यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्त्रम्, क्ली, (वस्यते आच्छाद्यतेऽनेनेति । वस आच्छादने + “सर्व्वधातुभ्यः ष्ट्रन् ।” उणा० ४ । १५८ । इति ष्ट्रन् ।) परिधानाद्युपयुक्तकार्पासादि- निर्म्मितवस्तु । कापड इति भाषा । तत्पर्य्यायः । आच्छादनम् २ वासः ३ चेलम् ४ वसनम् ५ अंशुकम् ६ । इत्यमरः ॥ सिचयः ७ प्रोतः ८ लक्तकः ९ कर्पटः १० शाठकः ११ कशिपुः १२ । इति जटाधरः ॥ वासनम् १३ द्बिचयम् १४ प्रोतम् १५ छादम् १६ वासम् १७ । इति शब्दरत्नावली ॥ * ॥ अस्य परिधानविधिर्यथा, भृगुः । “विकक्षोऽनुत्तरीयश्च नग्नश्चावस्त्र एव च । श्रौतं स्मार्त्तं तथा कर्म्म न नग्नश्चिन्तयेदपि ॥” विकक्षः परीधानासंवृतकच्छः । तथा च । “परीधानाद्वहिःकक्षा निबद्धा ह्यासुरी भवेत् ॥” स्मृतिः । “वामे पृष्ठे तथा नाभौ कक्षत्रयमुदाहृतम् । एभिः कक्षैः परीधत्ते यो विप्रः स शुचिः स्मृतः ॥” बौधायनः । “नाभौ धृतञ्च यद्वस्त्रमाच्छादयति जानुनी । अन्तरीयं प्रशस्तं तदच्छिन्नमुभयोस्तयोः ॥” प्रचेताः । दशा नाभौ प्रयोजयेत् । स्मृतिः । अधौतेन च वस्त्रेण नित्यनैमित्तिकीं क्रियाम् । कुर्व्वन् फलं न चाप्नोति दत्तं भवति निष्फलम् ॥” कुतपो नेपालकम्बलः ॥ * ॥ तर्पणात् पूर्ब्बं स्नानवस्त्रनिष्पीडननिषेधो यथा, -- “निष्पीडयति यः पूर्ब्बं स्नानवस्त्रन्तु तर्पणात् । निराशास्तस्य गच्छन्ति देवाः पितृगणैः सह ॥” यावालिः । “स्नानं कृत्वार्द्रवासास्तु विण्मूत्रं कुरुते यदि । प्राणायामत्रयं कृत्वा पुनः स्नानेन शुद्ध्यति ॥ * ॥ नार्द्रमेकञ्च वसनं परिदध्यात् कथञ्चन ॥” हारीतः । आर्द्रञ्च सप्तवातहतमपि शुद्ध- मिति ॥ * ॥ मदनपारिजाते पारस्करः । एकञ्चेद्वासो भवति तस्योत्तरार्द्धेन प्रच्छादय- तीति । इत्याह्निकतत्त्वम् ॥ * ॥ संक्रान्त्यादौ वस्त्रनिष्पीडननिषेधो यथा । षट्त्रिंशन्मत- निगमौ । “संक्रान्त्यां पञ्चदश्याञ्च द्वादश्यां श्राद्धवासरे । वस्त्रं न पीडतेत्तत्र न च क्षारेण योजयेत् ॥” इति तिथ्यादितत्त्वम् ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वस्त्रम् [vastram], [वस्-ष्ट्रन् Uṇ.4.172]

A garment, cloth, clothes, raiment; स्नातस्यानन्तरं सम्यग् वस्त्रेण तनुमार्जनम् । कान्ति- प्रदं शरीरस्य कण्डूयादोषनाशनम् ॥ कौषेयं चित्रवस्त्रं च रक्तवस्त्रं तथैव च । वातश्लेष्महरं तत्तु शीतकाले विधारयेत् ॥ मेध्यं सुशीतं पित्तघ्नं काषायं वस्त्रमुच्यते । तद्धारयेदुष्णकाले तच्चापि लघु शस्यते ॥ शुक्लं तु शुभदं वस्त्रं शीतातपनिवारणम् । न चोष्णं न च वा शीतं तत्तु वर्षासु धारयेत् ॥ Bhāva., P.

Dress, apparel.

A leaf of the cinnamon tree. -Comp. -अगारः, -रम्, -गृहम् a tent. -अञ्चलः, अन्तः the hem of a garment.

आगारम् a clothier's shop.

a tent. -आधारकः a layer of cloth (placed underneath); Suśr. -उत्कर्षणम् the act of taking off clothes.

कुट्टिमम् a tent.

an umbrella. -ग्रन्थिः the knot of the lower garment (which fastens it near the navel); cf. नीवि. -घर्घरी a cloth for straining, sieve.-धारणी a thing to hang clothes upon. -धाविन् a. washing clothes. -निर्णेजकः a washerman. -परिधानम् putting on garments, dressing. -पुत्रिका a doll, puppet.-पूत a. filtered through a cloth; वस्त्रपूतं पिवेज्जलम् Ms.6. 46. -पेशी a fringe. -भेदकः, -भेदिन् m. a tailor. -योनिः the material of cloth (as cotton). -रजकम्, -रञ्जनम् safflower. -विलासः foppery in dress. -वेशः, -वेश्मन् a tent. -वेष्टित a. well-clad.

"https://sa.wiktionary.org/w/index.php?title=वस्त्रम्&oldid=244593" इत्यस्माद् प्रतिप्राप्तम्