च नेत्रोनेतरि भेद्यवदिति”।
“एकवर्षात्तु षड्वर्षाद् यावन्मानंषडङ्गुलम्। ततो द्वादशकं यावन्मानं व्यादष्टसम्मितम्। ततः प्ररं द्वादशमिरङ्गुलैर्नेत्रदीर्घता। मुखच्छिद्रंकलायाभं छिद्रं कोलास्थिसन्निभम्। यथासङ्ख्यं भवे-न्नेत्रं श्लक्ष्णं गोपुच्छसन्निभम्। गोपुच्छसन्निभं मूले त-स्मात् क्रमात् क्रमात् कृशम्”। मुखच्छिद्रादिप्रमाणं नेत्रंक्रमेण पड्वर्षा यद्वा दशवर्षा यद्वा तदूर्द्ध्वं वर्षाश्चज्ञेयाः।
“आतुराङ्गुष्ठमानेन मूले स्थूलं विधीयते। कनिष्ठिकापरीणाहमग्रे च गुटिकामुखम्। ” परि-णाद्दोऽ{??} स्थौल्यम्
“तन्मूले कर्णिके द्वे च कार्य्येभागाच्चतुर्थकात्। ” कर्णिका गवादिकर्णवत्
“योजयेत्तत्रवस्तिञ्च बन्धद्वयविधानतः। मृगाजशूकरगवां महि-षस्यापि वा भवेत्। ” वस्तिरिति शेषः।
“मूत्रकोषस्यवस्तिस्तु तदलाभे तु चर्मणः। कषायरक्तः स मृदुर्वस्तिः स्निग्धो दृढोहितः। व्रणवस्तेस्तु नेत्रं स्यात्{??}क्ष्णमष्टाङ्गुलोन्मितम्। मुद्गच्छिद्रं गृध्रपक्षनालिकापरिणाहि च। शरीरोपचयं वर्णं वलमारोग्यमायुषः। कुरुते परिवृद्धिञ्च वस्तिः सम्यगुपासितः। दिवा शीतेवमन्ते च स्नेहवस्तिः प्रदोयते। ग्रीष्मवर्षाशरत्कालेरात्रौ स्यादनुवासनम्। न चातिस्निग्धगशनं गोजति-[Page4864-b+ 38] त्वानुवासयेत्। मदं मूर्च्छाञ्च जनयेद्विधा स्नेहः प्रयो-जितः। ” द्विधा भोजने वस्तौ च।
“रूक्षं मुक्तवतोऽन्यन्तंबलं वर्णञ्च हापयेत्। युक्तस्नेहमतो जन्तुं भोजयित्वानु-वासयेत्”। युक्तस्नेहं यथोचितस्नेहं भोज्यं भोजयि-त्वेत्यर्थः।
“हीनमात्रावुभौ वस्ती नातिकार्य्यकरौसृतौ। अतिमात्रौ तथानाहक्लमातीसारकारकौ” उभौ वस्ती अनुवासननिरूहाख्यौ।
“उत्तमा स्यात्पलैःषड्भिर्मध्यमा स्यात्पलैस्त्रिभिः। पलाद्यर्द्धेन हीना स्यादु-क्तमात्रानुवासने। शताह्वासैन्धवाभ्याञ्च देयं स्नेहे चहूर्णकम्। तन्मात्रोत्तममध्यान्त्या षट्चतुर्द्धयमाषकैः। विरेचनात्सप्तरात्रे गते जातबलाय च। भुक्तान्नायानु-वास्याय वस्तिर्देयोऽनुवासनः। अथानुवास्यं स्वभ्यक्त-मुष्णाम्बु स्वेदितं शनैः। भोजयित्वा यथाशास्त्रं कृतञ्च-ङ्क्रमण ततः। उत्सृष्टानिलविण्मूत्रं योजयेत् स्नेह-वस्तिना” उष्णाम्बुस्वेदितम् उष्णाम्बुना स्नापितम्।
“सुप्तस्य वामपार्श्वेन वामजङ्घाप्रसारिणः। कुञ्चितापर-जङ्घस्य नेत्रं स्निग्धे गुदे न्यसेत्। बद्धं वस्तिमुखं सूत्रै-र्वामहस्तेन धारयेत्। पीडयेद्दक्षिणेनैव मध्यवगेनघीरधीः। जृम्भाकासक्षयादींश्च यस्तिकाले न कारयेत्। त्रिंशन्मात्रामितः कालः प्रोक्तो वस्तेस्तु पीडने। ततःप्रणिहिते स्नेहे उत्तानो वाग्यतो भवेत्। स्वजानुनःकरावर्त्तं कुर्य्याच्छोटिकया पुनः। एषा मात्रा भवेदेकासर्वत्रैवेष निश्चयः। निमिषोन्मेषणं पुंसामङ्गुल्या च्छोटि-काथ वा। गुर्वक्षरोच्चारणं वा स्यान्मात्रेयं स्मृता बुधैः। प्रमारितैः सर्वगात्रैर्यथावीर्य्यं प्रसर्षति” यथावीर्य्यंस्नेहादि।
“ताडयेत्तलयोरेनन्त्रींस्त्रीन्वारान् शनैः शनैः। स्फिजोश्वैव तथा श्रीणीं शय्याञ्चैवोत्क्षिपेत्ततः। स्फिजोश्चैनं स्वपाणिभ्यां पूर्ववत्ताडयेद्बुधः। शय्याञ्च पद-तस्तस्य त्रीन् वारान्नुत्क्षिपेत्ततः। जाते विधाने तु ततकुर्य्यान्निद्रां यथासुखम्। सानिलः सपुरीषश्च स्नेहः प्र-त्येति यस्य तु। उपद्रवं विना शीघ्रं स सम्यगनुवासितः। जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः। लघ्वन्नंभोजयेत्कामं दीप्ताग्निस्तु नरो यदि। अनुवासितायदातव्यमितरेऽह्नि सुखोदकम्। धान्यशुण्ठीकषायं वास्नेहव्यापत्तिनाशनम्”। सुखोदकमुष्णोदकं व्यापत्तिर्व्या-धिः।
“अनेन विधिना षड्वा सप्त चाष्टौ नवापि वा। विधेया वस्तयस्तेषामन्ते चेव निरूहणम्। दत्तस्तु प्रथ-मो वस्ति स्नेहयेद्वस्तिवङ्क्षणौ। सम्यग्दत्ती द्वितीयस्तु मू[Page4865-a+ 38] र्द्धस्थमनिलं जयेत्। बलं वर्णञ्च स जयेत्तृतीयस्तु प्रयो-जितः। चतुर्थपञ्चमौ दत्तौ स्नेहयेतां रसासृजी। षष्ठो मांसं स्नेहयति सप्तमो मेद एव च। अष्टमो नवमश्चापि मज्जानञ्च यथाक्रमम्”। यथाक्रम-मिति वचनादष्टमोऽस्थि स्नेहयेत्।
“एवं शुक्रगतान्दोषान् द्विगुणः साधु साधयेत्। ” अष्टादशदिवसावधि-कवस्तिफलम्
“अष्टादशाष्टादशकाद्दिनाद् यो ना विषेवते। स कुञ्जरबलोऽश्वस्य जवतुल्योऽमरप्रभः। रूक्षाय बहु-वाताय स्नेहवस्तिं दिने दिने। दद्याद्वैद्यस्तथान्येषा-मग्न्याबाधभयात् त्र्यहात्। स्नेहोऽल्पमात्रो रूक्षाणांष्टीर्घकालमनत्ययः। ” अनत्ययः अबाधः।
“तथानिरूहः स्निग्धानामल्पमात्रः प्रशस्यते। अथ वा यस्यतत्कालं स्नेहो निर्याति केवलः। तस्याप्यल्पतरो देयोन हि स्निग्धेऽवतिष्ठते। ” अवतिष्ठते दत्तः स्नेह इति{??}षः
“अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः। तदाङ्गसदनाध्माने शूलं श्वासश्च जायते। पक्वाशयेगुरुत्वञ्च तत्र दद्यान्निरूहणम्। तीक्ष्णं तीक्ष्णौषधै-र्युक्तं फलवर्त्तिमथापि वा। यथानुलोत्रनो वायुर्मलःस्नेहश्च जायते। तथा विरेचनं दद्यात्तीक्ष्णं नस्यञ्चशस्यते। यस्य नोपद्रवं कुर्य्यात् स्नेहवर्त्तिरनिःसृता। सर्वोऽल्पो व्यावृतो रौक्ष्यादुपेक्ष्यः स विजानता। अनायातन्त्वहोरात्रे स्नेहं संशोधनैर्हरेत्। स्नेहवस्ता-वनायाते नान्यः स्नेहो विधीयते। गुडूच्येरण्डपूती-सभार्गीवृषकरौहिषम्। शतावरीं सहचरं काकनासांप्रलोन्मिताम्। यवमाषातसीकोलकुलत्थान् प्रसृतो-न्मितान्। अतुर्द्रोणेऽम्भसः पक्त्वा द्रोणशेषेण तेन च। पचेत्तैलाढकं सर्वैर्जीवनीर्वै पलोन्मितैः। अनुवासन-मेतद्वि सर्ववातविकारनुत्। ” पूतीकः करञ्जः रौहिषं{??}षत्सुगन्धतृणविशेषः। काकनासा (काकाठोठी)प्रसृतम् प्रलद्वयम्।
“षोढा सप्त व्यापदस्तु जायतेवस्तिकर्मणः। द्रषितान् समुदायेन तांश्चिकित्स्यात्तुसुश्रुतात्। समुदायेन सनुचितनेत्रादिसामग्र्या।
“मानाहारविहाराश्च परिहाराश्च कृत्स्नशः श्नेह-पानसमाः कार्य्या नात्र कार्य्या विचारणा। ”

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्ति¦ mf. (-स्तिः)
1. The lower belly, hypogastric or pubic region.
2. The bladder.
3. A clyster-syringe, or bag made of bladder or gut, with a wooden or metallic nozzle.
4. Abiding, dwelling, staying. plu. only (-स्तयः) The ends of a cloth. E. वस् to wear, Una4di aff. ति; or वस् to abide, क्तिन् aff.; or वस्ते आवृणोति मूत्रम् वस्-तिच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्तिः [vastiḥ], m., f. [वस्-तिः, Uṇ.4.188]

Residing, dwelling, staying.

The abdomen, the lower belly.

The pelvis.

The bladder.

A syringe, clyster.-Comp. -कर्मन् n. the application of an enema, injection. -कर्माढ्यः the soap-berry (Mar. रिठा). -कोशः a bladder, bag. -पीडा spasm in the bladder. -बिलम्, -मूलम् aperture of the bladder. -मलम् urine. -शिरस्n.

the pipe of a clyster.

the neck of the bladder.-शोधनम् a diuretic (which clears the bladder).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्ति m. or f. (for 2. See. col. 2) the ends or skirt of a cloth (also pl. ) L.

वस्ति f. (for 1. See. col. 1 , for 3. See. p. 933 , col. 1) abiding , dwelling , staying W.

वस्ति mf. (also written बस्ति; perh. connected with 2. वस्तिSee. p. 932 , col. 3) the bladder AV. etc.

वस्ति mf. the lower belly , abdomen VarBr2S. Ka1s3i1Kh.

वस्ति mf. the pelvis MW.

वस्ति mf. an injection-syringe made of bladder or the injection itself Katha1s. Sus3r. etc. [ cf. Lat. venter , vesica ; Germ. wanast , Wanst.]

"https://sa.wiktionary.org/w/index.php?title=वस्ति&oldid=244282" इत्यस्माद् प्रतिप्राप्तम्