यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचकः, पुं, (वक्ति अभिधावृत्त्या बोधयत्यर्थान् इति । वच् + ण्वुल् ।) शब्दः । यथा । शास्त्रे शब्दस्तु वाचकः । इत्यमरः ॥ द्वे वाचके । प्रकृतिप्रत्ययद्वारेणार्थस्य वाचको गवादिरूपः शास्त्रे व्याकरणे तर्कादौ च शब्द उच्यते । लोके तु संस्वृतोऽसंस्कृतः शब्द उच्यते । वक्तीति वाचकः णकः । इति भरतः ॥ तत्पर्य्यायः । यथा । शब्दाभिलापौ त्वभिधाभिधानं वाचको ध्वनिः । ह्रासः कुहरितञ्चेति त्रिकाण्ड- शेषः ॥ * ॥ (तल्लक्षणं यदुक्तं मुग्धबोधटीकायां दुर्गादासः । “साक्षात् सङ्केतितं योऽर्थमभिधत्त स वाचकः ॥ * ॥ वाचयतीति । वच् + णिच् + ल्वुल् ।) कथकः । पुराणादिपाठकः । यथा, -- “ब्राह्मणं वाचकं विद्यान्नान्यवर्णजमादरात् । श्रुत्वान्यवर्णजाद्राजन् वाचकान्नरकं व्रजेत् ॥” तथा । “देवार्च्चामग्रतः कृत्वा ब्राह्मणानां विशेषतः । ग्रन्थिञ्च शिथिलं कुर्य्याद्वाचकः कुरुनन्दन ! । पुनर्ब्बध्नीत तत् सूत्रं न मुक्त्वा धारयेत् क्वचित् ॥ हिरण्यं रजतं गाश्च तथा कांस्योपदोहनाः । दत्त्वा तु वाचकायेह श्रुतस्याप्नोति तत्फलम् ॥” कांस्योपदोहनाः कांस्यक्रोडाः । “वाचकः पूजितो शेन प्रसन्नास्तस्य देवताः ॥” तथा । “ज्ञात्वा पर्व्वसमाप्तिञ्च पूजयेद्वाचकं बुधः । आत्मानमपि विक्रीय य इच्छेत् सफलं क्रतुम् ॥” तथा । “विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदं तथा । कलस्वरसमायुक्तं रसभावसमन्वितम् ॥ बुध्यमानः सदात्यर्थं ग्रन्थार्थं कृत्स्नशो नृप । ब्राह्मणादिषु सर्व्वेषु ग्रन्थार्थं चार्पयेन्नृप ! । य एवं वाचयेद्ब्रह्मन् स विप्रो व्यास उच्यते ॥” तथा । “सप्तस्वरसमायुक्तं काले काले विशाम्पते । प्रदर्शयन् रसान् सर्व्वान् वाचयेद्वाचको नृप ! ॥” इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचक¦ त्रि॰ वक्ति अभिधावृत्त्या बोधयति वच--ण्वुल्।
“साक्षात् सङ्केतितं योऽर्थमभिधत्ते स वाचकः” इत्युक्ते

१ शब्दभेदे

२ कथके त्रि॰। वाचयति वच--णिच्--ण्वुल्।

३ पुराणादिपाठके पु॰
“वाचकः पूजितो येनेति” पुरा॰
“ब्राह्मणं वाचकं विद्यान्नान्थवर्णजमादरात्। श्रुत्वान्य-वर्णजाद्राजन्! वाचकान्नरकं व्रजेत्”। तथा
“देवार्च्चा-मग्रतः कृत्वा ब्राह्मणानां विशेषतः। ग्रन्थिञ्च शिथिलंकुर्य्याद्वाचकः कुरुनन्दन!। पुनर्बघ्नीत तत्सूत्रं न मुक्त्वाधारयेत् क्वचित्। हिरण्यं रजतं गाश्च तथा कांस्योपदो-हनाः। दत्त्वा तु वाचकायेह श्रुतस्याप्नाति तत् फलम्”। कांस्योपदोहनाः कांस्यक्रोडाः
“वाचकः पूजितो येनप्रसन्नास्तस्य देवताः”। तथा
“ज्ञात्वा पर्वसमाप्तिच्च पूजये-द्वाचकं बुधः। आत्मानमपि विक्रीय य इच्छेत् सुफलंक्रतुम्”। तथा
“विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदंतथा। कलस्वरसमायुक्तं रसभावसमन्वितम्। बुध्यमानःसदात्यर्थं ग्रन्थार्थं कृत्स्नशो नृप!। ब्राह्मणादिषुसर्वेषु ग्रन्थार्थं चार्पयेन्नृप!। य एवं वाचयेद् ब्रह्मन्म विप्रो व्यास उच्यते”। तथा
“सप्तस्वरसमायुक्तं कालेकाले विशाम्पते!। प्रदर्शयन् रसान् सर्वान् वाचयेद्वाचको नृप” ति॰ त॰। वाचकलक्षणादि हेमा॰ दा॰ नन्दिपु॰ उक्त यथा(
“वाचको ब्राह्मणः प्राज्ञः श्रुतशास्त्रो महामनाः। अभ्यस्ताक्षरविन्यासो वृत्तशास्वविशारदः। शब्दार्थवि{??}[Page4872-a+ 38] प्रगल्भश्च विनीतो मेधया पुनः। गीतिज्ञो वाक्य-लश्राव्यः स्वरेणाखिलभाषकः” इत्युपक्रमे एवंविधा-नतो वाच्यं वाचकेन विपश्चिता। तपःशमात्मकं मर्वंस्वर्गादिफलसाधकम्। शनैर्विबोध्य वै वाच्यमध्यात्मादिच यद् भवेत्। क्रुद्धोक्तियुद्धसंक्षोर्भ धारावर्त्तोन (वे-गेन) वाचयेत्। सरागं ललितैर्वाक्यैर्वाचयेत् वृद्धसङ्गमे। नानावृत्तानुरूपेण लालित्येन च वाचयेत्। सर्गाध्यायेसमाप्ते च कथापर्य्यन्त एव वा। प्रशस्तशब्दसंयोगे कुर्य्या-दिति विरामणम्। समाप्तौ वाचक्रो भीष्म! ब्रूयादेवंविचक्षणः। अवधार्य्य जगच्छान्तिमन्ते शान्त्युदकंसृजेत्। सुश्रुतं सुश्रुतं ब्रूयादस्तु व्याख्यातमित्यदः। लोकः प्रवर्त्ततां धर्मे राजा चास्तु सदा जती। धर्मवान्धनसम्पन्नो गुरुश्चात्र निरामयः। इति प्रोच्य यथा-यातं गन्तव्यं च विभावतः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचक¦ mfn. (-कः-का-कं)
1. Declaratory, explaining, speaking.
2. Verbal, expressed by words. m. (-कः)
1. A word, a significant sound.
2. A speaker.
3. A reader.
4. A messenger. E. वच् to speak, aff. ण्वुल् |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचक [vācaka], a. [वच्-ण्वुल्]

Speaking, declaring, explanatory; उन्नीय मे दर्शय वल्गुवाचकं यद्व्रीडया नाभिमुखं शुचिस्तिते Bhāg.4.25.31.

Expressing, signifying, denoting directly (as a word, distinguished from लाक्षणिक and व्यञ्जक); साक्षात् संकेतितं यो$र्थमभिधत्ते स वाचकः K. P.2.

Verbal.

कः A speaker.

A reader.

A significant word.

A messenger. -Comp. -पदम् a significant word.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाचक mf( इका[ अकाw.r. ])n. speaking , saying , telling anything( gen. ) Hit. BhP.

वाचक mf( इका[ अकाw.r. ])n. speaking of , treating of , declaring (with gen. or ifc. ) Ra1matUp. MBh. etc.

वाचक mf( इका[ अकाw.r. ])n. expressive of , expressing , signifying RPra1t. Ra1matUp. MBh. etc.

वाचक mf( इका[ अकाw.r. ])n. verbal , expressed by words MW.

वाचक m. a speaker , reciter MBh. R. etc.

वाचक m. a significant sound , word W.

वाचक m. a messenger ib.

"https://sa.wiktionary.org/w/index.php?title=वाचक&oldid=246302" इत्यस्माद् प्रतिप्राप्तम्